भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 270, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 270

[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२३ सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् । इति । एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादि रनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्तगुणोऽन न्तरूप इति । ( १३ ) बृहत्संहितायां च— यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् । न तथा सर्ववेदाश्च वेदाङ्गानि च नारद ॥ इत्यादि । ( १४ ) यस्माद्यज्ञ्जायते चाङ्गाल्लोकवेदादिकं हरेः । शिखायां चेति ॥ अत्र चतुर्वेदशिखाश्रुतिः 'सहस्र' इत्यारभ्य 'सह स्रपात्' इत्यन्तेन पुरुषसूक्तमुपन्यस्य 'एषह्येव' इत्यनेन 'सहस्रशी र्षा पुरुषः' इत्युक्तो हरिरेव नान्य इत्येतत्सूक्तं विष्णुपरतया व्याख्या तीति प्रकृतसङ्गतिः । सुप आकारो वैदिकः । एष क इत्यतो यः 'प रो' विलक्षणः अत एव 'अचिन्त्यो' मनसा 'परमः' उत्तमः 'आ दिः' कारणभूतः 'अनादिः' उत्पत्तिशून्यः 'अनन्तः' नाशशून्यः, स्व रूपतोऽपरिच्छिन्नो वा हरिः स इत्याह । कुतः अयं पुरुषः सहस्रशीर्षा ? 'हि' यस्मादनन्तशीर्षा । कुतः सहस्राक्षः ? यस्मादयमनन्ताक्षः । कु तःअयं सहस्रपात् ? यस्मादनन्तबाहुः । अनन्तपादित्यस्याप्युपलक्षक मेतत् । एवं पूर्ववाक्येऽपि 'सभूमिम्' इत्युत्तरवाक्येप्युपपादकमाह- अनन्तगुणोऽनन्तरूपोऽनन्ताकार इति । चतुर्वेदशिखायामित्यन्वयः ॥ ( १३ ) ब्राह्मवाक्यस्य पुरुषसूक्तस्य लक्षणया विष्णुपरत्वेऽन्यपर त्वेऽपि वा सावकाशत्वान्नतत्प्रतिज्ञातार्थनिश्चायकमित्यतो व्याख्यान व्याख्येयभावाख्यद्वारमन्तरेण पुरुषसूक्तं मुख्यतो विष्णोरेवाभिधाय कमिति साक्षात्प्रतिज्ञातार्थसाधकं स्मृतिवाक्यं तत्स्थाननिर्देशपूर्वकं पठति—बृहत्संहितायां चेति ॥ चकारः पूर्वसमुच्चयार्थः । 'वेदाङ्गा नि' शिक्षादीनि ब्राह्मवाक्यमेतत् । इत्यादि । बृहत्संहितायामुक्तमित्य न्वयः । आदिपदेन 'सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः' इति ब्रह्मतर्कादिग्रहणम् । 'सर्वतः' सर्वे गुणाः । सामान्येनेति शेषः । स र्वेस्मिन्, सर्वस्मात् वेदतदङ्गेभ्योऽतिशयेनेति वा ॥ ( १४ ) ननु पुरुषसूक्ते द्युभ्वादिजनकशीर्षादिमत्त्वं पुरुषस्योच्यते । वैश्वानरविद्यायां तु वैश्वानरस्य तद्भेद उच्यते । तदुभयोर्विरुद्धार्थ त्वान्नेयं समाख्येत्यत आह—यस्मादिति ॥ 'लोकः' स्वर्गादिः 'वेदः'