भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

२०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ७ ) 'तमेवं विद्वानमृत इह भवति' ( तै. आ. ३-१२-७ ) तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया । अथ द्वे वाव विद्ये वेदितव्ये पराचैवापरा च । ञ्चम्यौ । तथाच—हिरण्यगर्भाख्यादक्षरात् 'परतः' श्रीतत्त्वात्परस्य विष्णोरभिधानादित्यर्थः । एवशब्दे न हेतोर्निरवकाशत्वं नात्र हेत्वन्त- रं गवेषणीयमिति सूचयति । हिरण्यगर्भस्य प्राप्तिरित्यन्वयः । उपल- क्षणमेतत् । 'कर्तारमीशम्' इतीशशब्दश्रवणात् रुद्रस्य वा अदृश्यत्वा- दिप्राप्तिरिति वक्ष्यमाणमत्रापि द्रष्टव्यम् । अस्मिन् पक्षे ईशशब्दस्य वि- ष्णौ सावकाशत्वशङ्कायामनन्तरं तत्परतः पराभिधानादित्यपि योज्य- म् । अत्रापि व्यधिकरणे पञ्चम्यौ ॥ ( ७ ) एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे—तमेवमिति ॥ 'तमेवम्' इत्येकं श्रुतिवाक्यम् । 'तत्' इत्यपरं स्मृतिवाक्यम् । 'अ- थ' इत्यन्यच्छ्रुतिवाक्यम् । आदिपदेन 'तदेतद्ब्रह्म' ( बृ. ४-५-१९. ) 'त्रिपादस्यामृतम्' ( ऋ. १०-९०-३. ) इत्यादिकं गृह्यते । तस्य वि- ष्णोर्धर्मस्तद्धर्मः तस्य भावस्तत्त्वं तेनेति विग्रहः । प्रकारे तृतीया । अवगतत्वं प्रसिद्धत्वं विषयत्वविशेषणम् । अमृतत्वादेरुपलक्षकमेतत् । अत्रेति शेषः। सूत्रेऽनुवृत्तस्य तत्त्वित्यस्यार्थो विष्णुरेवेति । अत्रादृश्य- त्वं दृश्यभिन्नत्वम् । तच्च स्वरूपम्, न तु गोत्राद्यत्यन्ताभाववद्ब्रह्मभि- न्नम् । तत्र तद्रूपत्वं ब्रह्मस्वरूपमिति विशेषं वक्तुं अदृश्यत्वादयो गुणा यस्येति बहुव्रीहित्वं च सूचयितुं शुभधर्मार्थकगुणशब्दप्रयोगः कप्रत्य- यश्च । तथाचेत्थं सूत्रभाष्ययोजना-अदृश्यत्वादिगुणकस्तत्तु विष्णू- रेव । कुतः ? अत्र प्रकरणे 'अथ परा यया तदक्षरमधिगम्यते' ( मुं.१- १-५.) 'तदेतदक्षरं ब्रह्म' ( मुं.२-२-२. ) 'पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' ( मुं.२-१-१०. ) इति वाक्येषु तस्यादृश्यत्वादिगुणकस्य परविद्याविषयत्वरूपधर्मोक्तेः । न च तस्य परविद्याविषयत्वोक्तावपि कुतो विष्णुत्वमिति वाच्यम् । यतस्तत् 'तमेवम्' इत्यादिना तद्धर्मत्वे- नावगतमिति । अत्र 'तमेवम्'इति श्रुतौ मोक्षसाधनज्ञानविषयत्वो- क्त्या विष्णोः परविद्याविषयत्वमुक्तं भवति । मोक्षसाधनविद्याया ए- व परविद्यात्वात् । तत्कर्मेति स्मृतावपि यद्धरितुष्टिकरं तदेव कर्म । यया 'तन्मतिः' हरेः ज्ञानं भवति, सैव विद्येत्युक्तत्वेन तस्य परवि-

An exact, line-by-line transcription of the Sanskrit text from the image:

तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गा नि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽ सावदृश्यो निर्गुणः परः परमात्मा' ( ) इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्वि ष्णुरेवादृश्यत्वादिगुणकः ॥ २१ ॥ (८) सू—ॐ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ ॐ ॥२२॥ द्याविषयत्वमुच्यते । 'द्वे विद्ये वेदितव्ये' (मुं. १-१-४.) इत्यत्रापि विष्णोः परविद्याविषयत्वमुच्यते इति न हेतुविशेषणासिद्धिः । अथेति प्रकरणारम्भे । वावेत्यवधारणे । चौ परस्परसमुच्चये । तथा च परा चापरा च द्वे विद्ये ज्ञातव्ये । 'तत्र' परापरयोर्मध्ये 'ये वेदाः' ऋ ग्द्याः यानि शिक्षादिषडङ्गानि 'यान्युपाङ्गानि' आयुर्वेदधनुर्वेदगा न्धर्वादीनि । 'यानि

२१० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ९ ) 'यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः' (मु.१-१-१०.) इति विशेषणान्न प्रकृतिः । 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु.१-१-१०.) इति भेदव्यपदेशान्न विरिञ्चः । ( १० ) अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥ प्रकृतिः । एवं 'तस्मात्' इति वाक्ये विरिञ्चस्य तस्मादक्षराज्जन्य- त्वरूपभेदकधर्मोक्त्या भेदव्यपदेशान्नादृश्यत्वादिगुणो विरिञ्च इति योजना ॥ ( ९ ) आथर्वणे 'यः सर्वज्ञः सर्ववित्' इत्यतः पूर्ववाक्ये 'तपसा चीयते ब्रह्म' (मु.१-१-९.) इत्यत्र परब्रह्म तपसा सम्बध्यत इत्युक्तम् । तत्र तपश्शब्दस्यालोचनार्थतयाऽज्ञानप्रतीतौ तन्निरासाय 'यस्य ज्ञानमयं तपः' इति वाक्यान्तरं प्रवृत्तम् । तस्य यस्य 'तपः' आलोचनक्रिया 'ज्ञा- नमयं' तदात्मकमेव न संशयाद्यात्मकमित्यर्थः । कुतस्तपसः सन्ता- पान्यपूर्णयथार्थज्ञानात्मकत्वमित्याकांक्षायां तस्य सर्वज्ञत्वादाप्तकाम- त्वादिति हेतुप्रदर्शनाय 'यस्सर्वज्ञः' इति पूर्ववाक्योपन्यासः । तद- र्थस्तु— 'यस्सर्वज्ञः' सर्वविषयकसामान्यज्ञानवान् 'सर्ववित्' सर्व- विषयकविशेषज्ञानवांश्च । सर्वस्य लब्धा सर्वकामः सर्वोत्पादको वेति । तत्त्वप्रदीपे तु—विद् सत्तायामिति धातुव्याख्यानात् सर्वत्र विद्यते इति सर्वविदित्युक्तम् । 'यस्य यः' इति यच्छब्दद्वयस्य 'त- स्मात्' अक्षरात् 'एतद्ब्रह्म' चतुर्मुखाख्यं 'नाम रूपमन्नं' तदभिमानि दैवतं चोत्पद्यत इति उत्तरवाक्यगततच्छब्देनान्वयः ॥ ( १० ) ननु न विष्णोरदृश्यत्वादिगुणकत्वं, परतः पराभिधानेनाक्ष- रश्रुतेः तत्र निरवकाशत्वादित्यतो विशेषणभेदव्यपदेशादिति सूत्रख- ण्डस्यार्थान्तरमाह—अपरमिति ॥ तुशब्दोऽवधारणे । 'अक्षरत्रयं' अक्षरस्य त्रयं 'ईरितम्' अक्षरं त्रिविधं प्रोक्तं इति यावत् । तिस्रो वि- धाः व्यक्तिनिर्देशपूर्वकं दर्शयति—अपरमिति । या यदपरमक्षरं सा जडरूपिका प्रकृतिरेव । या यत्परमक्षरं 'प्रोक्ता' प्रोक्तं वृद्धैस्तां तत् या विष्णुसंश्रया परा उत्तमा चेतना प्रकृतिः श्रीः लक्ष्मीः तां प्राहुः । यत्परतः परमक्षरमीरितं तज्जडप्रकृतेः पराच्छ्रीतत्त्वादखिलगुणं हरि- मेव प्राहुरिति स्मृत्यर्थः । इति स्कान्दे इत्यस्य 'त्र्यक्षराभिधानात्'

