पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 200, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५३ ( १५ ) तत्तदुपासनायोग्यतया च पुरुषाणाम् । ( १६ ) केषां चित्सर्वगत्वेन केषां चिद्धृदये हरिः । केषां चिद्बहिरेवासौ उपास्यः पुरुषोत्तमः ॥ इति ब्राह्मे । ( १७ ) अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः । ष्णुः' तदवतारभूतः पूर्वोक्तः स एवात्र विवक्षित इत्याह-साक्षादिति । ब्रह्माण्डे पुराण इत्यस्याश्रितत्वादित्यनेनान्वयः । महिदासस्य विष्णुत्वो- क्तिरिति तदर्थः । तेन चशब्दान्वयः ॥ ( १५ ) नन्वेकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात्किमुपा- सात्रैविध्येन इत्यतः प्रवृत्तं 'तद्योगात्' इति सूत्रशेषं व्याचष्टे—तत्त- दिति ॥ उपासनेत्यनेन पुरुषाणामित्यनेन च तदित्यस्यावृत्तिः सूचि- ता । चः समुच्चये । तथा च तेषां पुरुषाणां मनुष्यर्षिगन्धर्वदेवाख्या- धिकारिणां तेषु त्रिविधोपासनेषु मध्ये तत्तदुपासने यथाक्रमं बहिर- न्तर्व्याप्तिरूपैकैकोपासन एव योग्यतया योग्यत्वेन हेतुनेत्यर्थः । अस्यो- पासात्रैविध्यादित्यनेनान्वयः । तथाचानेकविधोपास्तियोग्यतावताम- धिकारिणां नैकविधोपासनया ब्रह्मज्ञानमिति तत्रैविध्यमावश्यकमिति भावः ॥ ( १६ ) पुरुषाणामुक्तानेकविधोपासनयोग्यता कुतो ज्ञायत इत्यतः कर्तृविशेषाननुपादाय सामान्यतः उपासकत्रैविध्यप्रतिपादिकां स्मृतिं पठति—केषां चिदिति ॥ 'पुरुषोत्तमो' हरिः 'केषां चित्' देवानां देवैः सर्वगतत्वेन प्रकारेणोपास्यः । 'केषां चित्' ऋषिगन्धर्वादीनां 'हृदये' स्वस्वहृदयाकाशे उपास्यः । 'केषां चित्' मनुष्योत्तमानां तु बहिरेवोपास्य इत्यर्थः । प्राचुर्यादेवमुक्तिः । इति ब्राह्म इत्यस्य तत्तदु- पासनयोग्यतया तद्विशिष्टत्वेन पुरुषाणामाश्रितत्वादुक्तत्वादिति पूर्वे- णान्वयः ॥ ( १७ ) अत्रैवाधिकरणे कर्तृविशेषप्रतिपादकं विशेषप्रमाणमाह— अग्नाविति ॥ विष्णुः 'क्रियावतां' यज्ञादिक्रियानुष्ठातृणां 'अग्नौ' गा- र्हपत्यादौ उपास्यः हरिः । 'योगिनां' ऋषीणां हृदये उपास्यः । 'अ- प्रबुद्धानां' मन्दमतीनां अत्यल्पप्रतिभानां मनुष्योत्तमानां 'प्रतिमासु' कृष्णरामादिविग्रहेषु उपास्यः । 'विदितात्मनां' विशेषतो ज्ञातभगव- द्रूपाणां अद्भुतप्रतिभानां देवानां तु 'सर्वत्र' सर्वस्थानेषूपास्य इत्य २०