पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 262, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २५. ] दीपिकासहितम्. २१५ अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ २४ ॥ ( ३ ) सू—ॐ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ ॐ ॥ २५ ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । ( भ. गी. १५-१४. ) इति स्मर्यमाणमत्रापि स एवोच्यते इत्यस्यानुमापकम् । ( ४ ) समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः ॥ २५ ॥ णस्यापि वैश्वानरशब्दस्य विष्ण्वेकनिष्ठतया श्रुत्यादिसिद्धेन 'आत्मा नं वैश्वानरम्' इत्यात्मशब्देन 'विशेषणात्' विशेषितत्वाद्विष्णुपरत्व सम्भवात् । प्रसिद्ध्यादेरन्यथोपपन्नत्वेन निर्णयकारणाभावाच्छब्दवि शेषादात्मशब्दाद्वैश्वानरो विष्णुरेव, 'न देवताभूतं च' इत्यावृत्त्या सू- त्रभाष्ययोर्योजना । अनेन निर्णयेनैव पूर्वपक्षः सूचितः । अत्र पक्षे लि- ङ्गप्राबल्यनिरासाय साधारण्योक्तिः । सिद्धान्तश्रुतेः सावकाशत्वज्ञा- पनाय साधारण्योक्तिरिति केचित् । यद्वा-भाष्यटीकास्वारस्यादनि- र्णयेनैव पूर्वपक्षः । अत्र पक्षे साधारण्यं प्रति धर्मित्वं शब्दस्यैव, न लिङ्गस्यापि । अग्नाविष्ण्वोरिति विषयसप्तमी । तथा च—यतोऽग्नावि- ष्ण्वोर्यद्यपि वैश्वानरशब्दः साधारणः सम्भवद्वृत्तिकः । तथाऽपि प्रसि- द्धमुखेन निरवकाशत्वेन लिङ्गस्य साधारणश्च । अतः पूर्वोत्तरपक्षसा- धकयोः समबलत्वादनिर्णयः । तथाऽप्युभयत्र साधारणस्यापि वैश्वान- शब्दस्येत्यादिका योजना द्रष्टव्या ॥ ( ३ ) नन्वात्मशब्दस्याग्न्यादिष्वमुख्यत्वाभ्युपगमेन सामानाधि- करणाविरोधात्तेषामेव वैश्वानरत्वं किं न स्यादित्याशङ्कां परिहर्तुं स- माख्यारूपहेत्वन्तरेण वैश्वानरस्य विष्णुत्वं निश्चाययत्सूत्रं पठित्वा व्याचष्टे—स्मर्यमाणमिति ॥ सूत्रभाष्ययोः 'स्मर्यमाणं' 'अहं वैश्वा- नरो भूत्वा' इति गीतास्मृत्युक्तं विष्णोर्वैश्वानरत्वं 'अत्र' वैश्वानर- विद्यायामपि 'सः' गीतोक्तो भगवान्नेव वैश्वानरपदेन उच्यते 'इ- त्यस्य' एवंरूपस्यार्थस्य 'अनुमानं' अनुमापकं 'स्यात्' भवेदिति योजना ॥ ( ४ ) नन्वहमिति विष्णुना कृष्णेनोक्तेः स्मृत्युक्तवैश्वानरस्य वि- ष्णुत्वेऽपि अत्रोक्तवैश्वानरस्य कुतो विष्णुत्वमित्यत आह—समाख्या- नादिति ॥ अस्याः स्मृतेरिति शेषः । तथा च—गीतास्मृतेः वैश्वानर