भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 237, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 237

An exact line-by-line transcription of the Sanskrit text:

१९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ६ ) ब्रह्मशब्दाद्युपपत्तेश्च । ( ७ ) ‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया । ( ८ ) अन्तर्यामिणमीशमपेक्ष्याहं त्वमित्यपि । सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु ॥ पपत्तेर्युक्तत्वादन्यत्रायुक्तत्वादिति योजना । अनेन लिङ्गस्य निरवका- शत्वानेकत्वाभ्यां प्राबल्यमुक्तं भवति । 'अमृतं' मृतिरहितं 'यदभयं' भयरहितं यच्च ‘तितीर्षतां' संसारतरणेच्छूनां 'पारं' संसारस्य पा- रस्थं तदुत्तरावधिभूते श्वेतद्वीपादौ स्थितं मुक्तप्राप्यं परं ब्रह्म तत् ध्यातुं साधनं वक्तुं वयं 'शकेमहि' शक्ताः स्म इति कठश्रुत्यर्थः ॥ ( ६ ) यद्येवं निरवकाशत्वानेकत्वाभ्यां बलवल्लिङ्गबलाच्चक्षुरन्तः- [L