पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 249, कुल 1267 में से
संदर्भ में पढ़ें२०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ज्ञातोऽनादिष्टः सर्वेषां भूतानामन्तरपुरुषः ' ( ऐ. आ. ३-२-४.) इत्यादिनाऽविदितोऽन्तरश्च ॥ १८ ॥ ( ६ ) सू— ॐ ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ ॐ ॥ १९ ॥ त्रिगुणत्वादिप्रधानधर्माऽनुक्तेर्न स्मृत्युक्तं प्रधानमन्त र्यामी ॥ १९ ॥ महिम्नः परमन्तं महिमानं श्रोत्रादिना नाप इति प्रकृतानुगुण्येन सर्वत्रा धिकरणे व्याख्यातम् । 'सः' इति वाक्यमपि तत्रैव व्याकृतम्॥ ( ६ ) एवं निरवकाशलिङ्गेन विष्णोरन्तर्यामित्वं समर्थ्य यदुक्तं पूर्वपक्षिणा प्रकृत्यादेरन्तर्यामित्वं तत्प्रकृतिजीवसाधारणं युक्त्या निरा कुर्वत्सूत्रमुपन्यस्यति—न चेति ॥ अत्र 'अतद्धर्माभिलापात् ' इत्येतत् 'अतच्छब्दात्' इतिवदव्ययीभावसमासरूपम् । अत एव अव्ययमित्या शयेनानियमाभिप्रायेणादौ हेतुवाक्यं व्याख्याति—त्रिगुणत्वादीति । स त्त्वादिरूपास्त्रयो गुणा यस्य कार्यभूतास्तत्त्रिगुणं, तस्य भावस्त्रिगुण त्वं तदादिर्येषां ते तथोक्ताः प्रधानस्य प्रकृतेर्धर्माः, त्रिगुणत्वादयश्च ते प्रधानधर्माश्च ते तथोक्ताः, तेषामनुक्तिरुक्त्यभावः तस्या इत्यर्थः । आदिपदेनोपादानत्वजडत्वसंसारित्वादीनां ग्रहणम् । प्रधानपदं जी वस्याप्युपलक्षकम् । आदिशब्दो वाऽत्र संयोज्यः । साध्यधर्मप्रतियो गिनिर्देशाय पूर्वपक्षे युक्तिसूचनाय च प्रयुक्तं स्मार्तमित्येतद्व्याचष्टे- स्मृत्युक्तमिति । पृथिव्याद्यात्मकतया कापिलस्मृतिप्रतिपादितमित्य र्थः । स्मृत्युक्तमेवैतन्न श्रुत्युक्तमिति ज्ञापनायेदम् । पर्यवसितार्थमा ह—प्रधानमिति । जीवस्याप्युपलक्षकमिदम् । शारीरश्चेति वक्ष्यमाण स्यात्राप्यन्वयो दर्शितः । अन्तर्यामिणोऽन्यरूपत्वनिषेधाय प्रवृत्ते सूत्रे ऽपेक्षितं साध्यधर्मिणं दर्शयति—अन्तर्यामीति । अन्तर्यामी न प्रधान मिति योजना । न प्रधानमन्तर्यामीत्यनेन सौत्रचशब्दः अन्तर्यामी वि ष्णुरेव न तु प्रधानमिति तुशब्दार्थः । स च न शारीर इत्यादाविव प रपक्षनिषेधमात्रं न क्रियते , किन्तु, स्वपक्षविधिरपीति परपक्षनिषेध स्य स्वपक्षविधिपूर्वकत्वरूपविशेषार्थ इति सूचितं भवति । अनेनान्त र्यामी विष्णुरेव, न तु स्मार्तं पृथिव्याद्यात्मकतया स्मृतौ प्रतिपादितं प्रधानम् । शारीरो जीवः। कुतः ? अत्र ' अतद्धर्माभिलापात् ' त्रिगुण त्वसंसारित्वादिरूपप्रधानजीवधर्मोक्त्यभावादिति सूत्रवृत्तिर्दर्शिता भवति । तत्त्वप्रदीपे तु—नञस्तद्विरुद्धार्थत्वमाश्रित्यात्मत्वामृतत्वाह