[ अधि - ६. सू - २२. ] दीपिकासहितम्. २११ सामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमेवाखिलगुणमक्षरत्रयमीरितम् ॥ इति स्कान्दे त्र्यक्षराभिधानादक्षरात्परतः पर इत्य पि विशेषणमेव । ( ११ ) ' जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीत शोकः' ( मु. ३-१-२. ) इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ २२ ॥ अक्षरत्रैविध्यस्योक्तत्वादित्यनेनान्वयः । अक्षरात्परतः पर इत्यपी ति । इतिवाक्योक्तमक्षरात्परतः परत्वमपीत्यर्थः । अपिः समु च्चये । तस्येति शेषः । तेनैवकारस्यान्वयः । तथा च न केवलं सार्व त्र्यं विशेषणम्, किन्त्वक्षरात्परतः परत्वमपि तस्य विष्ण्वाख्यप्रकृ ताक्षरस्यैव विशेषणं, न तु प्रकृताक्षरमवधीकृत्यान्यस्य कस्य चिद्वि शेषणम् । येनाक्षरश्रुतेर्विष्णाववकाशाभावः । न चाक्षरस्याक्षरात्पर तः परत्वं विरुद्धमिति वाच्यम् । ' अपरम्' इति स्कान्दे त्र्यक्षराभि धानात् अक्षरान्तरात्परसंज्ञस्याक्षरस्य परत्वोपपत्तेरिति योजना । अ क्षरत्रयाभिधानेन अक्षरात्परतः पर इत्यत्र सामानाधिकरण्येन वैयधि करण्येन वा अन्वयो दर्शितः । प्रमेयदीपे तु—अक्षराच्छ्रियस्ततः परतः परोऽत्युत्तम इति तद्भाष्यदिशा श्रुत्यर्थ उक्तः । अनेनाक्षरात्परतः पर इत्यपि तस्यैव विशेषणं, न तु अन्यस्य । न चाक्षरात्परतः परत्वं वि रुद्धमिति वाच्यम् । भेदव्यपदेशात् । 'अक्षरत्रयमीरितम्' इत्यक्षरा णामवान्तरभेदोक्तेः पाण्डवस्यार्जुनस्य स्वाधमकार्तवीर्यार्जुनादिव अक्षरात्परादक्षरान्तरादस्याक्षरस्य परत्वोपपत्तिरिति सूत्रखण्डस्या र्थान्तरमुक्तं भवति ॥ ( ११ ) ननु 'अन्यं' इतिशब्दश्रवणाददृश्यत्वादिगुणको रुद्रः किं न स्यादिति शङ्कोत्तरतयाऽपि भेदव्यपदेशान्नेतर इति सूत्रांशं व्या चष्टे—जुष्टमिति ॥ यद्यपि तथाऽपीत्यर्थेऽपिशब्दः । रुद्रोऽपीति स मुच्चये वा । न केवलं पूर्वहेतोः, किन्तु भेदव्यपदेशादपीति समुच्चये वा । रुद्र इतरशब्दस्यार्थान्तरोक्तिः । न चेतरशब्दस्य जडप्रकृतिवि रिञ्चरुद्रपरत्वे द्विवचनानुपपत्तिरिति वाच्यम् । विरिञ्चिरुद्रयोश्चेत नत्वेनैकीकृतत्वात् । तथा च यद्यपीशशब्दाद्रुद्रोऽप्यदृश्यत्वादिगुणक

२१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १२ ) सू—ॐ ॥ रूपोपन्यासाच्च ॥ ॐ ॥ २३ ॥ 'यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम्' ( मु. ३-१-३. ) इति । ( १३ ) 'एको नारायण आसीन्न ब्रह्मा न च शङ्करः। स मुनि र्भूत्वा समचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्नियैमो वरुणरुद्रेन्द्रा इति । तस्य हैत त्वेन 'प्राप्तः' प्रतीतस्तथाऽपि 'जुष्टम्' इति वाक्ये प्रवृत्तविष्ण्वाख्याक्षर स्येशशब्दितरुद्रादन्यत्वव्यपदेशादपि नादृश्यत्वादिगुणको रुद्र इति योजना । श्रुतिस्तु—आनन्दमयाधिकरणे व्याख्याता ॥ ( १२ ) युक्त्यन्तरेण विष्णोरेवादृश्यत्वादिगुणकत्वं साधयत्सूत्रं प ठित्वा तदुपात्तश्रुतिमेवोदाहरति—रूपोपन्यासेति ॥ इति रूपोपन्या सादित्यन्वयः । सूत्रे चशब्दो युक्तिसमुच्चये । तथा च—न केवलं ध र्मोक्तेः, किन्त्वदृश्यत्वादिगुणकस्य 'यदा' इति श्रुतौ शुद्धरुक्मरूपो क्तेश्चादृश्यत्वादिगुणको विष्णुरेवेति योजना। अत्र यदेति वाक्यस्य 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' ( मु.३-१- ३.) इतिवाक्यशेषेणान्वयः। पश्यतीति पश्यो द्रष्टा जीवः। 'रुक्मवर्णं' शुद्धहेमवर्णं 'ब्रह्मयोनिं' हिरण्यगर्भकारणं, अत एव जगतः कर्तारं 'पु रुषं' पूर्णषड्गुणं । 'स्वस्येशं' विष्णुं 'पश्यते' पश्यति तदाऽसौ 'विद्वान्' जीवन्मुक्तः 'पुण्यपापे' अप्रारब्धे अनिष्टपुण्यं च विधूय 'निरञ्जनः' ज्ञानोत्तरविकर्मकृताशुचित्त्वादिदोषरहितः अज्ञानाख्यावि द्यारहिस इति सुधोक्तेरज्ञानरहितो वा 'परमं साम्यं', पूर्णानन्दत्वा दिसाम्यं निर्दुःखत्वादिसाम्यं वा 'उपैति' प्राप्नोतीति श्रुत्यर्थः । त त्त्वोद्योतटीकायां तु इयं श्रुतिः मुक्तपरतया व्याख्याता। परममित्येतद भिव्यक्तमिति च व्याख्यातम् ॥ ( १३ ) ननु ब्रह्मादीनामपि रूपसद्भावात्कुतो रूपोपन्यासेनास्य वि ष्णुत्वनिश्चय इत्यत आह—एक इति ॥ 'इदमग्रे' इत्युपस्क्रियते । अ त एव न्यायदीपिकायां जगदादावित्युकम् । हेत्यास्वादने । एतेभ्य इति तादर्थ्ये चतुर्थी । तथा च इदमस्य जगतोऽग्रे प्रलये नारायणः 'एकः' स्वतन्त्र आसीत् । न तदा चतुर्मुखशङ्करौ, न स्वस्वव्यापा रावास्ताम् । 'सः' विष्णुस्तदा 'मुनिः' मननशीलो मौनी वा भूत्वा

