भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

An exact line-by-line transcription of the Sanskrit text:

१९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ६ ) ब्रह्मशब्दाद्युपपत्तेश्च । ( ७ ) ‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया । ( ८ ) अन्तर्यामिणमीशमपेक्ष्याहं त्वमित्यपि । सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु ॥ पपत्तेर्युक्तत्वादन्यत्रायुक्तत्वादिति योजना । अनेन लिङ्गस्य निरवका- शत्वानेकत्वाभ्यां प्राबल्यमुक्तं भवति । 'अमृतं' मृतिरहितं 'यदभयं' भयरहितं यच्च ‘तितीर्षतां' संसारतरणेच्छूनां 'पारं' संसारस्य पा- रस्थं तदुत्तरावधिभूते श्वेतद्वीपादौ स्थितं मुक्तप्राप्यं परं ब्रह्म तत् ध्यातुं साधनं वक्तुं वयं 'शकेमहि' शक्ताः स्म इति कठश्रुत्यर्थः ॥ ( ६ ) यद्येवं निरवकाशत्वानेकत्वाभ्यां बलवल्लिङ्गबलाच्चक्षुरन्तः- [L

[ अधि - ४. सू - १४. ] दीपिकासहितम्. १९१


इति महाकौर्मे ॥ ( ९ ) सू—ॐ ॥ स्थानादिव्यपदेशाच्च ॥ ॐ ॥ १४ ॥ ‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव ग च्छति’ ( छा. ४-१५. ) इत्यादिस्थानशक्तिः । वामनि


ष्ट्रादीनां ईशमित्यन्तर्यामित्वोपपादकम् । तथा च—‘वस्तुषु’ अग्न्या दिजीवेषु ईशाद्भेदे सत्यपि तदभेदबोधकोऽहमितिशब्दः त्वमितिश ब्दः । किं बहुनाऽभेदसाधकाः सर्वे तत्तच्छब्दाः प्रयुज्यन्ते । कथम् ? यतोऽन्तर्यामिणमपेक्ष्यैवैते शब्दाः प्रयुज्यन्ते नैतावता अग्न्यादिजीवा नां ईशाभेदः शङ्क्यः । यतः सोऽन्तर्यामी ईशेशो ब्रह्माद्युत्तम इत्यर्थः । महाकौर्मे इत्यस्य उक्तत्वादित्यध्याहारेण सोऽहमिति पूर्ववाक्येना न्वयः ॥

१९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] भामनिरित्याद्यात्मशक्तिश्चोच्यते । तस्य ह्येतल्लिङ्गम् । (१०) 'स ईशः सोऽसपत्नः स हरिः स परः स परोवरी यान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्म नी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः' इति चतुर्वेदशिखायाम् ॥ एतं 'सर्वाणि वामानि' स्त्रीरूपाणि अभिसंयन्ति प्राप्नुवन्ति । अनेन संयन्ति वामानि एनमिति विग्रहो दर्शितः । 'एष उ' चक्षुर्गत एव मुख्यतो वामनिरित्युच्यते । कुतः? हि यस्मादेषः 'सर्वाणि वामानि' सुन्दररमादिस्त्रीरूपाणि 'नयति' प्रेरयति । एष उ एव चाक्षुषः पुरु षो 'भामनिः' मुख्यतः तच्छब्दवाच्यः । कुतः ? हि यस्मादेष 'सर्वेषु लोकेषु' पुरुषेषु

[ अधि - ४. सू - १५. ] दीपिकासहितम्. १९३ ( ११ ) यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः । स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत् ॥ इति वामने ॥ १४ ॥ ( १२ ) सू—ॐ ॥ सुखविशिष्टाभिधानादेव च ॥ ॐ ॥ १५ ॥ 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति' ( छा. ४-१०. ) खायामित्यनन्तरं उक्तत्वादिति शेषः । अस्य तस्यैतल्लिङ्गमिवि ज्ञाय- ते इति पूर्वेणान्वयः ॥ ( ११ ) लिङ्गस्वरूपस्य तस्य विष्णुरूपव्यक्तिविशेषनिष्ठतायाश्च श्रु- तावस्फुटत्वात्तदर्थमवार्थे स्मृतिं चाह—यदिति ॥ यस्य स्थानत्वा- दित्यर्थे । अस्य यच्छब्दस्य स इति तच्छब्देनान्वयः । 'सर्ववस्तुभिः' सर्पिरादिभिः । 'वामनः' सुन्दरस्त्रीनेतेति वामनाख्यो विष्णुरेव 'अ- स्माकं' भ

