भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 247, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 247

२०० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २ . ] ( २ ) तत्र च ' एतदमृतम् ' ( छा. ४-१५-१. ) इत्युक्तममृत त्वमुच्यते । स च ' यस्य पृथिवी शरीरम् ' इत्यादि ना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः । ( ३ ) न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियते इति । ( ४ ) अत आह— ( २ ) पूर्वाधिकरणतद्विषयवाक्यसङ्गतिं दर्शयति—तत्रेति ॥ इय मत्र तत्त्वप्रदीपोक्ता योजना—' यः पृथिव्यां तिष्ठन् ' इत्यादिवाक्येष्व . न्तर्याम्युच्यते । तत्र तद्वाक्येष्वेव तस्मिन्नेवान्तर्यामिणि ' एतदमृतमे तदभयम् ' इति पूर्वेणोदाहृतच्छान्दोग्यवाक्येऽक्षिपुरुषस्योक्तममृत त्वं ' एष त आत्माऽन्तर्याम्यमृतः ' इत्यनेन उच्यते इति । अनेन बृह दारण्यकोक्तान्तर्यामिणि विष्ण्वन्यत्वाक्षेपमुखेन तदुक्तामृतत्वस्याप्य न्यनिष्ठत्वं सम्पाद्य तस्य पूर्वाधिकरणोक्ताक्षिस्थत्वस्य विष्णुत्वसाध कत्वाक्षेपात्पूर्वेणाक्षेपिकी सङ्गतिरुक्ता भवति । ततः किमित्यतः सयु क्तिकं पूर्वपक्षयति—स चेति । चशब्दो हेतुसमुच्चये । आदिपदेन ' य स्यापः शरीरम् ' इत्यादेः सङ्ग्रहः । तच्छब्दस्य विपरिणामेन हेतुवा क्येन सम्बन्धः । आत्मशब्दः स्वरूपशरीरोभयार्थः । तथा च सोऽन्त र्यामी जडचेतनोभयरूपा प्रकृतिः पृथिव्यादितत्तज्जीवो वा युक्तः । कुतः ? श्रौतशरीरशब्दस्य इदं पूर्वपक्षशरीरमित्यादाविव स्वरूपार्थ त्वात् । जडप्रकृतेश्च सर्वोपादानत्वेन सर्वात्मकत्वात् । चित्प्रकृतेश्च सर्वाभिमानित्वेन सर्वात्मकत्वात् पृथिव्यादिजीवस्य पृथिव्यादिसर्वश रीरत्वादिति योजना ॥ ( ३ ) ननु यथा प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्वं तथा अमृतत्व लिङ्गेन विष्णोस्तत्किं न स्यादित्यत आह—न हीति ॥ पृथिव्यादि श रीरं यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्वप्रत्ययापाठे त्वन्वयः ऋ जुः । अङ्गीक्रियते । सिद्धान्तिनेति शेषः । तस्य पृथिव्यादिजडाभिन्न चिच्छरीरत्वादिति हिशब्दाभिप्रायः । तथा च—सैद्धान्तिकलिङ्गापे क्षया पूर्वपक्षलिङ्गस्य निरवकाशतया बलवत्त्वादनेन तस्य बाधान्ना न्तर्यामी विष्णुरिति भावः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इत्यादिना वाक्येन इति शेषः । तत्र यद्यपि सौत्रव्यपदेशपदेन अभिप्रेतं ' य पृ थिवीं न वेद यः पृथिवीमन्तरो यमयति ' इति वाक्यमेवोदाहर्तव्यम् ।

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 247, कुल 1267 में से · BharatKosha