पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 204, कुल 1267 में से
संदर्भ में पढ़ें[ अधि-१०. सू- १०] दीपिकासहितम्. १५७ स्यैतस्यासावादित्यो रसः' (ऐ. आ. ३-२-३.) इ त्यादिनाऽऽदित्यस्य प्रतीयते । ति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति. .सूर्य आत्मा जग तस्तस्थुषश्च.. एतं सर्वेषु भूतेषु' (ऐ. ३-२-३.) इत्यादिवाक्यं गृह्यते । अत्र तस्येत्यादेरुपन्यासः एतमिति परामर्शनीयसमर्पकतयाऽऽवश्यक त्वात्पूर्वपक्षयुक्तिप्रदर्शनार्थं च कृतः । तथाच यत एतमित्युत्तरवाक्ये नोक्तं सर्वप्राणिहृदयस्थत्वं तस्येत्यादिना पूर्ववाक्येन प्रकृतत्वात्तस्या दित्यस्यैव प्रतीयते, अतस्तस्यैव तत्पूर्वोक्तं ततमत्वमपि भवेत् । न वि ष्णोरिति योजना। अत्र पूर्वपक्षे ततमत्वं सङ्कुचितं सर्वभूतगतत्वरूपं वि वक्षितम् । न चैवं सिद्धान्त्यभिमतनिरवधिकसर्वगतत्वाक्षेपाप्राप्तिरि ति वाच्यम् । पूर्वपक्षे 'एतमेव' इति अवधारणेन विष्णोरन्यस्यैव सर्व भूतगतत्वाद्विष्णोः भूतादन्यत्र सत्त्वेऽपि सर्वभूतगतत्वाप्राप्त्याऽऽ क्षेपोपपत्तेः । अनेन पूर्वोक्तततमत्वान्तर्गतसर्वभूतगतत्वस्य विष्णो रन्यत्राक्षेपात् तेनास्याक्षेपिकी सङ्गतिः, विषयसंशयौ, विष्णोरन्य स्यैव सर्वप्राणिगतत्वमिति सयुक्तिकपूर्वपक्षश्च दर्शितो भवति । सिद्धान्ते श्रुत्यर्थस्तु — 'तस्य' प्रकृतस्य 'एतस्य' संवत्सरना मकस्य चतुर्मुखस्य सर्वांदित्वततमत्वनियामकत्वनिमित्तैरादि त्यनामा प्रद्युम्नो रसः सारभूतः । स यश्चायं पुरुषदेहगतः प्राक् तद्देहवर्जनादशरीरः 'प्रज्ञात्मा' ज्ञानरूपोऽनिरुद्धः । यश्चासावादि त्ये स्थितः प्रद्युम्न एतत्स्थानद्वयगतं रूपमेकमिति विद्यात् । तस्मा त्पुरुषादित्यगतानिरुद्धप्रद्युम्नयोरैक्यादादित्यः 'पुरुषं पुरुषं प्रति' प्र तिपुरुषं 'भवति' अभिमुखो भवति । प्रतिगृहं कूप इतिवत्सर्वपुरुष गतो भवतीति चेति । 'जगतो' जङ्गमस्य 'तस्थुषः' स्थावरस्य'आत्मा' आदानादिकर्ता 'सूर्यः' सूरिप्राप्यो विष्णुर्दिवं पृथिवीमन्तरिक्षं च 'आऽप्राः' आसमन्तादपूरयदित्यर्थः । एतमित्यादीनां सप्तम्यन्तपदैः प्र त्येकं सम्बन्धः । तथा च 'बह्वृचाः' ऋग्वेदिनः 'एतं ह्येव' एतमेव पुरु षादित्यगतमेव हि विष्णुं 'महत्युक्थे' महदुक्थनामकबृहतीसहस्रे तद्देवताविषये तद्देवतामिति यावत् 'मीमांसन्ते' जानन्ति । 'अध्व र्यवो' यजुर्वेदिनः 'अग्नौ' चयनसाधनेष्टकादेवताविषये तद्देवतां मी मांसन्ते । 'छन्दोगाः' सामवेदिनो 'महाव्रते' तदाख्यस्तोत्रस्य देव