१९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १३ ) 'विज्ञानमानन्दं ब्रह्म' ( बृ. ५-९-२८. ) 'आनन्दो ब्र ह्मेति व्यजानात्' ( तै. ३-६. ) इत्यादेस्तस्यैव हि तल्लक्षणम् । ( १४ ) लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्रुडानन्दभागिनः ॥ इति ब्रह्मवैवर्ते । त्वं सिद्धयति किमुत तदा 'खं ब्रह्म' इति पूर्णज्ञानादपीति कैमुत्यन्या यसूचनाय सूत्रे एवकारः । यद्यपि छान्दोग्यभाष्ये 'प्राणो ब्रह्म' बलं रूपं ब्रह्म । 'कं' पूर्णानन्दरूपं ब्रह्म । 'खं' पूर्णज्ञानरूपं 'ब्रह्म' परं ब्र ह्मेति व्याख्यातम् । तथापि तद्ब्रह्मशब्दस्य परापरयो रूढ्या वृत्त्या व्या ख्यानान्तरमित्यदोषः ॥ ( १३ ) ननु उपक्रमे पूर्णसुखसंविदोर्भिधानेऽपि कुतोऽस्य प्रकर णस्य वैष्णवत्वमित्याशङ्क्य तयोस्तल्लक्षणत्वात् तद्रूपत्वात् उपक्रमे तदभिधाने ब्रह्मैवोपक्रान्तं स्यादिति भावेन पूर्णसुखज्ञानयोर्ब्रह्मलक्षण त्वं श्रुत्या दर्शयति—विज्ञानमिति ॥ विज्ञानादिरूपं ब्रह्मेत्यर्थः । अत्र विज्ञानादिपदं पूर्णज्ञानादिवाचि, सङ्कोचे कारणाभावादिति प्रकृतस ङ्गतिः । इदं वाजसनेये श्रुतम् । 'आनन्दो ब्रह्म' इति । तैत्तिरीयवा क्यादिति शेषः । आदिशब्देन 'अथैष एव परम आनन्दः' 'सत्यं ज्ञा नम्' इत्यादिकं गृह्यते । तथा च इत्यादेर्वाक्यात् 'तस्य' ब्रह्मणः 'तत्' पूर्णानन्दादिकं 'लक्षणं' स्वलक्षणं ज्ञायत इत्यर्थः । तथा च-श्रुत्यन्त रे ब्रह्मलक्षणत्वेनावगतयोः पूर्णज्ञानसुखयोरत्र प्रकरणेऽभिधानात् अ स्य वैष्णवत्वसिद्धिरिति भावः ॥ ( १४ ) ननु सकलचेतनानामपि पूर्णानन्दत्वात्कथमेतद्विष्णुलक्षण मित्यत आह—लक्षणमिति ॥ स्वरूपधर्मोभयार्थकोऽयम् । 'परमान न्दः' निरवधिकपूर्णानन्द एव लक्षणम् । इह लक्षणत्वेनाभिप्रेतः न पू र्णानन्दमात्रम् । स च विष्णोरेव नान्येषाम् । अन्येषां त्वापेक्षिकमेव पूर्ण सुखं, न विष्णुवन्निरवधिकं पूर्णमित्यर्थः । कुत इत्यत आह—य तः अव्यक्तादीति । अव्यक्ता श्रीः सैवादिर्येषां ते तथोक्ताः । तृणजीवा मनुष्योत्तमा एवान्ते एषां ते तथोक्ताः । अव्यक्तादयश्च ते तृणान्ता श्चेति कर्मधारयः । तुशब्दो विशेषार्थः । 'विप्रुडानन्दभागिनः' तारत म्येन ब्रह्मानन्दप्रतिबिम्बवत्त्वापेक्षिकानन्दयुक्ता इत्यर्थः । चेतना इति शे

[ अधि - ४. सू - १६. ] दीपिकासहितम्. १९५ ( १५ ) न च मुख्ये सत्यमुख्यं युज्यते ॥ १५ ॥ ( १६ ) सू - ॐ ॥ श्रुतोपनिषत्कगत्यभिधानाच्च ॥ ॐ ॥ १६ ॥ पः । 'न संशय' इत्यस्यार्थस्य सावधारणत्वमाह । ब्रह्मैवैतद् इत्यस्यो- क्तत्वादित्यध्याहारेण 'तस्यैव तल्लक्षणम्' इति सावधारणपूर्ववाक्ये- नान्वयः ॥ ( १५ ) नन्वम्रादिसुखस्यापेक्षिततयाऽपि पूर्णत्वसद्भावात्तेषां पूर्ण- सुखमिदं किं न स्यात् । तथा तेषां तल्लक्षणं किं न स्यात् । तथा तेषा- मेवेदं प्रकरणं किं न स्यात् इत्यत आह — न चेति ॥ 'मुख्ये' निरव- धिकपूर्णत्वे 'कं ब्रह्म' इति श्रुत्यर्थतया तल्लक्षणे सम्भवति सति 'अ- मुख्यं' आपेक्षिकमन्याधीनं पूर्णत्वं न युज्यते इत्यर्थः ॥ ( १६ ) नन्वेतदुपक्रमे सुखज्ञानयोरभिधाने

१९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ' स एनान् ब्रह्म गमयति' (छा. ४-१५.) इति । द्विद्यानां पुंसां केन वायुना कगतेः 'कं ब्रह्म'इति वाक्यबोधितब्रह्मप्राप्तेः ' स एनान् ब्रह्म गमयति' इत्युपसंहारेऽभिधानात् विष्णुविषयैवाक्षि स्थविद्या, न त्वग्निविषयेति सूत्रार्थः । यद्वा-श्रुतोपनिषदमुपकोसलं प्रत्यग्निभिरेतद्विद्याफलत्वेन ब्रह्मगत्यभिधानाद्वैष्णवमेवेदं प्रकरणं, न त्वग्निविषयमित्यर्थः । तत्त्वप्रदीपे तु-' स एनान् ब्रह्म गमयति' इति श्रुतोपनिषत्कानां श्रुतोपनिषद्वतोपासनानां ब्रह्मगत्यभिधानाच्च आन्त रो विष्णुरेव । अस्यामुपनिषीदति ब्रह्मेत्युपनिषत् उपासना । अनया ब्रह्म उपनिषीदतीति वेत्युक्तम् । श्रुतिविषयिणी या उपनिषत् मति र्ध्यानरूपोपासना तत्कानां तद्गतं तद्विषयकं ध्यानरूपोपासनं तद्गता मित्यर्थः । अनेन उपनिषच्छब्दो मतिध्यानरूपोपासनापरः । ब्रह्मेत्यने न बहुव्रीहिसमासावयवभूतः कशब्द आवृत्तो ब्रह्मवाचक इत्युक्तं भ वति । अत एवाह टीकाकृत्- श्रुतपदं मनननिदिध्यासनयोरुपलक्ष कमित्यादिना । तत्त्वप्रदीपपक्षे-उपनिषच्छब्द उपासनापरः । टीका कृतपक्षे विद्यापरः । टीकायां वाशब्दश्चार्थः । यद्यप्यस्य सूत्रस्य प्रकर णविच्छेदशङ्कापरिहारायोपसंहारस्थलिङ्गोक्तिपरत्वेन परमसाध्ये यु क्त्यन्तरप्रतिपादकत्वाभावादत्र चशब्दो न योज्यः । तथाऽपि ' स एनान् ब्रह्म' इत्युपसंहारस्थस्यैतद्विद्यावेत्तॄणां ब्रह्मप्राप्तिरूपलिङ्गस्य चक्षुरन्तरो विष्णुरेवेति परमसाध्येऽपि साक्षादन्वयादस्य च लिङ्ग स्य आद्यसूत्रोक्तामृतत्वाल्लिङ्गापेक्षयोत्तरवाक्यस्थद्वितीयसूत्रोक्तलिङ्गा पेक्षया तृतीयसूत्रोक्तप्रकरणापेक्षया युक्त्यन्तरत्वात्तद्विवक्षया सूत्रे चशब्दप्रयोगोपपत्तिरिति केचिदाहुः । वस्तुतस्तु--अत्र प्रकरणविच्छे दशङ्कापरिहारेऽपि पूर्वसूत्रेऽत्र चैतत्प्रकरणस्य वैष्णवत्वरूपाध्याहृता वान्तरसाध्यस्यैकत्वेन तत्रानेन युक्त्यन्तराभिधानाच्चशब्दोपपत्तिः । अथ 'यदु चैवास्मिञ्छव्यं कर्म कुर्वन्ति यदि चनार्चिषमेवाभिसंभव न्ति । अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुद ङ्ङेति मासान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं च न्द्रमसो विद्युत्तं तत्पुरुषो मानवः स एनान् ब्रह्म गमयति' इति छा न्दोग्यश्रुतेरयमर्थः-अथेत्यर्थान्तरे । 'अथ'अवासितकर्मणि 'अस्मिन्' ज्ञानिविषये पुत्रादयो यदि 'शव्यं' शवयोग्यं दहनादिकर्म कुर्वन्ति । 'यदि च न' यदि वा न कुर्वन्ति 'तदार्चिषं' अर्चिर्नामकदेवलोकं

