पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 276, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - ३१. ] दीपिकासहितम्. २२९ ( २१ ) 'तं यथा यथोपासते तदेव भवति' इति दर्शयति॥३१॥ ( २१ ) नन्वग्नयादिषु भगवदुपास्तौ अग्नयादिप्राप्तिर्भवतीत्येतत्कुत इत्यतः सूत्रसूचितां श्रुतिमुदाहरति-तमिति॥ 'तं' परमात्मानं येन येन प्रकारेण उपासते अधिकारिणः तेन प्रकारेण तदेव रूपं 'भवति' प्राप्नुव न्तीत्यर्थः। तत्त्वप्रदीपेऽपि 'यादृशो भावितस्वीशस्तादृशो जीव आ भवेत्' इति तृतीयतात्पर्येक्तेः 'तदेव भवति' तथैव भवति । यत्प्र कारेणोपास्ते तत्प्रकारेण भवतीत्ययमेवार्थ उक्तः। तत्त्वप्रदीपकारप क्षे उपासते इत्येकवचनं धात्वन्तरमेतत् । अनेन-यतोऽग्नयादिसूक्ता दिषु मुख्यतः परब्रह्मण एव प्रतिपाद्यत्वेप्यविरोधः, सूक्तादिनियमो युज्यते । अतः न तदन्यथानुपपत्त्याऽन्येषां वाच्यत्वं मन्तव्यम् । कथ मिदं युज्यते ? तैरग्नयादिषु भगवदुपासकानां अग्नयादिसम्पत्तेः प्रा प्तेः । न च तदसिद्धिः । 'हि' यस्मात्तमिति प्रसिद्धा श्रुतिः । ' तथा ' अग्नयाद्यधिकरणकोपास्त्या अग्नयादिप्राप्तिर्भवतीति 'दर्शयति' प्रति पादयति । साक्षादिति लौकिकव्यवहारेऽविरोधं वदन् जैमिनिः सूत्रे षु 'अविरोधं' अनियमाख्यविरोधाभावं नियमं 'मन्यते' वर्णयतीति सूत्रार्थ उक्तो भवति । यद्यप्युत्तरसूत्रद्वये साधकव्यापारोक्तेरल्पाक्षर त्वाच्च दृष्टेरिति वाच्यम्, न त्वभिव्यक्तेरिति, तस्या ईश्वरव्यापार त्वात् । तथाप्यभिव्यक्तिं विना दृष्टेरयोगात्तद्ग्रहणेनोभयलाभात्प्राधा न्यादीश्वरव्यापार एवोक्तः । यद्यप्यनुस्मृतिशब्दितोपास्यनन्तरम भिव्यक्तेः तदनन्तरं तत्सम्पत्तेः प्रथममनुस्मृतेरिति वक्तव्यम् । त थाप्यभिव्यक्तिसम्पत्युभयानन्तरमप्युपास्तिः कार्येति दर्शयितुमनु स्मृतेर्मध्ये निवेश इति द्रष्टव्यम् । यद्यपि ऋग्भाष्ये— पृथग्रूपाणि विष्णोस्तु देव्तान्तरगाणि तु। अग्नयादिशब्दवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ इत्यग्नयाद्यन्तर्गतविष्णुवाचकाग्नयादिशब्दयोगः सूक्तस्य व्यवस्थापक उक्तः। तथा चाग्नयादिशब्दास्तत्तत्सूक्तानि च अग्नयादिगतरूपा ष्वेव मुख्यानि । एवं बहिर्गतरूपेषु च अतीतानागतवर्तमानाग्नयादि ष्वमुख्यानीति व्यवस्था सिध्यति । तथापि इहाभिव्यक्तिर्वाऽग्नयादि सूक्तोपासकैरग्नयादिगतत्वेन अनुस्मर्तव्यत्वं वा संप्राप्तिर्वा तत्तत्सू क्तव्यवस्थापकमित्यनुष्ठानविशेषोपयोगितया सौरसावित्रवामनवि ष्ण्वादिसूक्तादिव्यवस्थार्थं च व्यवस्थापकान्तरमुक्तमित्यविरोधः ।