पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 255, कुल 1267 में से
संदर्भ में पढ़ें२०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ७ ) 'तमेवं विद्वानमृत इह भवति' ( तै. आ. ३-१२-७ ) तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया । अथ द्वे वाव विद्ये वेदितव्ये पराचैवापरा च । ञ्चम्यौ । तथाच—हिरण्यगर्भाख्यादक्षरात् 'परतः' श्रीतत्त्वात्परस्य विष्णोरभिधानादित्यर्थः । एवशब्दे न हेतोर्निरवकाशत्वं नात्र हेत्वन्त- रं गवेषणीयमिति सूचयति । हिरण्यगर्भस्य प्राप्तिरित्यन्वयः । उपल- क्षणमेतत् । 'कर्तारमीशम्' इतीशशब्दश्रवणात् रुद्रस्य वा अदृश्यत्वा- दिप्राप्तिरिति वक्ष्यमाणमत्रापि द्रष्टव्यम् । अस्मिन् पक्षे ईशशब्दस्य वि- ष्णौ सावकाशत्वशङ्कायामनन्तरं तत्परतः पराभिधानादित्यपि योज्य- म् । अत्रापि व्यधिकरणे पञ्चम्यौ ॥ ( ७ ) एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे—तमेवमिति ॥ 'तमेवम्' इत्येकं श्रुतिवाक्यम् । 'तत्' इत्यपरं स्मृतिवाक्यम् । 'अ- थ' इत्यन्यच्छ्रुतिवाक्यम् । आदिपदेन 'तदेतद्ब्रह्म' ( बृ. ४-५-१९. ) 'त्रिपादस्यामृतम्' ( ऋ. १०-९०-३. ) इत्यादिकं गृह्यते । तस्य वि- ष्णोर्धर्मस्तद्धर्मः तस्य भावस्तत्त्वं तेनेति विग्रहः । प्रकारे तृतीया । अवगतत्वं प्रसिद्धत्वं विषयत्वविशेषणम् । अमृतत्वादेरुपलक्षकमेतत् । अत्रेति शेषः। सूत्रेऽनुवृत्तस्य तत्त्वित्यस्यार्थो विष्णुरेवेति । अत्रादृश्य- त्वं दृश्यभिन्नत्वम् । तच्च स्वरूपम्, न तु गोत्राद्यत्यन्ताभाववद्ब्रह्मभि- न्नम् । तत्र तद्रूपत्वं ब्रह्मस्वरूपमिति विशेषं वक्तुं अदृश्यत्वादयो गुणा यस्येति बहुव्रीहित्वं च सूचयितुं शुभधर्मार्थकगुणशब्दप्रयोगः कप्रत्य- यश्च । तथाचेत्थं सूत्रभाष्ययोजना-अदृश्यत्वादिगुणकस्तत्तु विष्णू- रेव । कुतः ? अत्र प्रकरणे 'अथ परा यया तदक्षरमधिगम्यते' ( मुं.१- १-५.) 'तदेतदक्षरं ब्रह्म' ( मुं.२-२-२. ) 'पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' ( मुं.२-१-१०. ) इति वाक्येषु तस्यादृश्यत्वादिगुणकस्य परविद्याविषयत्वरूपधर्मोक्तेः । न च तस्य परविद्याविषयत्वोक्तावपि कुतो विष्णुत्वमिति वाच्यम् । यतस्तत् 'तमेवम्' इत्यादिना तद्धर्मत्वे- नावगतमिति । अत्र 'तमेवम्'इति श्रुतौ मोक्षसाधनज्ञानविषयत्वो- क्त्या विष्णोः परविद्याविषयत्वमुक्तं भवति । मोक्षसाधनविद्याया ए- व परविद्यात्वात् । तत्कर्मेति स्मृतावपि यद्धरितुष्टिकरं तदेव कर्म । यया 'तन्मतिः' हरेः ज्ञानं भवति, सैव विद्येत्युक्तत्वेन तस्य परवि-