[अधि - ४. सू - १७. ] दीपिकासहितम्. १९७

( १७ ) न ह्यान्यविद्ययाऽन्यगतिर्युक्ता ॥ ( १८ ) सू—ॐ ॥ अनवस्थितेरसम्भवाच्च नेतरः ॥ ॐ ॥ १७ ॥ ‘सम्भवन्ति’ प्राप्नुवन्त्येवेमे ज्ञानिन इति विपरिणामेनान्वयः । संवि- शतीत्येकवचनान्तविशिधातुपाठः ‘ते’ इति पाठश्च प्रमेयदीपच्छन्दो- गपाठविरुद्धः । ततोऽहर्लोकं, तत ‘आपूर्यमाणपक्षं’ शुक्लपक्षलोकं, त- तः सूर्यो ‘यान्’ षण्मासान् उदङ्ङेति तन्मासदेवलोकं उत्तरायण- लोकं च, ततः संवत्सरादादित्यचन्द्रविद्युदभिमानिलोकान् क्रमेण प्राप्नुवन्ति । ततः ‘तस्याः’ विद्युन्नाम्न्या भारत्याः ‘पुरुषो’ भर्ता ‘मानवो’ मनुसंज्ञस्य विष्णोः प्रियो मुख्यवायुस्तं गच्छन्ति । ‘सः’ वायुः ‘एनान्’ स्वप्राप्तान् प्रतीकालम्बनान् चतुर्मु

स्थितिरिति भावः । नन्वस्त्वग्नेरस्वातन्त्र्यं, तथापि तत्प्रेर

Line 19: कस्येश्वरस्य स्वातन्त्र्यसम्भवान्नानवस्थेत्यत आह—अनीश्वरेति ।

Line 20: ईश्वरं जगत्प्रेरकत्वेन योऽपेक्षतेऽभ्युपैति स ईश्वरापेक्षः, स न भव

Line 21: तीत्यनीश्वरापेक्षः, तस्य भावस्तत्त्वं तस्मादित्यर्थः । पूर्ववादिना इति Wait, look at L21: "पूर्ववादिना इति" or "पूर्ववादिनेति"? Wait, look at the end of L21: "पूर्ववादिना इति" or "पूर्ववादिनेति" or "पूर्ववादिनीति"? Let's zoom in on L21: "पूर्ववादि" then "नेति" or "ना इति"? It has "पूर्ववादि", then "ने" or "ना"? Wait, look at: "पूर्ववादि" then "न" with an 'e' matra? Wait, there's "पूर्ववादि" followed by "न" with something, then "इति"? Wait, look at L21: "पूर्ववादि" then "ने" or "न"? Wait, look at the space: "पूर्ववा

[ अधि - ५. सू - १८. ] दीपिकासहितम्. १९९ ५. अधिकरणम् ॥ ( १ ) 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वे द यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' ( बृ. ५-७-३. ) इत्यादि अन्तर्या म्युच्यते। ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽन्तःस्थत्वरूपभावसहितं नियमनक्रियात्मकं लिङ्गं ब्रह्मणि समन्वीयते । विषयवाक्योदाहरणपूर्वकं विषयं दर्शय ति—य इति ॥ इत्यादीति प्रथमा सप्तम्यर्थे । तृतीयार्थे वा । 'सप्तसु प्र थमा' इति सूत्रात् । 'क्रियाविशेषणं वा' इति तत्त्वप्रदीपोक्तेः 'इ त्यादिना' इति पाठस्तद्विरुद्धः । वाक्ये, वाक्येनेति वा शेषः । 'योऽ प्सु तिष्ठन्' 'यो भूतेषु तिष्ठन्' इत्यादिकमादिशब्देन गृह्यते । अन्त र्यामीत्यनेन विषयो दर्शितः । बृहदारण्यके उद्दालकं प्रति याज्ञव ल्क्येनोक्तं इदं वाक्यम् । 'यः पृथिव्यां' पृथुं विष्णुमूर्द्धा वाति गच्छ तीति पृथिवी गरुडः तस्मिन् तिष्ठन् 'पृथिव्याः' तदभिमानिचेतनात् 'अन्तरो' विविक्तः । 'यं च पृथिवी' तदभिमानी चेतनो न वेद सा कल्येन । 'यस्य च पृथिवी' तद्वशत्वनिमित्तात् शरीरभूता । न केव लं तत्र स्थितिमात्रं, किन्तु 'योन्तरः' अन्तःस्थित्वा वाह्यविषयापेक्षां विना रममाणः । स्वतो नित्यतृप्तः सोऽन्तरः स्ववशतवतः । वाह्यापेक्षां विना यस्तु रमते सोऽन्तरस्स्मृतः ॥ इति बृहद्भाष्योक्तेः । यद्वा— अतिप्रियत्वात्तु हरेरन्तरत्वमुदाहृतम् ॥ इति तत्रैवोक्तेः । 'प्रेयः पुत्रात्' इत्यादिश्रुत्या परमप्रेयोरूपत्वा त् 'अन्तरः' अतिप्रियः सन् 'पृथिवीं' गरुडं 'यमयति' नियमय ति । एषः 'ते' तव 'अन्तर्याम्यात्मा' नियामकः पुरुषः 'अमृतः' नित्य इति श्रुत्यर्थः । एतेन अन्तरो विविक्त इति टीकाया बृहद्भाष्य विरोधो निरस्तः । बृहद्भाष्यस्य 'य आत्मानम्' इत्यत्रत्यान्तरशब्द विषयत्वात् । अत एव न श्रुतौ पौनरुक्त्यम् । द्वयोर्भिन्नार्थत्वात् । पू र्वपक्षी त्विदं वाक्यमन्यपरं मन्यते ॥

