पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 266, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २६. ] दीपिकासाहितम्. २१९ ( ६ ) न, ‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं ह- रिमुपासीतेति । सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्व- गुणः सर्वकामः सर्वधर्मः सर्वरूप इति’ । ‘तद्यद्भक्तम्’ इति वाक्यार्थस्तु—‘तत्’ तदा भोजनवेलायां ‘यद्यद्भक्तं’ अन्नं ‘प्रथममागच्छेत्’ आस्यं प्रतिप्राणाहुतिरूपेण । ‘त- द्धोमीयं’ पाचकत्वेनान्तःस्थितस्याग्नेर्होमद्रव्यमिति । अनेनाग्नौ हूय- मानद्रव्यस्याग्निः पाचक इति सिद्धमिति पाचकत्वाख्यलिङ्गमुक्तं भ- वति । यद्यपि ‘येनेदम्’ इति पूर्ववाक्ये ‘अयमग्निः’ इति तत्पूर्ववा- क्यसाहित्यात् पाचकत्वेनान्तःप्रतिष्ठानोक्तावपि न ‘यद्यद्भक्तम्’ इति वाक्ये तत्प्रतीयते । तथापि ‘तद्धोमीयम्’ इत्यनेनान्तस्स्थितस्य हो- म