भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 275, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 275

२२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] (१९) सू— ॐ ॥ अनुस्मृतेर्बादरिः ॥ ॐ ॥ ३० ॥ तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात्त- न्नियम इति बादरिः ॥ ३० ॥ (२०) सू— ॐ ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॐ ॥ ३१॥ साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियमम ग्न्यादिसम्प्राप्त्या मन्यते । षः । अनेनापि—तत्तत्सूक्तादौ ब्रह्मण एव प्रतिपाद्यत्वेऽपि अग्निवा- य्वादीनामप्रतिपाद्यत्वेऽपि अविरोधः । अग्न्यादिसूक्तनियमः इदम- ग्रिसूक्तं इदं वायुसूक्तं इति सूक्तनियमः, इयमग्निविद्या इयं वायुवि- द्येति विद्यानियमश्च युज्यते । कथं ? तैरग्न्यादिसूक्तादिभिस्तस्य ब्र- ह्मणस्तस्यामुपास्तौ कृतायां तत्राग्न्यादिष्वेव तस्य ब्रह्मणः 'अभि' स्वेच्छयाऽभिव्यक्तिनियमात्तदभिप्रायेण तत्प्रसिद्धेरुपपत्तेरित्येवं वै- दिकाग्न्यादिसूक्तादिप्रसिद्धयविरोधमाश्मरथ्याचार्यो वक्तीति सूत्रा- र्थ उक्तो भवति ॥ (१९) प्रकारान्तरण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्र- मुपन्यस्य व्याचष्टे—अनुस्मृतेरिति ॥ अत्र पूर्ववदध्याहारादिः । 'त- त्र तत्र' अग्न्यादिविद्यासु । सूत्रेऽविरोधमित्यनुषक्तपदतात्पर्यमाह— तन्नियम इति । अनेनापि—विष्णोरेव अग्न्यादिविद्याप्रतिपाद्यत्वेऽपि य- तस्तस्याग्न्यादिविद्यासु उक्तस्य विष्णोस्तैस्तत्तत्सूक्ताद्युपासकैस्त- त्राग्न्यादिष्वेव 'अनुस्मृतेः' अनुस्मर्तव्यत्वात् प्रतिपत्तव्यत्वात् अवि- रोधस्तन्नियमः अग्न्यादिसूक्तादिव्यवस्था युज्यते । अतो नैतदन्यथा- ऽनुपपत्त्याऽन्येषां वाच्यत्वं कल्प्यमिति सूक्तादिप्रसिद्धयविरोधं 'बाद्- रिः' बादरात्मजः शुकाचार्यो वक्तीति सूत्रवृत्तिर्दर्शिता भवति ॥ (२०) रीत्यन्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुप- न्यस्यति—सम्पत्तेरिति ॥ जैमिनिमतस्य पूर्वमुपन्यस्तत्वात्किमर्थं पु- नर्वचनमिति मन्दाशङ्कानिरासाय उभयान्वयीतिशब्दपरामृष्टपूर्वो- क्तानुवादेन विषयभेदं दर्शयन् सूत्रं व्याचष्टे—साक्षादिति ॥ अग्न्या- दिशब्दानां मुख्यतो ब्रह्मवाचकत्वेऽपि 'अविरोधं' लौकिकव्यवहार- विरोधाभावं वदन्नित्यर्थः । अत्राप्यनुवृत्तस्य अविरोधमित्यस्यार्थमा- ह—सूक्तादीति । नियमो व्यवस्था । संप्राप्त्या निमित्तभूतयेति शेषः ॥