पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 271, कुल 1267 में से
संदर्भ में पढ़ें५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥ इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ २६ ॥ अङ्गादिः। यद्यपि नात्र छान्दोग्ये वेदाभेद उच्यते इति न तद्गतिर्वक्त व्या । तथापि श्रुत्यन्तरगताभेदवाक्यार्थनिर्णयायायमंशः प्रवृत्तः । यद्वा—वेदशब्देन 'उर एव वेदिः' इत्युक्ता वेदिर्गृह्यते । 'तृतीयोऽ तिशये' इत्युक्तत्वात् । 'वेद्यादिकम्' इति पाठः स्वरसः । तथा च —यस्माद्यस्मात् हरेरङ्गात् यद्यत् लोकवेदादिकं जायते, यदाश्रित्य तिष्ठति, यत्र लीयते च तज्जनकमङ्गं तस्मात् 'तन्नामवाच्यं' तस्य लोकादेर्नाम वाचकशब्दः तेन मुख्यवाच्यं भवति । अत एव तद भिन्नत्वेन प्रतीयते च । न तावता तयोरभेदो मन्तव्य इत्यर्थः । अत्र दृष्टान्तमाह—यथेति । मुखमित्युपलक्षणम् । तथा च—भगवन्मुखा द्बिर्ब्राह्मणादिजातिजनकत्वात् ब्राह्मणादिनाम्नोच्यते 'ब्राह्मणोऽस्य मु खमासीत्' (तै.आ.३-१२.) इत्यादौ । अत एव तदभिन्नत्वेन प्रतीयते च सामानाधिकरण्यात् । तद्वदत्रापीत्यर्थः । न ह्यत्र पुरुषोत्तममुखा दिभिरभेदो ब्राह्मणादीनामुच्यते, 'पद्भ्यां शूद्रो अजायत' (तै.आ.३- १२.) इत्युत्तरवाक्यविरोधात् । इति वचनादित्युक्तत्वाद्वैश्वानराङ्गानां 'मूर्धैव' इति लोकाद्यभेदोक्तिनिमित्तो विरोधो नेत्यर्थः । अभेदप्र त्यायकोक्तेस्तज्जन्यजनकभावविवक्षापूर्वकत्वादिति भावः । अनेन भगवतो मूर्धा सुतेजस्त्वादिगुणयोगात्सुतेजःशब्दितस्वर्गजनक त्वात् सुतेजा इत्युच्यते । एवं 'चक्षुर्विश्वरूपः' सर्वप्रकाशक स्वगुणयोगात् विश्वरूपशब्दितसूर्यजनकत्वात्तच्छब्देनोच्यते । 'प्राणः पृथग्वर्त्मात्मा' (छां. ५-१८-२.) वायुजनकत्वात्तच्छब्दित इति श्रु त्यर्थस्सूचितः । आत्मशब्दः स्वरूपार्थो मध्यदेहार्थो वा । छान्दोग्य भाष्ये तु—'मूर्धा विष्णोश्शिरः स्वर्गाधारं द्युनामकं' अतितेजसा सुतेजोनामकं च । विश्वानि रूपाणि विषयत्वेन यस्येति विग्रहाश्रये ण सर्वरूपातिदर्शनात् चक्षुर्विश्वरूपाख्यम् । एवं विष्णोः प्राणो नृसि ङ्गाख्यो वाय्वादिप्राणशक्यं यन्न भवति तस्य पृथग्वर्त्मात्मा पृथग्वि लक्षणो मार्गो यस्य स चासावात्मा चेति, इति निमित्तान्तरेण श्रुति र्व्याख्याता । एवं बहुलरयिपृथिवीशब्दिताकाशवारिवसुन्धरादेवता जनकत्वात् सन्दोहवस्तिपादपदोक्तानि मध्यदेहकटिप्रपदरूपाणि भगवतो वैश्वानरस्याङ्गानि तत्तच्छब्दवाच्यानीत्यपि ज्ञातव्यम् ॥