२०० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २ . ] ( २ ) तत्र च ' एतदमृतम् ' ( छा. ४-१५-१. ) इत्युक्तममृत त्वमुच्यते । स च ' यस्य पृथिवी शरीरम् ' इत्यादि ना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः । ( ३ ) न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियते इति । ( ४ ) अत आह— ( २ ) पूर्वाधिकरणतद्विषयवाक्यसङ्गतिं दर्शयति—तत्रेति ॥ इय मत्र तत्त्वप्रदीपोक्ता योजना—' यः पृथिव्यां तिष्ठन् ' इत्यादिवाक्येष्व . न्तर्याम्युच्यते । तत्र तद्वाक्येष्वेव तस्मिन्नेवान्तर्यामिणि ' एतदमृतमे तदभयम् ' इति पूर्वेणोदाहृतच्छान्दोग्यवाक्येऽक्षिपुरुषस्योक्तममृत त्वं ' एष त आत्माऽन्तर्याम्यमृतः ' इत्यनेन उच्यते इति । अनेन बृह दारण्यकोक्तान्तर्यामिणि विष्ण्वन्यत्वाक्षेपमुखेन तदुक्तामृतत्वस्याप्य न्यनिष्ठत्वं सम्पाद्य तस्य पूर्वाधिकरणोक्ताक्षिस्थत्वस्य विष्णुत्वसाध कत्वाक्षेपात्पूर्वेणाक्षेपिकी सङ्गतिरुक्ता भवति । ततः किमित्यतः सयु क्तिकं पूर्वपक्षयति—स चेति । चशब्दो हेतुसमुच्चये । आदिपदेन ' य स्यापः शरीरम् ' इत्यादेः सङ्ग्रहः । तच्छब्दस्य विपरिणामेन हेतुवा क्येन सम्बन्धः । आत्मशब्दः स्वरूपशरीरोभयार्थः । तथा च सोऽन्त र्यामी जडचेतनोभयरूपा प्रकृतिः पृथिव्यादितत्तज्जीवो वा युक्तः । कुतः ? श्रौतशरीरशब्दस्य इदं पूर्वपक्षशरीरमित्यादाविव स्वरूपार्थ त्वात् । जडप्रकृतेश्च सर्वोपादानत्वेन सर्वात्मकत्वात् । चित्प्रकृतेश्च सर्वाभिमानित्वेन सर्वात्मकत्वात् पृथिव्यादिजीवस्य पृथिव्यादिसर्वश रीरत्वादिति योजना ॥ ( ३ ) ननु यथा प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्वं तथा अमृतत्व लिङ्गेन विष्णोस्तत्किं न स्यादित्यत आह—न हीति ॥ पृथिव्यादि श रीरं यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्वप्रत्ययापाठे त्वन्वयः ऋ जुः । अङ्गीक्रियते । सिद्धान्तिनेति शेषः । तस्य पृथिव्यादिजडाभिन्न चिच्छरीरत्वादिति हिशब्दाभिप्रायः । तथा च—सैद्धान्तिकलिङ्गापे क्षया पूर्वपक्षलिङ्गस्य निरवकाशतया बलवत्त्वादनेन तस्य बाधान्ना न्तर्यामी विष्णुरिति भावः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इत्यादिना वाक्येन इति शेषः । तत्र यद्यपि सौत्रव्यपदेशपदेन अभिप्रेतं ' य पृ थिवीं न वेद यः पृथिवीमन्तरो यमयति ' इति वाक्यमेवोदाहर्तव्यम् ।

[ अधि - ५. सू - १८. ] दीपिकासहितम्. २०१ सू — ॐ ॥ अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् ॥ ॐ ॥ १८ ॥ 'यं पृथिवी न वेद, यः पृथिव्या अन्तरः' (बृ. ५-७- ३.) इत्यादिना अधिदेवादिषु तद्धर्मव्यपदेशात् वि- ष्णुरेवान्तर्यामी । (५) स हि 'न ते विष्णो जायमानो न जातः' (ऋ. ७- ९९-२.) 'स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽवि- म, अत्रोक्तान्तरत्वस्यैव सौत्रधर्मशब्दार्थत्वात्, न तु 'पृथिव्यामन्तरः' इति वाक्यम् । अत्रत्यान्तरशब्दस्य विविक्तार्थत्वेन तदुक्तार्थस्याहेतु- त्वात् । तथा च तदुदाहरणं न प्रकृतोपयुक्तम् । तथापि तत्प्रतीकत्वे- नोदाहृतमित्यदोषः । आदिशब्देन प्रकरणत्रयवाक्यं गृह्यते । अधिदै- वादिषु । प्रकरणेष्विति शेषः । प्रकरणं नाम एकप्रमेयप्रतिपादकानेक- वाक्यानि । तत्र 'यः पृथिव्यां तिष्ठन्' इत्याधिदैवतप्रकरणम् । 'यस्स- र्वेषु भूतेषु तिष्ठन्' इत्याधिभूतप्रकरणम् । 'यः प्राणे तिष्ठन्' इत्याध्या- त्मप्रकरणम् । सूत्रे भाष्ये चाधिदैवेत्युक्त्या पृथिव्यादीनां जडत्वेन तदविदितत्वं सर्वस्यापि सम्भवतीति शङ्का वारिता । अत्रोक्तानां पृ- थिव्यादीनां अधिदैवत्वेन चेतनत्वात् 'प्राणे' इति श्रुतौ प्राणशब्दः प्रा- णवायुदेवतापरः, सैव प्रमेयदीपरीत्या प्राणेन्द्रियदेवता । अधिदेवा- दिष्वित्यनेकप्रकरणग्रहणेन न केवलमेकत्र तद्धर्मोक्तिः, किन्तु — बहु- षु स्थलेष्विति सूचितम् । अनुवृत्तस्य तदित्यस्यार्थमाह — विष्णुरेवे- ति । तदित्यस्य न पुंसकत्वेऽपि अन्तर्यामीत्युद्देश्यसमर्पकसौत्रपदानु- सारेण विष्णुरेवेति व्याख्यातम् । अनेन 'एष त आत्मा' (बृ.५-७-३.) इत्युक्तान्तर्यामी स विष्णुरेव । कुतः ? अधिदेवादिषु प्रकरणेषु 'तद्ध- र्मव्यपदेशात्' तस्य विष्णोः धर्मस्य अविदितत्वान्तरत्वादेः 'यं पृथि- वी न वेद' इत्यादिनाक्तत्वादिति सूत्रार्थ उक्तो भवति ॥ (५) अविदितत्वादेः कुतो विष्णुधर्मत्वमित्यत आह — स हीति ॥ 'सः' विष्णुः । 'इत्यादिना' वाक्येनेति शेषः । आदिपदेन 'दिव्यो देव ए- को नारायणः' (सुबाल.७.) इत्युपक्रम्य 'यस्य पृथिवीशरीरं यः पृ- थिवीमन्तरः सञ्चरन् यं पृथिवी न वेद एष सर्वभूतान्तरात्मा अपह- तपाप्मा दिव्यो देव एको नारायणः' इत्युपसंहृत्याधीतं श्रुत्यन्तरं गृह्य- ते । 'अविदितः' साकल्येनाज्ञातः 'अन्तरः' अन्तःस्थित्वा रमण- कृत्प्रसिद्ध इति शेषः । चः समुच्चये । 'न ते' इति वाक्यं च ते देव- २६

