भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 259, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 259

२१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १२ ) सू—ॐ ॥ रूपोपन्यासाच्च ॥ ॐ ॥ २३ ॥ 'यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम्' ( मु. ३-१-३. ) इति । ( १३ ) 'एको नारायण आसीन्न ब्रह्मा न च शङ्करः। स मुनि र्भूत्वा समचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्नियैमो वरुणरुद्रेन्द्रा इति । तस्य हैत त्वेन 'प्राप्तः' प्रतीतस्तथाऽपि 'जुष्टम्' इति वाक्ये प्रवृत्तविष्ण्वाख्याक्षर स्येशशब्दितरुद्रादन्यत्वव्यपदेशादपि नादृश्यत्वादिगुणको रुद्र इति योजना । श्रुतिस्तु—आनन्दमयाधिकरणे व्याख्याता ॥ ( १२ ) युक्त्यन्तरेण विष्णोरेवादृश्यत्वादिगुणकत्वं साधयत्सूत्रं प ठित्वा तदुपात्तश्रुतिमेवोदाहरति—रूपोपन्यासेति ॥ इति रूपोपन्या सादित्यन्वयः । सूत्रे चशब्दो युक्तिसमुच्चये । तथा च—न केवलं ध र्मोक्तेः, किन्त्वदृश्यत्वादिगुणकस्य 'यदा' इति श्रुतौ शुद्धरुक्मरूपो क्तेश्चादृश्यत्वादिगुणको विष्णुरेवेति योजना। अत्र यदेति वाक्यस्य 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' ( मु.३-१- ३.) इतिवाक्यशेषेणान्वयः। पश्यतीति पश्यो द्रष्टा जीवः। 'रुक्मवर्णं' शुद्धहेमवर्णं 'ब्रह्मयोनिं' हिरण्यगर्भकारणं, अत एव जगतः कर्तारं 'पु रुषं' पूर्णषड्गुणं । 'स्वस्येशं' विष्णुं 'पश्यते' पश्यति तदाऽसौ 'विद्वान्' जीवन्मुक्तः 'पुण्यपापे' अप्रारब्धे अनिष्टपुण्यं च विधूय 'निरञ्जनः' ज्ञानोत्तरविकर्मकृताशुचित्त्वादिदोषरहितः अज्ञानाख्यावि द्यारहिस इति सुधोक्तेरज्ञानरहितो वा 'परमं साम्यं', पूर्णानन्दत्वा दिसाम्यं निर्दुःखत्वादिसाम्यं वा 'उपैति' प्राप्नोतीति श्रुत्यर्थः । त त्त्वोद्योतटीकायां तु इयं श्रुतिः मुक्तपरतया व्याख्याता। परममित्येतद भिव्यक्तमिति च व्याख्यातम् ॥ ( १३ ) ननु ब्रह्मादीनामपि रूपसद्भावात्कुतो रूपोपन्यासेनास्य वि ष्णुत्वनिश्चय इत्यत आह—एक इति ॥ 'इदमग्रे' इत्युपस्क्रियते । अ त एव न्यायदीपिकायां जगदादावित्युकम् । हेत्यास्वादने । एतेभ्य इति तादर्थ्ये चतुर्थी । तथा च इदमस्य जगतोऽग्रे प्रलये नारायणः 'एकः' स्वतन्त्र आसीत् । न तदा चतुर्मुखशङ्करौ, न स्वस्वव्यापा रावास्ताम् । 'सः' विष्णुस्तदा 'मुनिः' मननशीलो मौनी वा भूत्वा