पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 192, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४५ ( ४ ) विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते । स एव सर्ववेदोक्तस्तद्रथो देह उच्यते ॥ इति स्कान्दे । ( ५ ) ब्रह्मशब्दानुगमाच्च ॥ ( ४ ) ननु बाहुल्येन बलवतः सैद्धान्तिकलिङ्गादपि पूर्ववाद्युक्त लिङ्गमेव बलवत् । निरवकाशत्वेन स्वभावतो बलवत्त्वात् । न चावि- शेषेणानिर्णयः, बाहुल्येन बलवतोऽपि स्वभावबलिनः प्राबल्यात् । यदाहुः— द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोस्स्वभावो बलवान् उपजीव्यादिकश्च सः ॥ इति । अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो देवतोपदेश्यत्वादिलिङ्ग- नां निरवकाशत्वमपि स्मृत्या साधयति—विष्णुमिति ॥ देवाः विष्णु- मेव प्राधान्येन शिष्यादिषु ज्ञानसम्प्रदायप्रवर्तनेन 'आनयन्' उपादि- शन् । भूतिमुद्दिश्य विष्णुमेवोपासते । भूतिमिति विधेयविशेषणं वा । तथा च विष्णुं भूतिं भूतिर्ज्ञानाद्यैश्वर्यरूप इत्युपासते इत्यर्थः । ' सः ' विष्णुर्मुख्यवाच्यतयेति शेषः, तेनैवकारोपपत्तिः । ' तद्रथो ' विष्णोरे- व रथः । अत्रैवकारस्य द्विर्ग्रहणात्सर्वत्रानुषङ्गः सूचितः । तेन सर्व- लिङ्गानामपि निरवकाशत्वमुक्तं भवति । स्कान्दे इत्यनन्तरं लिङ्गाना- मनन्यथासिद्धत्वमुक्तमिति वाक्यशेषः । तथाचैकप्रकारेण प्रबलात्पू- र्वपक्षिलिङ्गात्प्रकारद्वयेनापि प्रबलस्य सैद्धान्तिकलिङ्गस्याधिक्येन निर्णयोपपत्तिरिति भावः । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु पूर्वपक्षि- लिङ्गस्य न निरवकाशत्वेनापि प्राबल्यमस्ति, प्राणैः सहगणितत्वस्या- न्तर्यामिनिष्टतासम्भवात् ॥ ( ५ ) यदा बहुत्वनिरवकाशत्वाख्यप्रकारद्वयेनापि दुर्बललिङ्गस्यो- भयथाप्रबललिङ्गतो बाधसम्भवेन तेनैव प्राणस्य विष्णुत्वसिद्धिः, त- दा किमु वाच्यं निरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्र- कारान्तरेण व्याचष्टे-ब्रह्मेति ॥ अस्मिन् प्रकरणे ' एतद्ब्रह्म ' (ऐ.आ.२- १-१०) 'ब्रह्मणो लोकः' (ऐ.आ.२-१-३.) 'ब्रह्मेमं पुरुषम्' (ऐ.आ.२-१-४.) 'उदरं ब्रह्मेत्याचक्षते' (ऐ.आ.२-१-४.) 'अ इति ब्रह्म' (ऐ.आ.२-३-८.) इ- त्यादिनिरवकाशब्रह्मशब्दाभ्यासाच्चेत्यर्थः । एतद्विष्णुस्वरूपं ब्रह्म गुण- पूर्णम् । अयं जीवो ब्रह्मणः परस्याश्रयः । इमं पुरुषं चतुर्मुखं परब्रह्म १९