२०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ज्ञातोऽनादिष्टः सर्वेषां भूतानामन्तरपुरुषः ' ( ऐ. आ. ३-२-४.) इत्यादिनाऽविदितोऽन्तरश्च ॥ १८ ॥ ( ६ ) सू— ॐ ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ ॐ ॥ १९ ॥ त्रिगुणत्वादिप्रधानधर्माऽनुक्तेर्न स्मृत्युक्तं प्रधानमन्त र्यामी ॥ १९ ॥ महिम्नः परमन्तं महिमानं श्रोत्रादिना नाप इति प्रकृतानुगुण्येन सर्वत्रा धिकरणे व्याख्यातम् । 'सः' इति वाक्यमपि तत्रैव व्याकृतम्॥ ( ६ ) एवं निरवकाशलिङ्गेन विष्णोरन्तर्यामित्वं समर्थ्य यदुक्तं पूर्वपक्षिणा प्रकृत्यादेरन्तर्यामित्वं तत्प्रकृतिजीवसाधारणं युक्त्या निरा कुर्वत्सूत्रमुपन्यस्यति—न चेति ॥ अत्र 'अतद्धर्माभिलापात् ' इत्येतत् 'अतच्छब्दात्' इतिवदव्ययीभावसमासरूपम् । अत एव अव्ययमित्या शयेनानियमाभिप्रायेणादौ हेतुवाक्यं व्याख्याति—त्रिगुणत्वादीति । स त्त्वादिरूपास्त्रयो गुणा यस्य कार्यभूतास्तत्त्रिगुणं, तस्य भावस्त्रिगुण त्वं तदादिर्येषां ते तथोक्ताः प्रधानस्य प्रकृतेर्धर्माः, त्रिगुणत्वादयश्च ते प्रधानधर्माश्च ते तथोक्ताः, तेषामनुक्तिरुक्त्यभावः तस्या इत्यर्थः । आदिपदेनोपादानत्वजडत्वसंसारित्वादीनां ग्रहणम् । प्रधानपदं जी वस्याप्युपलक्षकम् । आदिशब्दो वाऽत्र संयोज्यः । साध्यधर्मप्रतियो गिनिर्देशाय पूर्वपक्षे युक्तिसूचनाय च प्रयुक्तं स्मार्तमित्येतद्व्याचष्टे- स्मृत्युक्तमिति । पृथिव्याद्यात्मकतया कापिलस्मृतिप्रतिपादितमित्य र्थः । स्मृत्युक्तमेवैतन्न श्रुत्युक्तमिति ज्ञापनायेदम् । पर्यवसितार्थमा ह—प्रधानमिति । जीवस्याप्युपलक्षकमिदम् । शारीरश्चेति वक्ष्यमाण स्यात्राप्यन्वयो दर्शितः । अन्तर्यामिणोऽन्यरूपत्वनिषेधाय प्रवृत्ते सूत्रे ऽपेक्षितं साध्यधर्मिणं दर्शयति—अन्तर्यामीति । अन्तर्यामी न प्रधान मिति योजना । न प्रधानमन्तर्यामीत्यनेन सौत्रचशब्दः अन्तर्यामी वि ष्णुरेव न तु प्रधानमिति तुशब्दार्थः । स च न शारीर इत्यादाविव प रपक्षनिषेधमात्रं न क्रियते , किन्तु, स्वपक्षविधिरपीति परपक्षनिषेध स्य स्वपक्षविधिपूर्वकत्वरूपविशेषार्थ इति सूचितं भवति । अनेनान्त र्यामी विष्णुरेव, न तु स्मार्तं पृथिव्याद्यात्मकतया स्मृतौ प्रतिपादितं प्रधानम् । शारीरो जीवः। कुतः ? अत्र ' अतद्धर्माभिलापात् ' त्रिगुण त्वसंसारित्वादिरूपप्रधानजीवधर्मोक्त्यभावादिति सूत्रवृत्तिर्दर्शिता भवति । तत्त्वप्रदीपे तु—नञस्तद्विरुद्धार्थत्वमाश्रित्यात्मत्वामृतत्वाह