[ अधि- ६. सू- २३. ] दीपिकासहितम्. २१३ स्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं र क्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्यचीक्ल पत् । विमिश्राणि व्यमिश्रयत् ' ( १४) अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधी यन्ते ॥ २३ ॥ 'समाचिन्तयत्' एते जायन्तामिति ध्यानरूपां चिन्तामकरोत् । 'ततः' तस्य चिन्तनादेते व्यजायन्त । के ते? यो 'विश्वो' वायुः, यश्च हिर ण्यगर्भः, येऽग्न्यादय एत इत्यर्थः । ततः किमित्यत आह—'तस्य' श्रुत्यादिप्रसिद्धस्य 'एतस्य' सर्वजीवशरीरगस्य 'परमस्य' सर्वोत्त मस्य नारायणस्य 'रूपाणि' वर्णाश्चत्वारि भवन्ति । कानि तानि ? शुक्लादीनि । किञ्चातः ? 'सः' नारायणः पूर्वमेव 'विमिश्राणि' स्वे न मिश्रीकृतानि रूपाणि 'एतेभ्यो' वायुप्रभृत्युक्तदेवानांमर्थे 'अभ्य चीक्लपत्' क्लृप्तान्यकरोत् । तानि विमिश्राणि पुनरपि 'व्यमिश्रय त्' मानुषादौ विशेषेण मिश्रीचकार । यद्वा—स एतानि रूपाणि व्य मिश्रयत्, विमिश्राणि चैतेभ्योऽभ्यचीक्लपदित्यर्थः । शुद्धानि रूपा णि तु स्वस्यैवाकरोदिति भावः । अत्राद्ययोजना तत्त्वप्रदीपटीकयोरु क्ता । द्वितीया तु टीकायामिति ध्येयम् ॥ (१४) ततः किमित्यत आह—अत इति ॥ 'अतो' मिश्रीकरणात् 'तद्रूपं' तस्य विष्णो रूपं 'एतादृगेव' शुद्धं शुक्लादिस्वरूपमेव । न तु वाय्वादिरूपमिव मिश्रमित्यर्थः । यद्यप्यत्र 'तस्य हैतस्य' इत्यादि क्रमेवोदाहरणीयम, प्रकृतोपयुक्तत्वात्, न तु 'एको नारायणः' इत्या दिकम् । तथापि 'एतेभ्यः' इत्यस्यार्थस्य प्रत्यार्थं तदंशोदाहरणंकृ तम् । इतीति । 'हि' यस्मादित्युदाहृतवाक्येन 'रूपाणि' शुक्लरौक्मादि रूपाणि तस्य विष्णोरेव अभिधीयन्ते, नेतरेषां, तस्मान्नाप्रयोजकता शङ्केत्यर्थः । अनेन सूत्रे सामान्येनोक्तत्वेऽपि रूपशब्दः शुद्धरूपपरः । तच्चान्यत्र नास्ति । 'ध्येयः सदा' इति सूर्ये प्रतीतमपि मिश्रमेवेति लिङ्गस्यान्यत्र निरवकाशत्वमुक्तं भवति ॥ ६ ॥ ॥ इति अदृश्यत्वाधिकरणम् ॥

२१४ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - २. ] ७. अधिकरणम् ॥ ( १ ) अदृश्यत्वादिगुणेषु सर्वगतत्वं 'यस्त्वेतमेवं प्रादेश मात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' ( छा. ५- १८-१० ) इति वैश्वानरस्योक्तमिति ॥ ( २ ) अत आह— सू—ॐ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ ॐ ॥ २४ ॥ ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्धयर्थं ब्रह्म णि वैश्वानरनामसमन्वयः क्रियते। पूर्वाधिकरणसङ्गतिं विषयवाक्यो दाहरणपूर्वकं विषयादिकं सूचयति-अदृश्यत्वादिति ॥ उक्तमित्यस्या वृत्तिः श्रुताविति शेषः । तथा च-गताधिकरणोदाहृतमुण्डकश्रुत्युक्ता दृश्यत्वादिगुणेषु मध्ये 'नित्यं विभुं सर्वगतम्' ( मु. १-१-७. ) इत्यनेन यत्सर्वगतत्वमुक्तं तच्छन्दोगश्रुतौ 'यस्त्वेतम्' इत्यनेन वैश्वानरस्योक्त मिति योजना। अनेन छन्दोगश्रुतिस्थवैश्वानरशब्दस्यान्यनिष्ठत्वाक्षेप मुखेन पूर्वोक्तसर्वगतत्वादेरन्यनिष्ठत्वाक्षेपात्पूर्वेणास्याक्षेपिकी सङ्ग तिरुक्ता भवति। वैश्वानरो विषयः, विष्णुरन्यो वेति सन्देहश्च सूचि तः। श्रुत्यर्थस्तु—'यस्तु' अधिकारी 'प्रादेशमात्रं' देहहृदये तावत्प रिमाणकम् । तत्त्वप्रदीपरीत्याऽधिकार्यपेक्षया प्रादेशमात्रमिति वा । 'अभिविमानं' अभितो धिगतं मानं मर्यादा यस्य तं, सर्वगतं इति या वत् । 'आत्मानं' आततगुणं 'एतं' शरीरस्थं 'वैश्वानरं' तदाख्यं विष्णुं 'एवं' वक्ष्यमाणरीत्या उपास्ते 'सोऽन्नमत्ति' ( छा. ५-१८-१० ) स्वयोग्यभोग्यमनुभवतीति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ साधारणस्येत्यन न्तरमपीति शेषः । साधारण्यं साम्यम् । तत्र श्रुतेर्नोभयत्र प्रसिद्धत्व रूपं, वैश्वानरशब्दस्यान्यत्रैव प्रसिद्धत्वात् । किन्तु श्रुतेः प्रसिद्धतो लिङ्गेन साम्यरूपं, तदपि निरवकाशत्वेन प्रकारेण, वैश्वानरश्रुतेः वि ष्णौ प्रसिद्धयभावेन तत्र निरवकाशत्वात्पूर्वोक्तसर्वगतत्वस्यापि वि ष्णोरन्यत्र निरवकाशत्वात् । तथा च—यद्यपि अग्नाविष्ण्वोः प्रतिज्ञा विषययोः सतोः पूर्वपक्षसाधकवैश्वानरशब्दो निरवकाशत्वेन प्रकारे णोत्तरपक्षसाधकलिङ्गसाधारणः । श्रुतिलिङ्गयोर्निरवकाशत्वेन सा म्येपि लिङ्गाच्छ्रुतिः प्रबला तस्मादग्निरवेति प्राप्तम् । तथाऽपि साधार

