पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 261, कुल 1267 में से
संदर्भ में पढ़ें२१४ ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - २. ] ७. अधिकरणम् ॥ ( १ ) अदृश्यत्वादिगुणेषु सर्वगतत्वं 'यस्त्वेतमेवं प्रादेश मात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' ( छा. ५- १८-१० ) इति वैश्वानरस्योक्तमिति ॥ ( २ ) अत आह— सू—ॐ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ ॐ ॥ २४ ॥ ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्धयर्थं ब्रह्म णि वैश्वानरनामसमन्वयः क्रियते। पूर्वाधिकरणसङ्गतिं विषयवाक्यो दाहरणपूर्वकं विषयादिकं सूचयति-अदृश्यत्वादिति ॥ उक्तमित्यस्या वृत्तिः श्रुताविति शेषः । तथा च-गताधिकरणोदाहृतमुण्डकश्रुत्युक्ता दृश्यत्वादिगुणेषु मध्ये 'नित्यं विभुं सर्वगतम्' ( मु. १-१-७. ) इत्यनेन यत्सर्वगतत्वमुक्तं तच्छन्दोगश्रुतौ 'यस्त्वेतम्' इत्यनेन वैश्वानरस्योक्त मिति योजना। अनेन छन्दोगश्रुतिस्थवैश्वानरशब्दस्यान्यनिष्ठत्वाक्षेप मुखेन पूर्वोक्तसर्वगतत्वादेरन्यनिष्ठत्वाक्षेपात्पूर्वेणास्याक्षेपिकी सङ्ग तिरुक्ता भवति। वैश्वानरो विषयः, विष्णुरन्यो वेति सन्देहश्च सूचि तः। श्रुत्यर्थस्तु—'यस्तु' अधिकारी 'प्रादेशमात्रं' देहहृदये तावत्प रिमाणकम् । तत्त्वप्रदीपरीत्याऽधिकार्यपेक्षया प्रादेशमात्रमिति वा । 'अभिविमानं' अभितो धिगतं मानं मर्यादा यस्य तं, सर्वगतं इति या वत् । 'आत्मानं' आततगुणं 'एतं' शरीरस्थं 'वैश्वानरं' तदाख्यं विष्णुं 'एवं' वक्ष्यमाणरीत्या उपास्ते 'सोऽन्नमत्ति' ( छा. ५-१८-१० ) स्वयोग्यभोग्यमनुभवतीति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ साधारणस्येत्यन न्तरमपीति शेषः । साधारण्यं साम्यम् । तत्र श्रुतेर्नोभयत्र प्रसिद्धत्व रूपं, वैश्वानरशब्दस्यान्यत्रैव प्रसिद्धत्वात् । किन्तु श्रुतेः प्रसिद्धतो लिङ्गेन साम्यरूपं, तदपि निरवकाशत्वेन प्रकारेण, वैश्वानरश्रुतेः वि ष्णौ प्रसिद्धयभावेन तत्र निरवकाशत्वात्पूर्वोक्तसर्वगतत्वस्यापि वि ष्णोरन्यत्र निरवकाशत्वात् । तथा च—यद्यपि अग्नाविष्ण्वोः प्रतिज्ञा विषययोः सतोः पूर्वपक्षसाधकवैश्वानरशब्दो निरवकाशत्वेन प्रकारे णोत्तरपक्षसाधकलिङ्गसाधारणः । श्रुतिलिङ्गयोर्निरवकाशत्वेन सा म्येपि लिङ्गाच्छ्रुतिः प्रबला तस्मादग्निरवेति प्राप्तम् । तथाऽपि साधार