पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 257, कुल 1267 में से
संदर्भ में पढ़ें२१० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ९ ) 'यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः' (मु.१-१-१०.) इति विशेषणान्न प्रकृतिः । 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु.१-१-१०.) इति भेदव्यपदेशान्न विरिञ्चः । ( १० ) अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥ प्रकृतिः । एवं 'तस्मात्' इति वाक्ये विरिञ्चस्य तस्मादक्षराज्जन्य- त्वरूपभेदकधर्मोक्त्या भेदव्यपदेशान्नादृश्यत्वादिगुणो विरिञ्च इति योजना ॥ ( ९ ) आथर्वणे 'यः सर्वज्ञः सर्ववित्' इत्यतः पूर्ववाक्ये 'तपसा चीयते ब्रह्म' (मु.१-१-९.) इत्यत्र परब्रह्म तपसा सम्बध्यत इत्युक्तम् । तत्र तपश्शब्दस्यालोचनार्थतयाऽज्ञानप्रतीतौ तन्निरासाय 'यस्य ज्ञानमयं तपः' इति वाक्यान्तरं प्रवृत्तम् । तस्य यस्य 'तपः' आलोचनक्रिया 'ज्ञा- नमयं' तदात्मकमेव न संशयाद्यात्मकमित्यर्थः । कुतस्तपसः सन्ता- पान्यपूर्णयथार्थज्ञानात्मकत्वमित्याकांक्षायां तस्य सर्वज्ञत्वादाप्तकाम- त्वादिति हेतुप्रदर्शनाय 'यस्सर्वज्ञः' इति पूर्ववाक्योपन्यासः । तद- र्थस्तु— 'यस्सर्वज्ञः' सर्वविषयकसामान्यज्ञानवान् 'सर्ववित्' सर्व- विषयकविशेषज्ञानवांश्च । सर्वस्य लब्धा सर्वकामः सर्वोत्पादको वेति । तत्त्वप्रदीपे तु—विद् सत्तायामिति धातुव्याख्यानात् सर्वत्र विद्यते इति सर्वविदित्युक्तम् । 'यस्य यः' इति यच्छब्दद्वयस्य 'त- स्मात्' अक्षरात् 'एतद्ब्रह्म' चतुर्मुखाख्यं 'नाम रूपमन्नं' तदभिमानि दैवतं चोत्पद्यत इति उत्तरवाक्यगततच्छब्देनान्वयः ॥ ( १० ) ननु न विष्णोरदृश्यत्वादिगुणकत्वं, परतः पराभिधानेनाक्ष- रश्रुतेः तत्र निरवकाशत्वादित्यतो विशेषणभेदव्यपदेशादिति सूत्रख- ण्डस्यार्थान्तरमाह—अपरमिति ॥ तुशब्दोऽवधारणे । 'अक्षरत्रयं' अक्षरस्य त्रयं 'ईरितम्' अक्षरं त्रिविधं प्रोक्तं इति यावत् । तिस्रो वि- धाः व्यक्तिनिर्देशपूर्वकं दर्शयति—अपरमिति । या यदपरमक्षरं सा जडरूपिका प्रकृतिरेव । या यत्परमक्षरं 'प्रोक्ता' प्रोक्तं वृद्धैस्तां तत् या विष्णुसंश्रया परा उत्तमा चेतना प्रकृतिः श्रीः लक्ष्मीः तां प्राहुः । यत्परतः परमक्षरमीरितं तज्जडप्रकृतेः पराच्छ्रीतत्त्वादखिलगुणं हरि- मेव प्राहुरिति स्मृत्यर्थः । इति स्कान्दे इत्यस्य 'त्र्यक्षराभिधानात्'