[ अधि - ७. सू - २५. ] दीपिकासहितम्. २१५ अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ २४ ॥ ( ३ ) सू—ॐ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ ॐ ॥ २५ ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । ( भ. गी. १५-१४. ) इति स्मर्यमाणमत्रापि स एवोच्यते इत्यस्यानुमापकम् । ( ४ ) समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः ॥ २५ ॥ णस्यापि वैश्वानरशब्दस्य विष्ण्वेकनिष्ठतया श्रुत्यादिसिद्धेन 'आत्मा नं वैश्वानरम्' इत्यात्मशब्देन 'विशेषणात्' विशेषितत्वाद्विष्णुपरत्व सम्भवात् । प्रसिद्ध्यादेरन्यथोपपन्नत्वेन निर्णयकारणाभावाच्छब्दवि शेषादात्मशब्दाद्वैश्वानरो विष्णुरेव, 'न देवताभूतं च' इत्यावृत्त्या सू- त्रभाष्ययोर्योजना । अनेन निर्णयेनैव पूर्वपक्षः सूचितः । अत्र पक्षे लि- ङ्गप्राबल्यनिरासाय साधारण्योक्तिः । सिद्धान्तश्रुतेः सावकाशत्वज्ञा- पनाय साधारण्योक्तिरिति केचित् । यद्वा-भाष्यटीकास्वारस्यादनि- र्णयेनैव पूर्वपक्षः । अत्र पक्षे साधारण्यं प्रति धर्मित्वं शब्दस्यैव, न लिङ्गस्यापि । अग्नाविष्ण्वोरिति विषयसप्तमी । तथा च—यतोऽग्नावि- ष्ण्वोर्यद्यपि वैश्वानरशब्दः साधारणः सम्भवद्वृत्तिकः । तथाऽपि प्रसि- द्धमुखेन निरवकाशत्वेन लिङ्गस्य साधारणश्च । अतः पूर्वोत्तरपक्षसा- धकयोः समबलत्वादनिर्णयः । तथाऽप्युभयत्र साधारणस्यापि वैश्वान- शब्दस्येत्यादिका योजना द्रष्टव्या ॥ ( ३ ) नन्वात्मशब्दस्याग्न्यादिष्वमुख्यत्वाभ्युपगमेन सामानाधि- करणाविरोधात्तेषामेव वैश्वानरत्वं किं न स्यादित्याशङ्कां परिहर्तुं स- माख्यारूपहेत्वन्तरेण वैश्वानरस्य विष्णुत्वं निश्चाययत्सूत्रं पठित्वा व्याचष्टे—स्मर्यमाणमिति ॥ सूत्रभाष्ययोः 'स्मर्यमाणं' 'अहं वैश्वा- नरो भूत्वा' इति गीतास्मृत्युक्तं विष्णोर्वैश्वानरत्वं 'अत्र' वैश्वानर- विद्यायामपि 'सः' गीतोक्तो भगवान्नेव वैश्वानरपदेन उच्यते 'इ- त्यस्य' एवंरूपस्यार्थस्य 'अनुमानं' अनुमापकं 'स्यात्' भवेदिति योजना ॥ ( ४ ) नन्वहमिति विष्णुना कृष्णेनोक्तेः स्मृत्युक्तवैश्वानरस्य वि- ष्णुत्वेऽपि अत्रोक्तवैश्वानरस्य कुतो विष्णुत्वमित्यत आह—समाख्या- नादिति ॥ अस्याः स्मृतेरिति शेषः । तथा च—गीतास्मृतेः वैश्वानर

२१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ५ ) सू- ॐ ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैन मधीयते ॥ ॐ ॥ २६ ॥ विद्यासमानोक्तिरूपत्वादस्यास्तत्समाख्यानान्निश्चयो भवतीत्यर्थः । समाख्यायुक्तिर्न सूत्रोक्तेत्यत आह—इति शब्द इति । 'प्रदर्शकः' सू चकः। तथा च—इतिस्मर्यमाणमित्यस्य इतिसमाख्यायमानमित्यर्थाभ्यु पगमादितिशब्दः समानोक्तिरूपसमाख्यालक्षणलिङ्गज्ञापक इति भा वः। अत्र सूत्रे समाख्यारूपहेत्वन्तरोक्तावपि तस्यात्मशब्दाख्यपूर्व हेतोरनिश्चायकत्वशङ्कामुखेन तन्निरासाय प्रवृत्तत्वाच्चशब्दाभावः ॥ ( ५ ) वैश्वानरस्य विष्णुत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य आक्षे पांशं तावद्व्याचष्टे—शब्दादिभ्य इति ॥ 'अयमग्निर्वैश्वानरो यो

= 'म्ग'. Here, it's 'म' half-form, then 'ग' with 'न' subscript and 'ि' = 'म्ग्नि'? No, look at the loop: it is 'म' with a dot? Wait, look at 'अ' 'य' 'म' 'ग्नि' 'र्वै' 'श्वा' 'न' 'रः'. It is simply 'अयमग्निर्वैश्वानरः'! But the 'म' and 'ग्' might be slightly close. Let's transcribe 'अयमग्निर्वैश्वानरः' or what is literally there. Wait, let's look at the prompt: "Transcribe the text from the image line by line". If it is 'अयमग्निर्वैश्वानरः', let's write ‘अयमग्निर्वैश्वानरः’ (बृ. ७-९-१.) ‘वैश्वानरमृत. Wait, look at the citation: (बृ. ७-९-१.) Then ‘वैश्वानरमृत. In L3: आजातमग्निम’ (ऋ. ६-७-१०.) इत्यादिशब्दः । Wait, is it ६-७-१०. or ६-७-१.? Look at the digits in (ऋ. ६-७-१०.): The last digit has a circle: '०' or '१.'? Wait, look at the

[३१८] [ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.]]

