पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 268, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २६. ] दीपिकासहितम्. २२१ इत्यारम्भाच्च अन्येषामसम्भवात् विष्णुरेव वैश्वानरः । (९) ‘चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत’ (तै. आ. ३-१२.) इत्यादिना यः पुरुषाख्यो विष्णुरभिहित स्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वंरूपः प्राणः पृथग्वर्त्मा’ (छा. ५-१८-२.) इत्यादिना एनं वैश्वा नरमधीयते ॥ मात्मशब्दार्थव्याप्तत्वगुणपूर्णत्वयोरसम्भवावगमादिति । अनेन सूत्रे आरम्भादिति पदमध्याहृत्य तेनापिशब्दः संयोज्यः । असम्भवादिति हे तुस्तु आत्मशब्दादेरन्यत्रानवकाशत्वसाधकत्तयोभयत्र संयोज्य इत्यु क्तं भवति । अत एव भाष्ये अग्निश्रुत्यादीनां विष्णौ सावकाशत्वसा धकतयेत्यादिव्याख्यानन्तरं विष्णुपक्षसाधकात्मशब्दादेरन्यत्रानवका शत्वसाधकासम्भवादिति हेतौ व्याख्यातव्येऽपि तद्विहायारम्भादि त्यध्याहृतहेतूपन्यासानन्तरं असम्भवादित्युपन्यस्तम् । टीकायामपि —न चात्मशब्दादेरन्यत्रास्त्यवकाश इति प्रतिज्ञाय प्रकरणबलाच्चेत्य ध्याहार्यहेतुं च प्रदर्श्य, अनन्तरमात्मशब्दप्रकरणयोर्निरवकाशत्वसा धकासम्भवादित्यंशो व्याख्यातः । तथादृष्ट्युपदेशादसम्भवादितिवत् नाध्याहृतहेतोरवान्तरसाध्येनान्वयः, किन्तु प्रधानेनैवेति ज्ञापनाय विष्णुरेव वैश्वानर इति पुनरुक्तिः । उद्देश्यविधेयनिर्देशस्यैच्छिकत्वा द्व्यत्यासः । ‘हि’ यस्माद्विष्णोः ‘परे’ अन्ये गुणैः ‘अनात्तत्वात्’ अव्याप्तत्वात् सर्वोत्कृष्टत्वेन वैदिकैरस्वीकृतत्वाद्वा ‘अनात्मानः’ अना त्मशब्दमुख्यार्थाः। यस्माच्च गुणराशित ऊनत्वादब्रह्माणश्च । तस्मात् ‘ब्र ह्यात्मा’ तच्छब्दमुख्यवाच्यो विष्णुरेव सिद्ध इत्यर्थः । छान्दोग्ये हि ‘को न आत्मा किं ब्रह्म’ इति मिलित्वा मीमांसमानैः प्रत्यब्दयज्ञकृत्व निमित्तान्महाशालसंज्ञैः पञ्चभिर्महामुनिभिः उद्दालकोद्दिष्टैस्तद्युक्तैः परिपृष्टो राजाऽश्वपतिर्वैश्वानरमुपदिदेश । ‘नः’ अस्माकं उपास्य आत्मा ‘कः’ किंलक्षणः । ब्रह्म च ‘किं’ किंलक्षणमित्यर्थः ॥ (९) श्रुतिसमाख्यया च वैश्वानरस्य विष्णुत्वमुपपादयितुं प्रवृ त्तं ‘पुरुषविधमप्येनमधीयते’ इत्यंशं व्याचष्टे—चन्द्रमा इति ॥ अत्र ‘चन्द्रमाः’ इति वाक्यं प्रतीकत्वेन गृहीतम् । उदाहरणवाक्यं तु च