भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 258, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 258

[ अधि - ६. सू - २२. ] दीपिकासहितम्. २११ सामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमेवाखिलगुणमक्षरत्रयमीरितम् ॥ इति स्कान्दे त्र्यक्षराभिधानादक्षरात्परतः पर इत्य पि विशेषणमेव । ( ११ ) ' जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीत शोकः' ( मु. ३-१-२. ) इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ २२ ॥ अक्षरत्रैविध्यस्योक्तत्वादित्यनेनान्वयः । अक्षरात्परतः पर इत्यपी ति । इतिवाक्योक्तमक्षरात्परतः परत्वमपीत्यर्थः । अपिः समु च्चये । तस्येति शेषः । तेनैवकारस्यान्वयः । तथा च न केवलं सार्व त्र्यं विशेषणम्, किन्त्वक्षरात्परतः परत्वमपि तस्य विष्ण्वाख्यप्रकृ ताक्षरस्यैव विशेषणं, न तु प्रकृताक्षरमवधीकृत्यान्यस्य कस्य चिद्वि शेषणम् । येनाक्षरश्रुतेर्विष्णाववकाशाभावः । न चाक्षरस्याक्षरात्पर तः परत्वं विरुद्धमिति वाच्यम् । ' अपरम्' इति स्कान्दे त्र्यक्षराभि धानात् अक्षरान्तरात्परसंज्ञस्याक्षरस्य परत्वोपपत्तेरिति योजना । अ क्षरत्रयाभिधानेन अक्षरात्परतः पर इत्यत्र सामानाधिकरण्येन वैयधि करण्येन वा अन्वयो दर्शितः । प्रमेयदीपे तु—अक्षराच्छ्रियस्ततः परतः परोऽत्युत्तम इति तद्भाष्यदिशा श्रुत्यर्थ उक्तः । अनेनाक्षरात्परतः पर इत्यपि तस्यैव विशेषणं, न तु अन्यस्य । न चाक्षरात्परतः परत्वं वि रुद्धमिति वाच्यम् । भेदव्यपदेशात् । 'अक्षरत्रयमीरितम्' इत्यक्षरा णामवान्तरभेदोक्तेः पाण्डवस्यार्जुनस्य स्वाधमकार्तवीर्यार्जुनादिव अक्षरात्परादक्षरान्तरादस्याक्षरस्य परत्वोपपत्तिरिति सूत्रखण्डस्या र्थान्तरमुक्तं भवति ॥ ( ११ ) ननु 'अन्यं' इतिशब्दश्रवणाददृश्यत्वादिगुणको रुद्रः किं न स्यादिति शङ्कोत्तरतयाऽपि भेदव्यपदेशान्नेतर इति सूत्रांशं व्या चष्टे—जुष्टमिति ॥ यद्यपि तथाऽपीत्यर्थेऽपिशब्दः । रुद्रोऽपीति स मुच्चये वा । न केवलं पूर्वहेतोः, किन्तु भेदव्यपदेशादपीति समुच्चये वा । रुद्र इतरशब्दस्यार्थान्तरोक्तिः । न चेतरशब्दस्य जडप्रकृतिवि रिञ्चरुद्रपरत्वे द्विवचनानुपपत्तिरिति वाच्यम् । विरिञ्चिरुद्रयोश्चेत नत्वेनैकीकृतत्वात् । तथा च यद्यपीशशब्दाद्रुद्रोऽप्यदृश्यत्वादिगुणक