भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 260, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 260

[ अधि- ६. सू- २३. ] दीपिकासहितम्. २१३ स्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं र क्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्यचीक्ल पत् । विमिश्राणि व्यमिश्रयत् ' ( १४) अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधी यन्ते ॥ २३ ॥ 'समाचिन्तयत्' एते जायन्तामिति ध्यानरूपां चिन्तामकरोत् । 'ततः' तस्य चिन्तनादेते व्यजायन्त । के ते? यो 'विश्वो' वायुः, यश्च हिर ण्यगर्भः, येऽग्न्यादय एत इत्यर्थः । ततः किमित्यत आह—'तस्य' श्रुत्यादिप्रसिद्धस्य 'एतस्य' सर्वजीवशरीरगस्य 'परमस्य' सर्वोत्त मस्य नारायणस्य 'रूपाणि' वर्णाश्चत्वारि भवन्ति । कानि तानि ? शुक्लादीनि । किञ्चातः ? 'सः' नारायणः पूर्वमेव 'विमिश्राणि' स्वे न मिश्रीकृतानि रूपाणि 'एतेभ्यो' वायुप्रभृत्युक्तदेवानांमर्थे 'अभ्य चीक्लपत्' क्लृप्तान्यकरोत् । तानि विमिश्राणि पुनरपि 'व्यमिश्रय त्' मानुषादौ विशेषेण मिश्रीचकार । यद्वा—स एतानि रूपाणि व्य मिश्रयत्, विमिश्राणि चैतेभ्योऽभ्यचीक्लपदित्यर्थः । शुद्धानि रूपा णि तु स्वस्यैवाकरोदिति भावः । अत्राद्ययोजना तत्त्वप्रदीपटीकयोरु क्ता । द्वितीया तु टीकायामिति ध्येयम् ॥ (१४) ततः किमित्यत आह—अत इति ॥ 'अतो' मिश्रीकरणात् 'तद्रूपं' तस्य विष्णो रूपं 'एतादृगेव' शुद्धं शुक्लादिस्वरूपमेव । न तु वाय्वादिरूपमिव मिश्रमित्यर्थः । यद्यप्यत्र 'तस्य हैतस्य' इत्यादि क्रमेवोदाहरणीयम, प्रकृतोपयुक्तत्वात्, न तु 'एको नारायणः' इत्या दिकम् । तथापि 'एतेभ्यः' इत्यस्यार्थस्य प्रत्यार्थं तदंशोदाहरणंकृ तम् । इतीति । 'हि' यस्मादित्युदाहृतवाक्येन 'रूपाणि' शुक्लरौक्मादि रूपाणि तस्य विष्णोरेव अभिधीयन्ते, नेतरेषां, तस्मान्नाप्रयोजकता शङ्केत्यर्थः । अनेन सूत्रे सामान्येनोक्तत्वेऽपि रूपशब्दः शुद्धरूपपरः । तच्चान्यत्र नास्ति । 'ध्येयः सदा' इति सूर्ये प्रतीतमपि मिश्रमेवेति लिङ्गस्यान्यत्र निरवकाशत्वमुक्तं भवति ॥ ६ ॥ ॥ इति अदृश्यत्वाधिकरणम् ॥

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 260, कुल 1267 में से · BharatKosha