मू । 'येनेदमन्नं पच्यते' (बृ. ७-९-१.) 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्' (छा. ५ - १९-१.) इत्यादिना पाचकत्वेनान्तःप्रतिष्ठानं च प्रती यते । तस्मान्न विष्णुरिति चेत्— अभिव्यक्तं 'ऋर्षिं' सर्वज्ञं 'सम्राजं' अखण्डेशं 'अन्नं थम्' ( ) इति श्रुतेः थशब्दोऽन्नवाची । तृतीयोऽतिशये । तथा च 'अतिथिं' अत्यन्न म् । पात्रमित्येनेनापि जनानामित्येतत्सम्बध्यते । तथा च जनानां 'पा तारं' रक्षकं 'वैश्वानरं' विश्वजीवान्तरत्वयोगेन तच्छब्दवाच्यं 'अ ग्निं' अङ्गनेतारं विष्णुं प्रसिद्धं च देवा आसन् । अविभक्तिकोऽयं नि र्देशः । आस्यशब्दस्यासन्नादेशः । तथा च आसन् स्वास्यतया आज नयन्त । अडभावश्छान्दसः । आसमन्तात्सर्वकर्मस्वकुर्वन्निति सिद्धा न्तरीत्या श्रुत्यर्थः । तत्त्वप्रदीपे तु—विश्वनरस्थं श्रुते वेदे 'आ स मन्ताज्जातं' व्यक्तं 'अग्निं' अङ्गनेतारं 'संराजं' सम्यग्राजन्तं 'अति थिं' सर्वानतिशय्य स्थितं पातारं अग्निं जनानां 'आसन्' आश्रयं आ जनयन्त आसमन्ताज्जनयांचक्रुः । अग्रयादिदेवा इति विशेषार्थ उक्तः। केचित्तु—जनिबाधकाऽन्ययोगादाजनयन्त अकुर्वन्नित्युक्तमित्याहुः । त त्त्वदाहृततत्त्वप्रदीपविरुद्धम् । अतोऽनेकार्थत्वाद्धातूनां विष्णुजन्येऽग्नौ देवजन्यत्वायोगात् जनेरुत्पत्त्यर्थायोगाच्च अकुर्वन्नित्युक्तमिति आङ्कवि श्लेषेणैव टीका व्याख्येया । पूर्वपक्षी तु श्रुतिगताग्नयादिशब्दान्प्रसिद्धा ग्निपरानेव मन्यते ॥ 'वैश्वानरे तद्धुतम्' इति वाक्यार्थस्तु—'तस्मादुहैवं विद्यद्य पि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य वैश्वानरे हुतं स्यात्' (छा.५-२४-४.) इति छन्दोगसमाख्यावाक्यादवगन्तव्यः । तदर्थस्तु- यदि 'एवंवित्' उक्तरीत्या वैश्वानरज्ञानी उच्छिष्टाद्यनर्हायापि चण्डा लायोच्छिष्टं 'प्रयच्छेत्' दद्यात् । तदा तद्दत्तमुच्छिष्टं चण्डालान्तर्यामि णि वैश्वानरे हुतं स्यान्न पापकरं भवति । प्रत्युत महाफलमेवेति । अ नेनाहुतिस्थानत्वलिङ्गमुच्यते ॥ 'हृदयं' हृदयस्थो विष्णुर्गार्हपत्यपदवाच्य इत्यर्थः । एवमुत्तर त्रापि। 'अन्वाहार्यपचनो' दक्षिणाग्निरन्वाहार्य ओदनोऽत्र पच्यत इति व्युत्पत्तिसम्भवात् । पूर्वपक्षे तु गार्हपत्यं वैश्वानरस्य प्रसिद्धाग्नेर्हृदय स्थानीयमित्यादिरर्थः ॥

[ अधि - ७. सू - २६. ] दीपिकासाहितम्. २१९ ( ६ ) न, ‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं ह- रिमुपासीतेति । सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्व- गुणः सर्वकामः सर्वधर्मः सर्वरूप इति’ । ‘तद्यद्भक्तम्’ इति वाक्यार्थस्तु—‘तत्’ तदा भोजनवेलायां ‘यद्यद्भक्तं’ अन्नं ‘प्रथममागच्छेत्’ आस्यं प्रतिप्राणाहुतिरूपेण । ‘त- द्धोमीयं’ पाचकत्वेनान्तःस्थितस्याग्नेर्होमद्रव्यमिति । अनेनाग्नौ हूय- मानद्रव्यस्याग्निः पाचक इति सिद्धमिति पाचकत्वाख्यलिङ्गमुक्तं भ- वति । यद्यपि ‘येनेदम्’ इति पूर्ववाक्ये ‘अयमग्निः’ इति तत्पूर्ववा- क्यसाहित्यात् पाचकत्वेनान्तःप्रतिष्ठानोक्तावपि न ‘यद्यद्भक्तम्’ इति वाक्ये तत्प्रतीयते । तथापि ‘तद्धोमीयम्’ इत्यनेनान्तस्स्थितस्य हो- म

२२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] (७) ‘स य एतमेवमात्मानं विश्वं हरिमागदरमुपास्ते त स्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वेषु वे देषु कामचारो भवति’ इति तत्तन्नामलिङ्गादिना त स्यैव दृष्ट्युपदेशान्महोपनिषदि ॥ (८) अनात्तत्वादनात्मान ऊनत्वादुणराशितः । अब्रह्माणः परे सर्वे ब्रह्मात्मा विष्णुरेव हि । इत्यादिना, ‘को न आत्मा किं ब्रह्म’ (छा.५-११-१.) (७) एवमुपासकस्य फलमाह—स इति ॥ ‘सः’ प्रसिद्धः यो- धिकारी एतमात्मानं अणोरणीयांसं परतःपरमेव विश्वं हरिमेव, ना- न्यं, ‘आरात्’ समीपे स्वहृदये ‘अरं’ अलं सम्यगुपास्ते तस्यैवम- व्याप्ते व्याप्तरूपोपासकस्य सर्वेषु लोकेषु सर्वेषु ‘भूतेषु’ प्राणिषु, स- [L

