पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 226, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ११. ] दीपिका सहितम्. १७९ पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् ॥ इति पाद्मे ॥ ( ६ ) 'यो वेद निहितं गुहायाम्' ( तै. २-१०) इत्यादिना केः । तथा च—पूर्णानन्दरूपस्यास्य विष्णोः 'चेष्टा' ऐश्वर्यं क्वचि- त्काले देशे केनापि साकल्येन 'न ज्ञायते' न चिन्त्यते इत्यर्थः । तथा च—ऐश्वर्यबलेन पूर्णानन्दस्यापि सुखभोगो युक्त इति भावः ॥ यद्वा—विष्णोर्भोक्तृत्वाभ्युपगमे 'अनश्नन्नन्यः' ( मु. ३-१-१० ) इति श्रुतिविरोध इत्यत आह—शुभमिति ॥ पराधीनभोगाभावविषयं अशुभभोगाभावविषयं वा तद्वाक्यमिति भावः । न च 'नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते । नासौ नीचोच्चतां याति' इति वाक्यवि- रोधः, सुखभोगस्योच्चतारूपत्वादिति वाच्यम् । विष्णौ जीवसमवेते भोगे स्वीकारमात्राभ्युपगमेन उच्चतासम्पादकविक्रियाविशेषानभ्युप- गमात् । उक्तं हि तत्त्वप्रदीपे—न च 'अनश्नन्नन्यः' इति श्रुतिविरोधः । न हि पराधीनतया भोगो, नाप्यप्रियभोगो, न च तन्निमित्तोच्चनीचता विष्णोः, किन्तु—जीवसमवेते भोगे स्वीकारमात्रमुच्यत इति । यद्वा- नीचोच्चतासम्पादको भोगः स्वीयतया साक्षात्कारः, स चाभिमानयु- तो विवक्षितः, न चासावीश्वरे इति न विरोधः । पाद्म इत्यनन्तरं उ- क्त्वादिति शेषः । तथा च—न श्रुतियुक्तिविरोध इति भावः ॥ ( ६ ) ननु कथं गुहानिविष्टत्वलिङ्गात्पिबतो विष्णृत्वनिश्चयः, त- स्य जीवेऽपि योगादित्यत आह—यो वेदेति ॥ विष्णोरेव गुहानिहित- त्वमत्र ग्राह्यमिति चोपस्कर्तव्यम् । आदिशब्देन 'आत्माऽन्तरात्मा' इ- ति 'श्रोत्रं चक्षुः' इति 'अहं वैश्वानरो भूत्वा' इत्यादिसमृतिर्गृह्यते । तथा च-इत्यादिना विष्णोरेव प्रसिद्धं गुहानिहितत्वमत्र ग्राह्यमिति इ- ममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थः । तथा च—हृदयगुहास्थत्व- मात्रस्य जीवे सम्भवेऽपि न तदिह हेतुत्वेन गृह्यते । किन्तु—श्रुत्यादि- प्रसिद्धं मोक्षजनकज्ञानप्रकारीभूतं प्राधान्येन गुहानिहितत्वमेव । तच्च जीवे निरवकाशमिति भावः ॥ सूत्रे समन्वयसूत्रात्तुशब्दमात्रमनुवर्तते । आत्मानवित्यवर्तते । तथा च 'आत्मानौ' आधेयं सुखं मात्यनुभवतीति व्युत्पत्त्या आत्मश- ब्दोक्तशुभकर्मफलभोक्तारौ 'आत्मानावेव' आत्मान्तरात्माख्ये विष्णुरूपे एव, न तु जीवेश्वरौ । कुतः ? हि यस्मात्तौ हृदयगुहां प्रविष्टौ तस्मात् ।