पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 263, कुल 1267 में से
संदर्भ में पढ़ें२१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ५ ) सू- ॐ ॥ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैन मधीयते ॥ ॐ ॥ २६ ॥ विद्यासमानोक्तिरूपत्वादस्यास्तत्समाख्यानान्निश्चयो भवतीत्यर्थः । समाख्यायुक्तिर्न सूत्रोक्तेत्यत आह—इति शब्द इति । 'प्रदर्शकः' सू चकः। तथा च—इतिस्मर्यमाणमित्यस्य इतिसमाख्यायमानमित्यर्थाभ्यु पगमादितिशब्दः समानोक्तिरूपसमाख्यालक्षणलिङ्गज्ञापक इति भा वः। अत्र सूत्रे समाख्यारूपहेत्वन्तरोक्तावपि तस्यात्मशब्दाख्यपूर्व हेतोरनिश्चायकत्वशङ्कामुखेन तन्निरासाय प्रवृत्तत्वाच्चशब्दाभावः ॥ ( ५ ) वैश्वानरस्य विष्णुत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य आक्षे पांशं तावद्व्याचष्टे—शब्दादिभ्य इति ॥ 'अयमग्निर्वैश्वानरो यो