[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२१ इत्यारम्भाच्च अन्येषामसम्भवात् विष्णुरेव वैश्वानरः । (९) ‘चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत’ (तै. आ. ३-१२.) इत्यादिना यः पुरुषाख्यो विष्णुरभिहित स्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वंरूपः प्राणः पृथग्वर्त्मा’ (छा. ५-१८-२.) इत्यादिना एनं वैश्वा नरमधीयते ॥ मात्मशब्दार्थव्याप्तत्वगुणपूर्णत्वयोरसम्भवावगमादिति । अनेन सूत्रे आरम्भादिति पदमध्याहृत्य तेनापिशब्दः संयोज्यः । असम्भवादिति हे तुस्तु आत्मशब्दादेरन्यत्रानवकाशत्वसाधकत्तयोभयत्र संयोज्य इत्यु क्तं भवति । अत एव भाष्ये अग्निश्रुत्यादीनां विष्णौ सावकाशत्वसा धकतयेत्यादिव्याख्यानन्तरं विष्णुपक्षसाधकात्मशब्दादेरन्यत्रानवका शत्वसाधकासम्भवादिति हेतौ व्याख्यातव्येऽपि तद्विहायारम्भादि त्यध्याहृतहेतूपन्यासानन्तरं असम्भवादित्युपन्यस्तम् । टीकायामपि —न चात्मशब्दादेरन्यत्रास्त्यवकाश इति प्रतिज्ञाय प्रकरणबलाच्चेत्य ध्याहार्यहेतुं च प्रदर्श्य, अनन्तरमात्मशब्दप्रकरणयोर्निरवकाशत्वसा धकासम्भवादित्यंशो व्याख्यातः । तथादृष्ट्युपदेशादसम्भवादितिवत् नाध्याहृतहेतोरवान्तरसाध्येनान्वयः, किन्तु प्रधानेनैवेति ज्ञापनाय विष्णुरेव वैश्वानर इति पुनरुक्तिः । उद्देश्यविधेयनिर्देशस्यैच्छिकत्वा द्व्यत्यासः । ‘हि’ यस्माद्विष्णोः ‘परे’ अन्ये गुणैः ‘अनात्तत्वात्’ अव्याप्तत्वात् सर्वोत्कृष्टत्वेन वैदिकैरस्वीकृतत्वाद्वा ‘अनात्मानः’ अना त्मशब्दमुख्यार्थाः। यस्माच्च गुणराशित ऊनत्वादब्रह्माणश्च । तस्मात् ‘ब्र ह्यात्मा’ तच्छब्दमुख्यवाच्यो विष्णुरेव सिद्ध इत्यर्थः । छान्दोग्ये हि ‘को न आत्मा किं ब्रह्म’ इति मिलित्वा मीमांसमानैः प्रत्यब्दयज्ञकृत्व निमित्तान्महाशालसंज्ञैः पञ्चभिर्महामुनिभिः उद्दालकोद्दिष्टैस्तद्युक्तैः परिपृष्टो राजाऽश्वपतिर्वैश्वानरमुपदिदेश । ‘नः’ अस्माकं उपास्य आत्मा ‘कः’ किंलक्षणः । ब्रह्म च ‘किं’ किंलक्षणमित्यर्थः ॥ (९) श्रुतिसमाख्यया च वैश्वानरस्य विष्णुत्वमुपपादयितुं प्रवृ त्तं ‘पुरुषविधमप्येनमधीयते’ इत्यंशं व्याचष्टे—चन्द्रमा इति ॥ अत्र ‘चन्द्रमाः’ इति वाक्यं प्रतीकत्वेन गृहीतम् । उदाहरणवाक्यं तु च

२२२ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.] (१०) चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपরত্বं पुरु- षसूक्तस्य दर्शयति । (११) तथा च ब्राह्मे— यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् । तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम् ॥ इति । (१२) चतुर्वेदशिखायां च— क्षोस्सूर्यो अजायत' इतीति ध्येयम् । प्रथमादिपदेन 'शीर्ष्णोद्यौस्स मवर्तत, प्राणाद्वायुरजायत,..पद्भ्यां भूमिः, (तै.आ.३-१२.) इत्या दिकं द्वितीयादिपदेन 'संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ' (छां.५-१८-२.) इत्यादिकं गृह्यते । एतमित्यस्य व्याख्यानं—वै श्वानरमिति । तथाच—यस्मात्पुरुषसूक्ते 'शीर्ष्णोद्यौस्समवर्तत, च क्षोस्सूर्यो अजायत' इत्यादिना शब्देन यः पुरुषाख्यो विष्णुः यद्विधो द्युभ्वादिसनकशीर्षादिमानभिहितः, तद्विधमेव द्युभ्वादिसनकशीर्षा दिमत्त्वप्रकारोपेतमेवात्र छान्दोग्ये 'मूर्धैव सुतेजाः' इत्यादिना वा क्येनैनं वैश्वानरमधीयते छन्दोगाः तस्मात्पुरुषसूक्तसमाख्ययाऽपि वैश्वानरो विष्णुरेवेति योजना ॥ (१०) ननु पुरुषसूक्तस्य विष्णुपরত্বे भवेत्तत्समाख्यया एतद्विद्या या विष्णुपরত্বम, तदेव कुत इत्यत आह—चशब्देनेति ॥ श्रुतेराधि क्यात्प्रथमं प्रतिज्ञा । 'पुरुषसूक्तस्य' इत्यनन्तरं 'प्रसिद्धमिति' इ ति शेषः । 'दर्शयति' सूचयति सूत्रकार इत्यर्थः । आत्मशब्दस्मृति समाख्याप्रकरणसमुच्चयस्येव प्रकरणश्रुतिसमुच्चयस्यापि अपिपदेनै व सिद्धत्वान्न तत्रोपक्षीणश्चशब्द इति भावः ॥ (११) किं तद्वेदादीत्यतश्श्रुतेः साक्षात्प्रतिज्ञातार्थासाधकत्वात्प्रति ज्ञाक्रममतिक्रम्य साक्षात्प्रतिज्ञातार्थसाधकत्वादादौ पुराणवाक्यं पठ ति—तथा चेति ॥ सूत्रे पुरुषसूक्तस्य विष्णुपরত্বं सिद्धमिति यथो क्तं तथा ब्राह्मे चोक्तमित्यर्थः । चः समुच्चये । एवं उत्तरत्रापि 'उ क्तम्' इति पदाध्याहारेण सप्तम्यन्तपदानान्वयो द्रष्टव्यः । 'नित्यं' नियमेन 'विष्णुपरायणं' विष्णौ महातात्पर्यवत् । द्वितीयस्य नित्य मित्यस्य सदेत्यर्थः । 'इति ब्राह्म इति' इति शब्दान्वयः । सिद्धार्थस्यै व दृष्टान्तत्वादनेन ब्राह्मवचनेन विवक्षितार्थो ज्ञायते ॥ (१२) प्रतिज्ञातां श्रुतिं दर्शयितुं प्रथममेव तत्स्थानमाह—चतुर्वेद

