पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 246, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - १८. ] दीपिकासहितम्. १९९ ५. अधिकरणम् ॥ ( १ ) 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वे द यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' ( बृ. ५-७-३. ) इत्यादि अन्तर्या म्युच्यते। ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽन्तःस्थत्वरूपभावसहितं नियमनक्रियात्मकं लिङ्गं ब्रह्मणि समन्वीयते । विषयवाक्योदाहरणपूर्वकं विषयं दर्शय ति—य इति ॥ इत्यादीति प्रथमा सप्तम्यर्थे । तृतीयार्थे वा । 'सप्तसु प्र थमा' इति सूत्रात् । 'क्रियाविशेषणं वा' इति तत्त्वप्रदीपोक्तेः 'इ त्यादिना' इति पाठस्तद्विरुद्धः । वाक्ये, वाक्येनेति वा शेषः । 'योऽ प्सु तिष्ठन्' 'यो भूतेषु तिष्ठन्' इत्यादिकमादिशब्देन गृह्यते । अन्त र्यामीत्यनेन विषयो दर्शितः । बृहदारण्यके उद्दालकं प्रति याज्ञव ल्क्येनोक्तं इदं वाक्यम् । 'यः पृथिव्यां' पृथुं विष्णुमूर्द्धा वाति गच्छ तीति पृथिवी गरुडः तस्मिन् तिष्ठन् 'पृथिव्याः' तदभिमानिचेतनात् 'अन्तरो' विविक्तः । 'यं च पृथिवी' तदभिमानी चेतनो न वेद सा कल्येन । 'यस्य च पृथिवी' तद्वशत्वनिमित्तात् शरीरभूता । न केव लं तत्र स्थितिमात्रं, किन्तु 'योन्तरः' अन्तःस्थित्वा वाह्यविषयापेक्षां विना रममाणः । स्वतो नित्यतृप्तः सोऽन्तरः स्ववशतवतः । वाह्यापेक्षां विना यस्तु रमते सोऽन्तरस्स्मृतः ॥ इति बृहद्भाष्योक्तेः । यद्वा— अतिप्रियत्वात्तु हरेरन्तरत्वमुदाहृतम् ॥ इति तत्रैवोक्तेः । 'प्रेयः पुत्रात्' इत्यादिश्रुत्या परमप्रेयोरूपत्वा त् 'अन्तरः' अतिप्रियः सन् 'पृथिवीं' गरुडं 'यमयति' नियमय ति । एषः 'ते' तव 'अन्तर्याम्यात्मा' नियामकः पुरुषः 'अमृतः' नित्य इति श्रुत्यर्थः । एतेन अन्तरो विविक्त इति टीकाया बृहद्भाष्य विरोधो निरस्तः । बृहद्भाष्यस्य 'य आत्मानम्' इत्यत्रत्यान्तरशब्द विषयत्वात् । अत एव न श्रुतौ पौनरुक्त्यम् । द्वयोर्भिन्नार्थत्वात् । पू र्वपक्षी त्विदं वाक्यमन्यपरं मन्यते ॥