पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 231, कुल 1267 में से
संदर्भ में पढ़ें| १२४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २. ] यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥ इत्यादेर्नासत्यो भेदः ॥ १२ ॥ पराशृणीतमचितो न्योषतं हतं नुदेथां निशिशीतमत्रिणः । ( ऋ.७-१०४-१०) इन्द्रा सोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । तपुर्वधेभिरजरेभिरत्रिणः ; ( ऋ.७-१०४-५.) इत्यादिका श्रुतिः । एषां भिज्जगदीश्वरजीवानां नास्ति तेऽत्रिणः । स्वाज्ञानकल्पितजगत्परमेश्वरस्य जीवस्य भेदकलुषीकृतभूमभावे । इति हि मायिनो वदन्ति । आच्छाद्य विक्षिपति संस्फुरदात्मतत्त्वं । जीवेश्वरस्य जगदाकृति तन्मृषैव । इत्यादि च । त्रियातुधानः प्रसितिं तयेत्वृतं यो अग्रे अनृतेन हन्ति । ( ऋ.१०-८६-११.) वाचा स्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः । ( ऋ.१०-८७-१५.) ‘अथ ज्ञानोपसर्गः’ इत्यारभ्य ‘येचान्ये मिथ्यातर्कैर्दृष्टान्तैः कु हकैरैन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् । प्रकाइया ह्येते तस्करा अस्वर्ग्याः’ (मैत्री. ७ - ८.) इत्यादिश्रुतिशतैरन्धं तम एव मायिनां गतिरिति निश्चीयते । तथा च स्कान्दे— सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः । अन्यसाम्यविदो विष्णोः विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न तेषां उत्थितिः क्वचित् ॥ इति ॥ ॥ इति गुहाधिकरणम् ॥