[ अधि - ५. सू - २०. ] दीपिकासहितम्. २०३ ( ७ ) सू—ॐ ॥ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ ॐ ॥ २० ॥ ‘ य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद य स्यात्मा शरीरं य आत्मानमन्तरो यमयत्येष त आ त्माऽन्तर्याम्यमृतः ’ ( बृ. माध्यन्दिनपाठः. ) ‘ यो वि ज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य वि ज्ञानं शरीरम् ’ ( बृ. ५-७-२२. ) इत्युभयेऽपि हि शा खिनो भेदेनैनं जीवमधीयते । ष्टत्वद्रष्टृत्वाद्यतद्धर्माभिलापाच्च इति हेतुवाक्यस्य वृत्त्यन्तरमपि दर्शितम् ॥ ( ७ ) यज्जीवोऽन्तर्यामीत्युक्तम् । तत्साधकाभावेन निरस्तमपि पु- नर्बाधकाख्यविशेषयुक्त्या निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—शारीर इति ॥ इत्यभिधीयते इत्यन्वयः । उभये इत्यस्य विशेष्यपदं दर्शय- ति—शाखिन इति । काण्वा माध्यन्दिनाश्चेत्यर्थः । आत्मनोऽन्तर इति माध्यन्दिनाः विज्ञानादन्तर इति काण्वाः । अपिशब्दः शाखासमुच्चये । अन्तर्यामिणः इति विपरिणतमत्रानुवर्तते । एनमित्यनूद्य जीवमिति व्याख्यातम् । अतो न शारीरश्चान्तर्यामीति शेषः । तेन सौत्रश्चशब्दो नञः समाकर्षकः । न केवलं न स्मार्तं, किन्तु शारीरश्चेति समुच्चयेऽ- पीत्युक्तं भवति । तत्त्वप्रदीपे तु—चित्प्रकृतेरप्यत्र पूर्वपक्षविषयता- माश्रित्य श्रीभूदुर्गरूपायाः तस्या ‘यस्तेजसि तिष्ठन्’ (बृ. ५-७-१४.) ‘यस्तमसितिष्ठन्’ (बृ. ५-७-१३.) इत्याद्यन्तर्यामिणः सकाशाद्भेदे- नाध्ययनान्न साऽप्यन्तर्यामीति समुच्चयार्थश्चशब्द इत्युक्तम् । अनेन ‘हि’ यस्मात् ‘उभयेऽपि’ शाखिन ‘एनं’ जीवमन्तर्यामिणः सका- शाद्भेदेन ‘अधीयते’ आमनन्ति । तस्माद्बाधकान्नान्तर्यामी ‘शारीरः’ शरीराभिमानी जीव इति सूत्रार्थ उक्तो भवति । श्रुतौ ‘यः पृथिव्याः’ इति वाक्यस्यादित्वेऽपि तद्विहायात्मविज्ञानवाक्ययोश्चेतनपरत्वेनोभ- यपरत्वादैकार्थ्याच्च ते एवात्रोभय कर्तृकभेदाध्ययनतयोदाहृते । ‘आ- त्मनो’ जीवात् ‘अन्तरो’ विविक्तः । एवं विज्ञानशब्दोऽपि ‘य आ- त्मनि’ इति श्रुतिसमाख्यानाज्जीवसामान्यपरः । यद्यपि बृहद्भाष्ये आत्मा- दिशब्दश्रुतुर्मुख्याख्यजीवपरतया व्याख्यातत्वादिदं सूत्रं जीवविशेष- स्य योगिनोऽन्तर्यामित्वनिरासकमिति । अतएव तत्त्वप्रदीपे योगिनो- ऽन्तर्यामित्वं निराकरोतीत्युक्तम् । तथापि यद्वा सर्वजीवाभिमानिच

२०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २.] ( ८ ) शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् । रमते च परोऽह्यस्मिन् शरीरं तस्य तज्जगत् । इति वचनान्न शरीरत्वविरोधः ॥ २० ॥ --🌸-- ६. अधिकरणम् ॥ ( १ ) अदृश्यत्वादिगुणा विष्णोरुक्ताः । तुर्मुखादपि तन्नियामकत्वादिना भिन्नोऽन्तर्यामी तदा किमु तदभिम न्यमानसर्वजीवादिति कैमुत्यद्योतनाय तत्र तथोक्तिरिति चन्द्रिकाया मुक्तत्वाज्जीवसामान्यान्तर्यामित्वनिषेधपरतया प्रवृत्ताया एतत्सूत्र टीकायाः न बृहद्भाष्यतत्त्वप्रदीपविरोधः ॥ ( ८ ) ननु न विष्णोरन्तर्यामित्वं युक्तम् । पृथिव्यादिशरीरत्वस्य प्रधानधर्मस्यात्रोक्तेः तस्य विष्णावसम्भवात् । कथं प्रधानधर्मानु क्तिः पृथिव्यादिशरीरत्वस्यैव तद्धर्मत्वादित्यत आह—शीर्यत इति ॥ तुशब्दोऽवधारणे । तथा च 'हि' यस्मात् 'ईदृशं' वर्तमानजगत्सदृ शं कालत्रयाबाध्यं वा 'जगत्' पृथिव्यादि अस्मात् विष्णोरेव 'नित्यं' नियतं प्रतिकल्पं 'शीर्यते' नश्यति । आत्मादिचेतनानामपि देहद्वारा शीर्यता सत्यैव । यस्माच्च 'परः' परमात्मा 'अस्मिन्' जगति स्थि तस्सन् रमते 'तत्' तस्मादेव 'तस्य' विष्णोः 'जगत्' पृथिव्यादि कं शरीरमुच्यते, न रूढ्येत्यर्थः । 'न शरीरत्वविरोधः' इति । न पृथि व्यादिशरीरत्वविरोध इत्यर्थः । विष्ण्वन्तर्यामिताया अतद्धर्माभिला पोक्तैर्वेति शेषः । विष्णोः पृथिव्याद्यात्मकत्वतच्छरीरत्वाभ्यां पृथि व्यादिशरीरत्वानुपपत्तावपि शरीरशब्दस्य पृथिव्यादिषु योगवृत्तिमा श्रित्य तस्मिन् पृथिव्यादिशरीरत्वव्यपदेशोपपत्तेरितरत्र तदनुपपत्ते रिति भावः । यत्तु बृहदारण्यभाष्ये— पृथिव्याद्या देवतास्तु देहवद्यच्छश्वतः । शरीरमिति चोच्यन्ते यस्य विष्णोः महात्मनः ॥ इति प्रमाणानुसारेण पृथिव्यादेर्ब्रह्मशरीरत्वं गौणमित्युक्तम् । तत्पुरा णादिषु प्रपञ्चे ब्रह्मकायत्वाद्युक्तिसमर्थनायेति न तद्विरोधः ॥ ५ इति अन्तर्याम्यधिकरणम्. ६ अधिकरणम् ॥ ( १ अत्राधिकरणे दृश्यत्वाद्यभावाख्यलिङ्गं ब्रह्मणि समन्वीयते ।

