पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 274, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २९. ] दीपिकासहितम्. २२७ ( १७ ) व्यासचित्तस्थिताकाशादवच्छिन्नानि कानि चित् । अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत् ॥ इति स्काान्दवचनान्नमतानां परस्परविरोधः ॥ २८ ॥ ( १८ ) सू—ॐ ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ॐ ॥ २९ ॥ तत्र तत्र प्रसिद्धावप्यग्नयादिषु ब्रह्मणोऽभिव्यक्तेर ग्नयादिसूक्तनियम इत्याश्मरथ्यः ॥ २९ ॥ . गमेनान्यत्राविरोधं व्यवहारविरोधाभावं प्रसिद्धिविलोपाभावं वक्ष्यत इति सूत्रार्थ उक्तो भवति ॥ ( १७ ) ननु जैमिन्यादिमतानां भगवन्मताविरोघित्वे जैमिन्यादि ग्रहणवैयर्थ्यात् तद्विरोधित्वे वा कथं विरुद्धराद्धान्तेन परिहार इत्य त आह—व्यासेति ॥ व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहा काशमपेक्ष्य गृहाद्यवच्छिन्नाकाशवत् ' अवच्छिन्नानि ' विविक्तानि परिमितविषयाणि कानि चिदेतानिं मतान्यूरीकृत्य ' अन्ये ' केचन जैमिन्याद्याः व्यवहरन्तीत्यर्थः । यथोक्तं सत्तर्कदीपावल्याम्—आका शवदथासत्वात्प्रकाशमानत्वाच्च व्यासचित्तस्थितमताख्याकाशात् ' अवच्छिन्नानि ' स्वस्वमत्या विविक्तानि तानि मतानि इदं मदीयं इदं मदीयं इत्यूरीकृत्यान्ये व्यवहरन्ति । यथा गृहनगरादिभिराकाश प्रदेशानवच्छिद्यायं मदीयः प्रदेशोऽयं मदीयः प्रदेश इति जनाः व्यवह रन्तीति । मतानामिति बहुवचनं वक्ष्यमाणमतविवक्षया । तथा च जै मिन्यादिमतानां व्यासमतेन परस्परं चाविरोध इत्यर्थः ॥ ( १८ ) ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदि काग्नयादिसूक्तमन्त्रादिप्रसिद्धयन्यथाऽनुपपत्त्याऽग्नयादीनां सूक्तादिग ताग्नयादिशब्दवाच्यत्वं स्यात्, तत्राज्ञानादिमूलकत्वकल्पनाऽयोगेना न्यथोपपत्त्यभावात् । नापि व्यवहारार्थत्वेन अन्यथोपपत्तिः, अनादि त्वादित्याशङ्कां परिहरत्सूत्रं पठति—अभिव्यक्तेरिति ॥ अत्र पूर्वस्मा दपिरनुवर्तनीयः । तच्छब्दश्चानुवृत्तोऽनेकधा विपरिणेतव्य इत्याशये न तद्व्याचष्टे—तत्रेति । ' तत्र तत्र ' सूक्तादौ तस्य ब्रह्मण एव ' प्र सिद्धावपि' प्रतिपाद्यत्वेपि अग्नयादीनामप्रतिपाद्यत्वेऽपीत्यर्थः । अग्नया दिष्विति सावधारणम् । सूत्रे अविरोधमिति अनुषक्तपदतात्पर्यमाह— अग्नयादीति । आदिशब्द उभयत्र योज्यः । युज्यत इति बर्कीति शे