[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२३ सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् । इति । एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादि रनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्तगुणोऽन न्तरूप इति । ( १३ ) बृहत्संहितायां च— यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् । न तथा सर्ववेदाश्च वेदाङ्गानि च नारद ॥ इत्यादि । ( १४ ) यस्माद्यज्ञ्जायते चाङ्गाल्लोकवेदादिकं हरेः । शिखायां चेति ॥ अत्र चतुर्वेदशिखाश्रुतिः 'सहस्र' इत्यारभ्य 'सह स्रपात्' इत्यन्तेन पुरुषसूक्तमुपन्यस्य 'एषह्येव' इत्यनेन 'सहस्रशी र्षा पुरुषः' इत्युक्तो हरिरेव नान्य इत्येतत्सूक्तं विष्णुपरतया व्याख्या तीति प्रकृतसङ्गतिः । सुप आकारो वैदिकः । एष क इत्यतो यः 'प रो' विलक्षणः अत एव 'अचिन्त्यो' मनसा 'परमः' उत्तमः 'आ दिः' कारणभूतः 'अनादिः' उत्पत्तिशून्यः 'अनन्तः' नाशशून्यः, स्व रूपतोऽपरिच्छिन्नो वा हरिः स इत्याह । कुतः अयं पुरुषः सहस्रशीर्षा ? 'हि' यस्मादनन्तशीर्षा । कुतः सहस्राक्षः ? यस्मादयमनन्ताक्षः । कु तःअयं सहस्रपात् ? यस्मादनन्तबाहुः । अनन्तपादित्यस्याप्युपलक्षक मेतत् । एवं पूर्ववाक्येऽपि 'सभूमिम्' इत्युत्तरवाक्येप्युपपादकमाह- अनन्तगुणोऽनन्तरूपोऽनन्ताकार इति । चतुर्वेदशिखायामित्यन्वयः ॥ ( १३ ) ब्राह्मवाक्यस्य पुरुषसूक्तस्य लक्षणया विष्णुपरत्वेऽन्यपर त्वेऽपि वा सावकाशत्वान्नतत्प्रतिज्ञातार्थनिश्चायकमित्यतो व्याख्यान व्याख्येयभावाख्यद्वारमन्तरेण पुरुषसूक्तं मुख्यतो विष्णोरेवाभिधाय कमिति साक्षात्प्रतिज्ञातार्थसाधकं स्मृतिवाक्यं तत्स्थाननिर्देशपूर्वकं पठति—बृहत्संहितायां चेति ॥ चकारः पूर्वसमुच्चयार्थः । 'वेदाङ्गा नि' शिक्षादीनि ब्राह्मवाक्यमेतत् । इत्यादि । बृहत्संहितायामुक्तमित्य न्वयः । आदिपदेन 'सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः' इति ब्रह्मतर्कादिग्रहणम् । 'सर्वतः' सर्वे गुणाः । सामान्येनेति शेषः । स र्वेस्मिन्, सर्वस्मात् वेदतदङ्गेभ्योऽतिशयेनेति वा ॥ ( १४ ) ननु पुरुषसूक्ते द्युभ्वादिजनकशीर्षादिमत्त्वं पुरुषस्योच्यते । वैश्वानरविद्यायां तु वैश्वानरस्य तद्भेद उच्यते । तदुभयोर्विरुद्धार्थ त्वान्नेयं समाख्येत्यत आह—यस्मादिति ॥ 'लोकः' स्वर्गादिः 'वेदः'

५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥ इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ २६ ॥ अङ्गादिः। यद्यपि नात्र छान्दोग्ये वेदाभेद उच्यते इति न तद्गतिर्वक्त व्या । तथापि श्रुत्यन्तरगताभेदवाक्यार्थनिर्णयायायमंशः प्रवृत्तः । यद्वा—वेदशब्देन 'उर एव वेदिः' इत्युक्ता वेदिर्गृह्यते । 'तृतीयोऽ तिशये' इत्युक्तत्वात् । 'वेद्यादिकम्' इति पाठः स्वरसः । तथा च —यस्माद्यस्मात् हरेरङ्गात् यद्यत् लोकवेदादिकं जायते, यदाश्रित्य तिष्ठति, यत्र लीयते च तज्जनकमङ्गं तस्मात् 'तन्नामवाच्यं' तस्य लोकादेर्नाम वाचकशब्दः तेन मुख्यवाच्यं भवति । अत एव तद भिन्नत्वेन प्रतीयते च । न तावता तयोरभेदो मन्तव्य इत्यर्थः । अत्र दृष्टान्तमाह—यथेति । मुखमित्युपलक्षणम् । तथा च—भगवन्मुखा द्बिर्ब्राह्मणादिजातिजनकत्वात् ब्राह्मणादिनाम्नोच्यते 'ब्राह्मणोऽस्य मु खमासीत्' (तै.आ.३-१२.) इत्यादौ । अत एव तदभिन्नत्वेन प्रतीयते च सामानाधिकरण्यात् । तद्वदत्रापीत्यर्थः । न ह्यत्र पुरुषोत्तममुखा दिभिरभेदो ब्राह्मणादीनामुच्यते, 'पद्भ्यां शूद्रो अजायत' (तै.आ.३- १२.) इत्युत्तरवाक्यविरोधात् । इति वचनादित्युक्तत्वाद्वैश्वानराङ्गानां 'मूर्धैव' इति लोकाद्यभेदोक्तिनिमित्तो विरोधो नेत्यर्थः । अभेदप्र त्यायकोक्तेस्तज्जन्यजनकभावविवक्षापूर्वकत्वादिति भावः । अनेन भगवतो मूर्धा सुतेजस्त्वादिगुणयोगात्सुतेजःशब्दितस्वर्गजनक त्वात् सुतेजा इत्युच्यते । एवं 'चक्षुर्विश्वरूपः' सर्वप्रकाशक स्वगुणयोगात् विश्वरूपशब्दितसूर्यजनकत्वात्तच्छब्देनोच्यते । 'प्राणः पृथग्वर्त्मात्मा' (छां. ५-१८-२.) वायुजनकत्वात्तच्छब्दित इति श्रु त्यर्थस्सूचितः । आत्मशब्दः स्वरूपार्थो मध्यदेहार्थो वा । छान्दोग्य भाष्ये तु—'मूर्धा विष्णोश्शिरः स्वर्गाधारं द्युनामकं' अतितेजसा सुतेजोनामकं च । विश्वानि रूपाणि विषयत्वेन यस्येति विग्रहाश्रये ण सर्वरूपातिदर्शनात् चक्षुर्विश्वरूपाख्यम् । एवं विष्णोः प्राणो नृसि ङ्गाख्यो वाय्वादिप्राणशक्यं यन्न भवति तस्य पृथग्वर्त्मात्मा पृथग्वि लक्षणो मार्गो यस्य स चासावात्मा चेति, इति निमित्तान्तरेण श्रुति र्व्याख्याता । एवं बहुलरयिपृथिवीशब्दिताकाशवारिवसुन्धरादेवता जनकत्वात् सन्दोहवस्तिपादपदोक्तानि मध्यदेहकटिप्रपदरूपाणि भगवतो वैश्वानरस्याङ्गानि तत्तच्छब्दवाच्यानीत्यपि ज्ञातव्यम् ॥

ादीति आधिभौ-"

तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ- "तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ-" Wait, look at line 29: "तिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थ-" All clear.

मग्न्यादिवैश्वानरादिग्रहणम् । ‘तेजसि भूते’ इति सामानाधिकरण्य- म् । चः समुच्चये ‘प्रसिद्धः’ इत्यनेन पूर्वपक्षे प्रसिद्धत्वादिति युक्तिः सूचिता । सौत्रमतःशब्दमनूद्य व्याख्याति—अत इति । पूर्वोक्तेति । २९

Wait, let's verify line 33: "२९" - yes, bottom page signature / number: "२९". Wait, let's verify line 1: "[ अधि - ७. सू - २७. ] दीपिकासहितम्. २२५" Wait, is it "दीपिकासहितम्." with a dot? Yes, dot. Page number: "२२५".