[अधि - ६. सू - २१.] दीपिकासहितम्. २०५ ( २ ) तत्र 'यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः' ॥ ( मु. १-१-६. ) इत्युक्त्वा— पूर्वाधिकरणतद्विषयसङ्गतिविषयवाक्योदाहरणपूर्वकं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति-अदृश्यत्वादीति ॥ 'गुणाः' शुभधर्माः । आदिपदेनानात्म्यादिग्रहणम् । उक्ता इति । आनन्दमयस्य 'अदृश्ये' इति वाक्येनेति शेषः । उपलक्षणमेतत् । अन्तःस्थस्य 'न विजानन्ति' ( तै.आ.३-११. ) इत्यनेन सर्वगतस्य 'स योऽतोऽश्रुतः' ( ऐ. आ. ३- २-४. ) इत्यनेन अन्तर्यामिणो 'यं पृथिवी न वेद' ( बृ.५-७-३. ) इत्य व्यवहितपूर्वाधिकरणोदाहृतवाक्येन चेत्यपि द्रष्टव्यम् ॥ ( २ ) उक्ता इत्यावर्तते । 'उक्त्वा' इत्यनन्तरं आम्नात इति शेषः । तेन क्त्वाप्रत्ययोपपत्तिः । चन्द्रिकायां तु—इत्युक्त्वा प्रतीयत इति भाष्ये क्रिययोः समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो 'यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते' इतिवद्द्रष्टव्यमित्युक्तेरप्ययमेवाभिप्रायः । पर इतीत्यनन्तरं वाक्य इति शेषः । 'तस्माच्च' इति पदद्वयं भाष्यका रीयम् । तथाचेत्थं योजना—पूर्वे ये अदृश्यत्वादिगुणा विष्णोरुक्ता स्ते यत्र कस्य चिदक्षरस्योक्तास्तत्राथर्वणेऽदृश्यत्वादिगुणकाक्षरवि षये 'यत्तदद्रेश्यमग्राह्यम्' इत्याद्युक्त्वा तथा तत्रैव 'यथोर्णनाभिः' इत्यादि 'विश्वम्' इत्यन्तं वाक्यं चोक्त्वा पठित्वा अनन्तरमाम्नाते दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो अक्षरात्परतः परः ॥ इति उत्तरवाक्ये 'तस्मादक्षरात्' प्रकृतादक्षरादपि 'परः' उत्तमः 'प्रतीयते' प्रतिपाद्यतया ज्ञायत इति । अनेन पूर्वोक्तादृश्यत्वस्य वि ष्ण्वन्यनिष्ठत्वाक्षेपात्पूर्वेणानन्दमयाद्यधिकरणेन अस्याक्षेपिकी सङ्ग तिः । अदृश्यत्वादिरूपो विषयः । किं विष्णोरन्यस्य वेति सन्देहः । न विष्णोरदृश्यत्वादीति पूर्वः पक्षः । अदृश्यत्वादिविशिष्टे 'अक्षरात्सम्भव तीति' इत्यक्षरशब्दश्रवणात्तस्य च तत्परत्वोक्त्या विष्णोः निरवका शत्वादिति पूर्वपक्षयुक्तिश्च सूचिता भवतीति । श्रुत्यर्थस्तु—'यत्'

२०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ३ ) यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम् । (मु. १-१-७. ) इत्युक्त्वा तस्माच्च ‘अक्षरात्परतः परः’ (मु. २-१- २.) इति परः प्रतीयते— परविद्यागम्यमक्षरं ‘तदद्रेश्यं’ दृश्यशब्दिताचक्षुरादिज्ञेयाभिन्नम् । ‘अग्राह्यं’ मनोग्राह्याभिन्नम् । ‘अगोत्रं’ न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते इति सुधोक्तेर्विशिष्टादिगोत्रहीनम् । ‘अवर्णं’ प्राकृतशुक्ला- दिवर्णहीनम् । अदृश्यत्वादिशब्दैर्दृश्याद्यन्योन्याभावोऽभिधीयते इति सुधोक्तेः गोत्रवर्णभिन्नत्वं चार्थः । यत् ‘अचक्षुःश्रोत्र

[ अधि - ६. सू - २१. ] दीपिकासहितम्. २०७ ( ४ ) अतो ब्रवीति— सू— ॐ ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ ॐ ॥ २१ ॥ ( ५ ) पृथिव्यादिदृष्टान्तमुक्त्वा ‘अक्षरात्सम्भवतीह विश्व- म्’ (मु. १-१-७.) इत्यतः परं तत्परतः पराभिधा- नात् ‘कूटस्थोऽक्षर उच्यते' (भ. गी. १५-१६.) इ- ति स्मृतेश्च प्रकृतेः प्राप्तिः । ( ६ ) ब्रह्मशब्दात्तत्परतः पराभिधानादेव च हिरण्यगर्भस्य । भ्यन्तरश्च । अप्राणो ह्यमना इति पदाभ्यां षोडशकलाराहित्यमुच्यते । ‘शुभ्रः' शुद्धः जडात् 'परतः अक्षरात्' चित्प्रकृतेः पर इति कर्मनि- र्णयटीकायां व्याख्यातम् ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ इतिसङ्गतिसम्भ- वात् इतिशङ्कासद्भावाच्च तदुत्तररूपं सूत्रमब्रवीद्बादरायणः इत्यर्थः । तत्सूत्रं पठति—अदृश्यत्वादीति ॥ ( ५ ) नन्वदृश्यत्वादिकं विष्णोर्न चेत्—तर्हि वाक्यस्य निर्विषय- तया अप्रामाण्यं स्यात् इत्यतः पूर्वपक्षं विशदयति—पृथिव्यादीति ॥ श्रुतावृर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वमात्रप्र- तीतेः पूर्वपक्षानुकूलस्योपादानतया जगत्कारणत्वस्याप्रतीतेः तं परि- त्यज्य पृथिव्यादीत्युक्तम् । चः समुच्चये । तथाचेत्थं योजना—पृथ्वि- व्यादिदृष्टान्तमुक्त्वा अनन्तरमुक्तात् 'अक्षरात्सं भवतीह विश्वम्' इत्य- तो वाक्यात् 'परं' अनन्तरमधीतेन 'अक्षरात्परतः परः' इति वा- क्येन 'तत्परतः' तस्मात्कारणीभूतादक्षरात्परतः परस्योत्तमस्योक्तत्वा- त्, तथा 'कूटस्थोऽक्षर उच्यते' इति स्मृतेश्च जडप्रकृतेश्चित्प्रकृते श्चादृ- श्यत्वादिप्राप्तिरिति । अत्रायं विवेकः-यदा जडप्रकृतेः पूर्वपक्षविषयता तदाऽक्षरशब्दस्तत्परो हेतुः तत्परतः पराभिधानं च । तस्य निरवकाशं त्वे अक्षरात्परत इति च व्यधिकरणे पञ्चम्यौ । यदा च चित्प्रकृते- स्तदाऽक्षरशब्दस्तत्परो हेतुः । समानाधिकरणे पञ्चम्यौ । स्मृतेश्चेत्य- पि हेतुरिति । स्मृतिश्चात्राधिकरणे व्याख्याता ॥ ( ६ ) पूर्वपक्षान्तरं वक्ति —ब्रह्मशब्दादिति ॥ ‘स ब्रह्मविद्याम्' इत्यादौ श्रुतब्रह्मशब्दादित्यर्थः । ब्रह्मशब्दो विष्णवेव मुख्य इति तस्यै- व साधको नेतरस्येत्यतो हेत्वन्तरमाह—परत इति । व्यधिकरणे प

