पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 201, कुल 1267 में से
संदर्भ में पढ़ें१५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ र्थः । अत्राग्नौ प्रतिमास्विति वाक्यद्वयेन बहिर्मात्रोपासनोपलक्ष्यते । अतएव स्थानद्वयोक्तिः। यथाश्रुते सूर्यादौ विष्णूपास्तेर्बहिरुपासित्त्वं न स्यात् । योगिनामित्यनेनान्तरुपास्तिरुक्ता । 'ऋषयोऽन्तःप्रकाशाः' ( ) इति श्रुतेः । सर्वत्रेति सर्वगतोपास्तिरिति ज्ञातव्यम् । न चात्र "येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेव" इति बृहद्भाष्येण " भगवान् बिम्बदर्शनेनैनं मोचयति " इति न्यायवि वरणेन च विरोधश्शङ्क्यः । अग्नाविति वाक्येऽन्यनिषेधाभावेन बि म्बशब्दितस्वस्वयोग्यात्मापरोक्षार्थं हृद्युपासनस्यापि सर्वैः कार्यत्वा भ्युपगमात् । मोचकयोग्यापरोक्षद्वारभूतावताराद्यपरोक्षसाधनोपास नाया एव तैस्तैः प्राचुर्येण प्रकरणस्याग्नाविति वाक्येन व्यवस्थया प्र तिपादनाच्च । इति चेति । चः समुच्चये । वचनद्वयस्याप्येकार्थसाध कत्वादस्यापि ब्राह्मे आश्रितत्वादिति पूर्वेणान्वयः। तत्तदुपासनयोग्य तावत्त्वेन पुरुषविशेषाणामुक्तत्वादिति तदर्थः । अतो न तद्योगादिति हेत्वसिद्धिः शङ्क्येति भावः ॥ अनेन नात्रोक्तप्राणो विष्णुः, किन्तुजीवमुख्यप्राणावेव । कु तः? 'जीवमुख्यप्राणलिङ्गात्' शतायुष्ट्वरूपजीवलिङ्गस्य प्राणसंवादा दिरूपमुख्यप्राणलिङ्गस्य चेह श्रवणादिति चेत्—न, विष्णुरेवायं प्रा णः, न जीवादिः । कुतः? 'अनुगमात्' हेतोरेव, न चान्यश्रुतिलिङ्गवि रोधः । उक्तरीत्या 'तद्योगात्' तेषामन्तर्यामिविषयत्वोपपत्तेः । यत श्शास्त्रदृष्ट्याऽयं उपदेश इति वा । किमर्थमत्रान्तर्यामिकथनमिति चे त्, अन्तरुपास्त्यर्थमिति ब्रूमः । न चोपासनेऽवान्तरभेदाभावः । 'उपा सात्रैविध्यात्'अन्तरादिभेदेन भगवदुपासनस्य त्रिविधत्वात्। न च त थापि कथनमुक्तम् । वास्तवत्रैविध्यस्येहानुक्तस्य कथनाप्रयोजक त्वादिति वाच्यम् । 'इह' प्रकरणे तत्रैविध्यस्याश्रितत्वादुक्तत्वात् । न चैकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात् किमुपासात्रैविध्ये नेति वाच्यम् । 'तद्योगात्' तेषां पुरुषाणां तस्मिन् तदुपासन एव योग्यत्वात् । अनेकविधोपासितयोग्यतावतां च पुरुषाणां एकविधोपा सनयाऽपरोक्षासम्भवेन योग्यताभेदादुपासात्रैविध्यस्यावश्यकत्वाद्वि ति सूत्रार्थ उक्तो भवति । न च विवादकर्तृत्वलिङ्गस्यान्तर्यामिविष यत्वे 'उदासीनौ च तावास्तां केशवाब्जसम्भवः' इति वचनविरो