पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 191, कुल 1267 में से
संदर्भ में पढ़ें१४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] 'स एषोऽसुः स एष प्राणः स एष भूतिः' इत्याद्यन्यखण्डगतं वाक्यम् । अनेन भूतित्वादिना देवाद्युपास्यत्वमुच्यते । 'स एषः' भ- गवान् दुष्टनिरसनादसुः प्रकृष्टानन्दरूपत्वात्प्राणः देवानां भूतिशब्दित- ज्ञानाद्यैश्वर्यप्रदत्वादसुराणां अज्ञानाद्यनैश्वर्यहेतुत्वाच्च भूत्यभूतिशब्द- वाच्य इत्यर्थः ॥ तत्रैव 'ता वा एताः सर्वा ऋचः सर्वे देवाः सर्वे घोषा एकैव व्याहृ- तिः । प्राण एव प्राण ऋच इत्येव विद्यात्' इति अन्यद्वाक्यम् । अत्र प्राणस्य सर्ववेदोक्तत्वमुच्यते । यास्ता एताः सर्वा ऋचस्तासां 'ए- कैव व्याहृतिः' एकमेव व्याहर्तव्यं प्रतिपाद्यम् । तच्च किं ? प्राणो वि- ष्णुरेव । किञ्च ये सर्वे वेदाः तेषामपि प्राण एव प्रतिपाद्यः । अपि च [L