२०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ७ ) 'तमेवं विद्वानमृत इह भवति' ( तै. आ. ३-१२-७ ) तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया । अथ द्वे वाव विद्ये वेदितव्ये पराचैवापरा च । ञ्चम्यौ । तथाच—हिरण्यगर्भाख्यादक्षरात् 'परतः' श्रीतत्त्वात्परस्य विष्णोरभिधानादित्यर्थः । एवशब्दे न हेतोर्निरवकाशत्वं नात्र हेत्वन्त- रं गवेषणीयमिति सूचयति । हिरण्यगर्भस्य प्राप्तिरित्यन्वयः । उपल- क्षणमेतत् । 'कर्तारमीशम्' इतीशशब्दश्रवणात् रुद्रस्य वा अदृश्यत्वा- दिप्राप्तिरिति वक्ष्यमाणमत्रापि द्रष्टव्यम् । अस्मिन् पक्षे ईशशब्दस्य वि- ष्णौ सावकाशत्वशङ्कायामनन्तरं तत्परतः पराभिधानादित्यपि योज्य- म् । अत्रापि व्यधिकरणे पञ्चम्यौ ॥ ( ७ ) एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे—तमेवमिति ॥ 'तमेवम्' इत्येकं श्रुतिवाक्यम् । 'तत्' इत्यपरं स्मृतिवाक्यम् । 'अ- थ' इत्यन्यच्छ्रुतिवाक्यम् । आदिपदेन 'तदेतद्ब्रह्म' ( बृ. ४-५-१९. ) 'त्रिपादस्यामृतम्' ( ऋ. १०-९०-३. ) इत्यादिकं गृह्यते । तस्य वि- ष्णोर्धर्मस्तद्धर्मः तस्य भावस्तत्त्वं तेनेति विग्रहः । प्रकारे तृतीया । अवगतत्वं प्रसिद्धत्वं विषयत्वविशेषणम् । अमृतत्वादेरुपलक्षकमेतत् । अत्रेति शेषः। सूत्रेऽनुवृत्तस्य तत्त्वित्यस्यार्थो विष्णुरेवेति । अत्रादृश्य- त्वं दृश्यभिन्नत्वम् । तच्च स्वरूपम्, न तु गोत्राद्यत्यन्ताभाववद्ब्रह्मभि- न्नम् । तत्र तद्रूपत्वं ब्रह्मस्वरूपमिति विशेषं वक्तुं अदृश्यत्वादयो गुणा यस्येति बहुव्रीहित्वं च सूचयितुं शुभधर्मार्थकगुणशब्दप्रयोगः कप्रत्य- यश्च । तथाचेत्थं सूत्रभाष्ययोजना-अदृश्यत्वादिगुणकस्तत्तु विष्णू- रेव । कुतः ? अत्र प्रकरणे 'अथ परा यया तदक्षरमधिगम्यते' ( मुं.१- १-५.) 'तदेतदक्षरं ब्रह्म' ( मुं.२-२-२. ) 'पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' ( मुं.२-१-१०. ) इति वाक्येषु तस्यादृश्यत्वादिगुणकस्य परविद्याविषयत्वरूपधर्मोक्तेः । न च तस्य परविद्याविषयत्वोक्तावपि कुतो विष्णुत्वमिति वाच्यम् । यतस्तत् 'तमेवम्' इत्यादिना तद्धर्मत्वे- नावगतमिति । अत्र 'तमेवम्'इति श्रुतौ मोक्षसाधनज्ञानविषयत्वो- क्त्या विष्णोः परविद्याविषयत्वमुक्तं भवति । मोक्षसाधनविद्याया ए- व परविद्यात्वात् । तत्कर्मेति स्मृतावपि यद्धरितुष्टिकरं तदेव कर्म । यया 'तन्मतिः' हरेः ज्ञानं भवति, सैव विद्येत्युक्तत्वेन तस्य परवि-

An exact, line-by-line transcription of the Sanskrit text from the image:

तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गा नि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽ सावदृश्यो निर्गुणः परः परमात्मा' ( ) इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्वि ष्णुरेवादृश्यत्वादिगुणकः ॥ २१ ॥ (८) सू—ॐ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ ॐ ॥२२॥ द्याविषयत्वमुच्यते । 'द्वे विद्ये वेदितव्ये' (मुं. १-१-४.) इत्यत्रापि विष्णोः परविद्याविषयत्वमुच्यते इति न हेतुविशेषणासिद्धिः । अथेति प्रकरणारम्भे । वावेत्यवधारणे । चौ परस्परसमुच्चये । तथा च परा चापरा च द्वे विद्ये ज्ञातव्ये । 'तत्र' परापरयोर्मध्ये 'ये वेदाः' ऋ ग्द्याः यानि शिक्षादिषडङ्गानि 'यान्युपाङ्गानि' आयुर्वेदधनुर्वेदगा न्धर्वादीनि । 'यानि