पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 250, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - २०. ] दीपिकासहितम्. २०३ ( ७ ) सू—ॐ ॥ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ ॐ ॥ २० ॥ ‘ य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद य स्यात्मा शरीरं य आत्मानमन्तरो यमयत्येष त आ त्माऽन्तर्याम्यमृतः ’ ( बृ. माध्यन्दिनपाठः. ) ‘ यो वि ज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य वि ज्ञानं शरीरम् ’ ( बृ. ५-७-२२. ) इत्युभयेऽपि हि शा खिनो भेदेनैनं जीवमधीयते । ष्टत्वद्रष्टृत्वाद्यतद्धर्माभिलापाच्च इति हेतुवाक्यस्य वृत्त्यन्तरमपि दर्शितम् ॥ ( ७ ) यज्जीवोऽन्तर्यामीत्युक्तम् । तत्साधकाभावेन निरस्तमपि पु- नर्बाधकाख्यविशेषयुक्त्या निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—शारीर इति ॥ इत्यभिधीयते इत्यन्वयः । उभये इत्यस्य विशेष्यपदं दर्शय- ति—शाखिन इति । काण्वा माध्यन्दिनाश्चेत्यर्थः । आत्मनोऽन्तर इति माध्यन्दिनाः विज्ञानादन्तर इति काण्वाः । अपिशब्दः शाखासमुच्चये । अन्तर्यामिणः इति विपरिणतमत्रानुवर्तते । एनमित्यनूद्य जीवमिति व्याख्यातम् । अतो न शारीरश्चान्तर्यामीति शेषः । तेन सौत्रश्चशब्दो नञः समाकर्षकः । न केवलं न स्मार्तं, किन्तु शारीरश्चेति समुच्चयेऽ- पीत्युक्तं भवति । तत्त्वप्रदीपे तु—चित्प्रकृतेरप्यत्र पूर्वपक्षविषयता- माश्रित्य श्रीभूदुर्गरूपायाः तस्या ‘यस्तेजसि तिष्ठन्’ (बृ. ५-७-१४.) ‘यस्तमसितिष्ठन्’ (बृ. ५-७-१३.) इत्याद्यन्तर्यामिणः सकाशाद्भेदे- नाध्ययनान्न साऽप्यन्तर्यामीति समुच्चयार्थश्चशब्द इत्युक्तम् । अनेन ‘हि’ यस्मात् ‘उभयेऽपि’ शाखिन ‘एनं’ जीवमन्तर्यामिणः सका- शाद्भेदेन ‘अधीयते’ आमनन्ति । तस्माद्बाधकान्नान्तर्यामी ‘शारीरः’ शरीराभिमानी जीव इति सूत्रार्थ उक्तो भवति । श्रुतौ ‘यः पृथिव्याः’ इति वाक्यस्यादित्वेऽपि तद्विहायात्मविज्ञानवाक्ययोश्चेतनपरत्वेनोभ- यपरत्वादैकार्थ्याच्च ते एवात्रोभय कर्तृकभेदाध्ययनतयोदाहृते । ‘आ- त्मनो’ जीवात् ‘अन्तरो’ विविक्तः । एवं विज्ञानशब्दोऽपि ‘य आ- त्मनि’ इति श्रुतिसमाख्यानाज्जीवसामान्यपरः । यद्यपि बृहद्भाष्ये आत्मा- दिशब्दश्रुतुर्मुख्याख्यजीवपरतया व्याख्यातत्वादिदं सूत्रं जीवविशेष- स्य योगिनोऽन्तर्यामित्वनिरासकमिति । अतएव तत्त्वप्रदीपे योगिनो- ऽन्तर्यामित्वं निराकरोतीत्युक्तम् । तथापि यद्वा सर्वजीवाभिमानिच