पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 273, कुल 1267 में से
संदर्भ में पढ़ें२२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १६ ) सू— ॐ ॥ साक्षादप्यविरोधं जैमिनिः ॥ ॐ ॥ २८ ॥ नाग्न्याद्यर्थैः शब्दा अग्न्यादिवाचकास्तथाऽपि सा क्षादेवानन्ययोगेन ब्रह्मवाचकैरशब्दैः व्यवहारार्थम नभिज्ञानाच्च अन्यत्र व्यवहरन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति । आत्मशब्दादितिहेतुत इत्यर्थः । न तत्र हेत्वन्तरं गवेषणीयमित्येवा र्थः । ' अत्र ' वैश्वानरविद्यायां विद्यान्तरे च ' सा ' अग्निदेवता 'तत्' तेजोभूतं, प्रसिद्धिप्राधान्याभ्यां निर्देशव्यत्यासः । चशब्दः समुच्चये । अभिधीयते ' तेन ' इति शेषः । वैश्वानरादिशब्देनेति तदर्थः । ' तत्र' इति पाठाभावे तदप्यध्याहार्यम् ॥ ( १६ ) ननु लोके वेदे च अग्न्यादिपदानां ईशादन्यत्र व्यवहारप्रसि द्धिदर्शनात् तस्य च कारणान्तराभावात्तदन्यथाऽनुपपत्त्याऽन्येषां वा च्यत्वमङ्गीकार्यम् । अन्यथा तद्विरोधः स्यादित्याशङ्कां परिहरत्सू त्रमुपन्यस्य व्याचष्टे—साक्षादिति ॥ अत्र तथापीत्यपिशब्दव्याख्याना द्यद्यपीति लभ्यते । अग्निशब्दः स्वपरः । अग्निशब्द एव आदिर्येषां तेऽ ग्न्यादय इति विग्रहः । अपिरवधारणेऽपीत्याशयेन साक्षादेवेत्युक्तम् । अर्थान्तरव्यवधानेनेत्यर्थः । फलितार्थमाह—अनन्येति । शक्यरूपा न्यसम्बन्धमन्तरेण मुख्यवृत्त्येत्यर्थः । यद्वा—तत्त्वप्रदीपरीत्याऽन्यत्र यो गवृत्त्यभावेन ब्रह्मणि सम्यग्भोगेनेत्यर्थः । ब्रह्मवाचकैरपीत्यपिशब्दान्व यः । ' तैरग्न्यादिशब्दैः ' इति शेषः । ' व्यवहारार्थं ' हानादिव्यवहार सिद्ध्यर्थं ' अनभिज्ञानात् ' मुख्यवाच्यज्ञानाभावात् । चशब्दो न फेव लं व्यवहारार्थं किन्त्वनभिज्ञानाच्चेति समुच्चये । ' अन्यत्र ' अग्न्यादि षु तान् तत्र व्यवहरन्ति ज्ञानिनोऽज्ञानिनश्चेति क्रमेण शेषः । ' इत्यभ्यु पगमे ' इति निमित्तसप्तमी । एवमङ्गीकारात् ' अविरोधं ' ज्ञान्यज्ञानि व्यवहारविरोधाभावं जैमिनिराचार्यो वक्तीत्यर्थः । ' यत्रानवसरः ' इत्युक्तेर्वक्तीत्युक्तम् । अनेनाग्न्यादिशब्दाः नाग्न्यादिवाचकाः, किन्तु ब्रह्मवाचका एव । तथापि नान्यत्र प्रसिद्धिविरोधः । न वाऽन्यथाऽनुपप त्त्याऽन्येषां वाच्यत्वं कल्प्यम् । कुतः ? यतो वाच्यार्थधीव्यवहितं लक्ष णादिकं विना साक्षान्मुख्यवृत्त्याऽपि ब्रह्मवाचकामग्न्यादिशब्दान् मु ख्यार्थज्ञानिनः अजामिलचरमतनये नारायणशब्दमिव हानादिसिद्ध्य र्थं तदज्ञानिनस्त्वनभिज्ञानादेव तान् ज्वलनादिषु व्यवहरन्तीत्यभ्युप