Let's do a meticulous pass over every single line:

Line 1: [ अधि - ७. सू - २७. ] दीपिकासहितम्. २२५

Line 2:

२२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १६ ) सू— ॐ ॥ साक्षादप्यविरोधं जैमिनिः ॥ ॐ ॥ २८ ॥ नाग्न्याद्यर्थैः शब्दा अग्न्यादिवाचकास्तथाऽपि सा क्षादेवानन्ययोगेन ब्रह्मवाचकैरशब्दैः व्यवहारार्थम नभिज्ञानाच्च अन्यत्र व्यवहरन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति । आत्मशब्दादितिहेतुत इत्यर्थः । न तत्र हेत्वन्तरं गवेषणीयमित्येवा र्थः । ' अत्र ' वैश्वानरविद्यायां विद्यान्तरे च ' सा ' अग्निदेवता 'तत्' तेजोभूतं, प्रसिद्धिप्राधान्याभ्यां निर्देशव्यत्यासः । चशब्दः समुच्चये । अभिधीयते ' तेन ' इति शेषः । वैश्वानरादिशब्देनेति तदर्थः । ' तत्र' इति पाठाभावे तदप्यध्याहार्यम् ॥ ( १६ ) ननु लोके वेदे च अग्न्यादिपदानां ईशादन्यत्र व्यवहारप्रसि द्धिदर्शनात् तस्य च कारणान्तराभावात्तदन्यथाऽनुपपत्त्याऽन्येषां वा च्यत्वमङ्गीकार्यम् । अन्यथा तद्विरोधः स्यादित्याशङ्कां परिहरत्सू त्रमुपन्यस्य व्याचष्टे—साक्षादिति ॥ अत्र तथापीत्यपिशब्दव्याख्याना द्यद्यपीति लभ्यते । अग्निशब्दः स्वपरः । अग्निशब्द एव आदिर्येषां तेऽ ग्न्यादय इति विग्रहः । अपिरवधारणेऽपीत्याशयेन साक्षादेवेत्युक्तम् । अर्थान्तरव्यवधानेनेत्यर्थः । फलितार्थमाह—अनन्येति । शक्यरूपा न्यसम्बन्धमन्तरेण मुख्यवृत्त्येत्यर्थः । यद्वा—तत्त्वप्रदीपरीत्याऽन्यत्र यो गवृत्त्यभावेन ब्रह्मणि सम्यग्भोगेनेत्यर्थः । ब्रह्मवाचकैरपीत्यपिशब्दान्व यः । ' तैरग्न्यादिशब्दैः ' इति शेषः । ' व्यवहारार्थं ' हानादिव्यवहार सिद्ध्यर्थं ' अनभिज्ञानात् ' मुख्यवाच्यज्ञानाभावात् । चशब्दो न फेव लं व्यवहारार्थं किन्त्वनभिज्ञानाच्चेति समुच्चये । ' अन्यत्र ' अग्न्यादि षु तान् तत्र व्यवहरन्ति ज्ञानिनोऽज्ञानिनश्चेति क्रमेण शेषः । ' इत्यभ्यु पगमे ' इति निमित्तसप्तमी । एवमङ्गीकारात् ' अविरोधं ' ज्ञान्यज्ञानि व्यवहारविरोधाभावं जैमिनिराचार्यो वक्तीत्यर्थः । ' यत्रानवसरः ' इत्युक्तेर्वक्तीत्युक्तम् । अनेनाग्न्यादिशब्दाः नाग्न्यादिवाचकाः, किन्तु ब्रह्मवाचका एव । तथापि नान्यत्र प्रसिद्धिविरोधः । न वाऽन्यथाऽनुपप त्त्याऽन्येषां वाच्यत्वं कल्प्यम् । कुतः ? यतो वाच्यार्थधीव्यवहितं लक्ष णादिकं विना साक्षान्मुख्यवृत्त्याऽपि ब्रह्मवाचकामग्न्यादिशब्दान् मु ख्यार्थज्ञानिनः अजामिलचरमतनये नारायणशब्दमिव हानादिसिद्ध्य र्थं तदज्ञानिनस्त्वनभिज्ञानादेव तान् ज्वलनादिषु व्यवहरन्तीत्यभ्युप

[ अधि - ७. सू - २९. ] दीपिकासहितम्. २२७ ( १७ ) व्यासचित्तस्थिताकाशादवच्छिन्नानि कानि चित् । अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत् ॥ इति स्काान्दवचनान्नमतानां परस्परविरोधः ॥ २८ ॥ ( १८ ) सू—ॐ ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ॐ ॥ २९ ॥ तत्र तत्र प्रसिद्धावप्यग्नयादिषु ब्रह्मणोऽभिव्यक्तेर ग्नयादिसूक्तनियम इत्याश्मरथ्यः ॥ २९ ॥ . गमेनान्यत्राविरोधं व्यवहारविरोधाभावं प्रसिद्धिविलोपाभावं वक्ष्यत इति सूत्रार्थ उक्तो भवति ॥ ( १७ ) ननु जैमिन्यादिमतानां भगवन्मताविरोघित्वे जैमिन्यादि ग्रहणवैयर्थ्यात् तद्विरोधित्वे वा कथं विरुद्धराद्धान्तेन परिहार इत्य त आह—व्यासेति ॥ व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहा काशमपेक्ष्य गृहाद्यवच्छिन्नाकाशवत् ' अवच्छिन्नानि ' विविक्तानि परिमितविषयाणि कानि चिदेतानिं मतान्यूरीकृत्य ' अन्ये ' केचन जैमिन्याद्याः व्यवहरन्तीत्यर्थः । यथोक्तं सत्तर्कदीपावल्याम्—आका शवदथासत्वात्प्रकाशमानत्वाच्च व्यासचित्तस्थितमताख्याकाशात् ' अवच्छिन्नानि ' स्वस्वमत्या विविक्तानि तानि मतानि इदं मदीयं इदं मदीयं इत्यूरीकृत्यान्ये व्यवहरन्ति । यथा गृहनगरादिभिराकाश प्रदेशानवच्छिद्यायं मदीयः प्रदेशोऽयं मदीयः प्रदेश इति जनाः व्यवह रन्तीति । मतानामिति बहुवचनं वक्ष्यमाणमतविवक्षया । तथा च जै मिन्यादिमतानां व्यासमतेन परस्परं चाविरोध इत्यर्थः ॥ ( १८ ) ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदि काग्नयादिसूक्तमन्त्रादिप्रसिद्धयन्यथाऽनुपपत्त्याऽग्नयादीनां सूक्तादिग ताग्नयादिशब्दवाच्यत्वं स्यात्, तत्राज्ञानादिमूलकत्वकल्पनाऽयोगेना न्यथोपपत्त्यभावात् । नापि व्यवहारार्थत्वेन अन्यथोपपत्तिः, अनादि त्वादित्याशङ्कां परिहरत्सूत्रं पठति—अभिव्यक्तेरिति ॥ अत्र पूर्वस्मा दपिरनुवर्तनीयः । तच्छब्दश्चानुवृत्तोऽनेकधा विपरिणेतव्य इत्याशये न तद्व्याचष्टे—तत्रेति । ' तत्र तत्र ' सूक्तादौ तस्य ब्रह्मण एव ' प्र सिद्धावपि' प्रतिपाद्यत्वेपि अग्नयादीनामप्रतिपाद्यत्वेऽपीत्यर्थः । अग्नया दिष्विति सावधारणम् । सूत्रे अविरोधमिति अनुषक्तपदतात्पर्यमाह— अग्नयादीति । आदिशब्द उभयत्र योज्यः । युज्यत इति बर्कीति शे