पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 252, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ६. सू - २१.] दीपिकासहितम्. २०५ ( २ ) तत्र 'यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः' ॥ ( मु. १-१-६. ) इत्युक्त्वा— पूर्वाधिकरणतद्विषयसङ्गतिविषयवाक्योदाहरणपूर्वकं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति-अदृश्यत्वादीति ॥ 'गुणाः' शुभधर्माः । आदिपदेनानात्म्यादिग्रहणम् । उक्ता इति । आनन्दमयस्य 'अदृश्ये' इति वाक्येनेति शेषः । उपलक्षणमेतत् । अन्तःस्थस्य 'न विजानन्ति' ( तै.आ.३-११. ) इत्यनेन सर्वगतस्य 'स योऽतोऽश्रुतः' ( ऐ. आ. ३- २-४. ) इत्यनेन अन्तर्यामिणो 'यं पृथिवी न वेद' ( बृ.५-७-३. ) इत्य व्यवहितपूर्वाधिकरणोदाहृतवाक्येन चेत्यपि द्रष्टव्यम् ॥ ( २ ) उक्ता इत्यावर्तते । 'उक्त्वा' इत्यनन्तरं आम्नात इति शेषः । तेन क्त्वाप्रत्ययोपपत्तिः । चन्द्रिकायां तु—इत्युक्त्वा प्रतीयत इति भाष्ये क्रिययोः समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो 'यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते' इतिवद्द्रष्टव्यमित्युक्तेरप्ययमेवाभिप्रायः । पर इतीत्यनन्तरं वाक्य इति शेषः । 'तस्माच्च' इति पदद्वयं भाष्यका रीयम् । तथाचेत्थं योजना—पूर्वे ये अदृश्यत्वादिगुणा विष्णोरुक्ता स्ते यत्र कस्य चिदक्षरस्योक्तास्तत्राथर्वणेऽदृश्यत्वादिगुणकाक्षरवि षये 'यत्तदद्रेश्यमग्राह्यम्' इत्याद्युक्त्वा तथा तत्रैव 'यथोर्णनाभिः' इत्यादि 'विश्वम्' इत्यन्तं वाक्यं चोक्त्वा पठित्वा अनन्तरमाम्नाते दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो अक्षरात्परतः परः ॥ इति उत्तरवाक्ये 'तस्मादक्षरात्' प्रकृतादक्षरादपि 'परः' उत्तमः 'प्रतीयते' प्रतिपाद्यतया ज्ञायत इति । अनेन पूर्वोक्तादृश्यत्वस्य वि ष्ण्वन्यनिष्ठत्वाक्षेपात्पूर्वेणानन्दमयाद्यधिकरणेन अस्याक्षेपिकी सङ्ग तिः । अदृश्यत्वादिरूपो विषयः । किं विष्णोरन्यस्य वेति सन्देहः । न विष्णोरदृश्यत्वादीति पूर्वः पक्षः । अदृश्यत्वादिविशिष्टे 'अक्षरात्सम्भव तीति' इत्यक्षरशब्दश्रवणात्तस्य च तत्परत्वोक्त्या विष्णोः निरवका शत्वादिति पूर्वपक्षयुक्तिश्च सूचिता भवतीति । श्रुत्यर्थस्तु—'यत्'