पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
वासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददिते रदितित्वम्’ (बृ. ३-२-५०) इत्यदितेः प्रतीयते । (२) ‘स यद्यदेवासृजत’ इति पुल्लिङ्गं च ‘कूटस्थोक्षर उ च्यते’ (भ. १५-१६०) इत्यादिवत् ॥
पूर्वः पक्षः । अदितिश्रुतिरदितित्वयुक्तिश्च सूचिता भवति । पूर्वपक्षे श्रुत्यर्थस्तु—‘सः’ अदितिर्देवमाता संवत्सरनाम्ना चतुर्मुखेन ‘यद्य देवासृजत तत्तदत्तुमध्रियत’ मनः । आदधेति शेषः । कुतः सर्वात्तृत्व मदितेः ? यस्मात्सर्वात्त्री सा सर्वमत्तीति यत् तदेव ह्यदितेर्देवमातुः ‘अदितित्वं’ अदितिशब्दवाच्यत्वे निमित्तं, अन्यथा तन्न स्यादिति । अस्मिन् पक्षेऽपि स्थलान्तरस्थादितिशब्दस्य निर्वचनमिदम् । अत्र सर्वशब्दः सुधारीत्या अदित्यदनयोग्यसर्वपरः । टीकारीत्या सङ्कुचित सर्वपरो वा । सिद्धान्ते श्रुत्यर्थस्तु—‘सः’ संवत्सरनामकः चतुर्मु खो ‘यद्यदेवासृजत तत्तत्सर्वमत्तुं’ स मृत्युनामा जनार्दनोऽध्रियत । आदधे । कुतः सर्वसंहर्तृत्वं विष्णोः ? ‘अदितेः’ अदितिशब्दात् । अदितिर्हि ‘इदं सर्वं..यदिदं किञ्च’ (तै. २ - ६०) ‘अदितिर्देव तामयी’ (कठ. ४ - ७०) इति श्रुत्यन्तरे ब्रह्मण्यदितिशब्दप्रयोगादि ति यावत् । तावताऽपि कुतः सर्वात्तृत्वं विष्णोः ? सर्वमत्तीति यत्तदे व हि ‘अदितेः’ स्त्रीलिङ्गादितिशब्दवाच्यस्य ‘अदितित्वं’ अदिति शब्दवाच्यत्वं अन्यथा स निर्निमित्तकः स्यादिति भावः । अनेन वि ष्णोः सर्वात्तृतायां तन्निमित्तकश्रुत्यन्तरगतादितिशब्दो हेतुरित्युक्तं भवति । उक्तं हि चन्द्रिकायाम् । ‘तत्तदत्तुमिति पूर्वप्रतिज्ञातसर्वात्तृ तायां श्रुत्यन्तरे ब्रह्मणि प्रयुक्तस्य सर्वात्तृत्वनिमित्तकस्यादितिशब्द हेतुकरणे सम्भवति’ इति । अतएव ऋग्भाष्ये ‘अत्ति विश्वं तेन चै वादितिरिति विष्णुः’ इत्युक्तम् । तत्रैव ‘गुणतः कालतश्चानन्त्यरूप मखण्डितत्वं चादितिशब्दप्रवृत्तिनिमित्तम्’ इति चोक्तम् ॥ (२) नन्वेतदत्तृत्वमदितेश्चेत्कथं तर्हि तस्यां स इति पुल्लिङ्गं यु क्तं स्यात् । अतस्तेन श्रुत्यादिबाध इत्यत आह—स इति ॥ इति वा क्ये श्रुतमित्यर्थः । इत्यादिवदित्यनन्तरं अदित्यां युज्यत इति शेषः । चस्त्वर्थः । आदिपदेन ‘सोऽहं वायुं दिशां वत्सं वेद’ इति छन्दोग वाक्यं गृह्यते । कूटमाकाशं तद्वन्निर्विकारतया तिष्ठतीति कूटस्थः ।
[ अधि - २. सू - ९. ] दीपिकासहितम्. १७१ ( ३ ) अत्रोच्यते— सू—ॐ ॥ अत्ता चराचरग्रहणात् ॥ ॐ ॥ ९ ॥ ( ४ ) न हि चराचरस्य सर्वस्यात्तृत्वमदितेः । ( ५ ) स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा ॥ इति स्कान्दे । ( ६ ) एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं साम्पराये प्रकृतिः ' अक्षरो' देहतोऽविनाशित्वादुच्यते इति गीतावाक्यस्यार्थः । दिक्शब्दितानां पूर्वादिचतुर्दिगवस्थितभगवद्बाहूनां 'वत्सं' ततो जा तं 'वायुं' मुख्यप्राणमहं 'वेद' जानामीत्यर्थः । लक्ष्मीवाक्यमेतत् ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत्रेति ॥ इति चोद्ये समाधा नमुच्यते सूत्रकृता इति शेषः । अनेन सूत्रेऽत्रोच्यते इति शेषो दर्शि तः । तत्सूत्रं पठति—अत्तेति । तत्स्वित्यनुवर्तते, विपरिणम्यते च । त था चात्र वाक्ये यः 'अत्ता' संहर्तोच्यते स विष्णुरेव । कुतः ? 'सर्वं वा अत्ति' इति 'चराचरस्य' चेतनाचेतनरूपस्य विश्वस्याद्यतया संहार्य तया 'ग्रहणा'च्चराचरात्तृत्वलिङ्गादिति यावदिति सूत्रार्थः ॥ ( ४ ) चराचरस्याद्यतया ग्रहणेऽपि कुतो नादितेस्तदत्तृत्वमिति लिङ्गस्य सावकाशत्वशङ्कां निराह—न हीति ॥ हिशब्दः प्रसिद्धौ । च राचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् । न च सामान्यपदेन व्याख्यानं व्यर्थमिति वाच्यम् । सूत्रस्य श्रुतिवि संवादप्रतीतिनिरासार्थत्वात् । ' अदितेः ' देवमातुः ॥ ( ५ ) चराचरात्तृत्वं विष्णोरपि कुतः सिद्धमित्यत आह—स्रष्टे ति ॥ 'पुंसां परः' तेभ्य उत्तमो 'वासुदेवः' कृष्णः 'एक एव' नि खिलजगतः एकः स्वतन्त्रः 'स्रष्टा' सृष्टिकर्ता तथा 'पाता' रक्षिता तुश्चार्थे । अत्ता च । 'वासुदेवेतरे' ब्रह्माद्यास्तु 'अल्पस्य' जगदेक देशस्यास्वातन्त्र्येण सृष्ट्यादिकर्तारो भवन्ति । स्वातन्त्र्यापेक्षया ने त्यर्थः । इति स्कान्दे इत्यनन्तरं उक्तत्वादिति वाक्यशेषः ॥ ( ६ ) स्पष्टार्थत्वात्प्रथमं स्मृतिमुदाहृत्यात्रैवार्थे श्रुतिमप्याह—ए क इति ॥ एक इत्यस्यावृत्तिः, इदमित्यस्याप्यावृत्तिपरिणामौ । तथा
वत्सरोऽभवत् . .तं जातमभिव्याद दात्स भाणमकरोत्सैव वागभवत्स ऐक्षत यदि हवा इममभिमंस्ये कनी योऽन्नं करिष्य इति स तया वाचा तेनात्मना इदं सर्वमसृजत’ (बृ.३-२.) इति विष्णुविषयाण्यनेकवाक्यानि श्रूयन्ते । ‘अग्रे’ प्रलये ‘इह’ अस्मिन्
Wait, let's check line 11-12 break:
In the image:
Line 11 ends with: अस्यार्थो?
Wait! Let's look at line 11 again!
मन्त्रद्रष्टृऋषिवाक्यमेतत् । इति श्रुत्यनन्तरं यत इति शेषः । अस्यार्थो
ऽपि विष्णोश्चराचरात्तृत्वं सिद्धमित्यन्वयः ॥
Wait, does line 11 end with अस्यार्थो?
Wait, earlier I noted:
अस्यातो
Line 11 has:
मन्त्रद्रष्टृऋषिवाक्यमेतत् । इति श्रुत्यनन्तरं यत इति शेषः । अस्यार्थो
Wait, is ऽपि at the start of L12?
Yes! L12 starts with: `ऽपि विष्णोश्चराचरात्तृत्व
[ अधि - २. सू - १०. ] दीपिकासहितम्. १७३ ( ९ ) ने हासीत्किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा । स्त्ववर्गे, गगन इति वा । 'किञ्चन' जीवजडरूपं वस्तु नैवासीदि ति । ननु— सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् । संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥ इति बृहद्भाष्योदाहृतवचनान्नित्यानां जीवानामपि सत्त्वात्कथमियमु क्तिरित्यत उक्तं—मृत्युनैवेति । 'इदं' जीवादिकं 'मृत्युना' तन्नाम केन जनार्दनेन 'आवृतं' आच्छादितमासीत् । मृत्योरवरकत्वे हेतुः— अशनायेति । अशं जगत्तन्नेत्रयेत्यर्थः । मृत्योरशनायात्वं श्रुतिप्रसिद्ध मित्याह—अशनाया हीति । 'तत्' तस्मादेकाकित्वान्मृत्युः 'आ त्मन्वी' जगद्रूपशरीरवान् स्यामित्यैच्छत् । एवं स मृत्युः 'अर्चन्' स्वात्मानं पूजयन् सं चचार तस्यार्चत आपोऽजायन्त । ता एव ता सामर्चनसाधनमिति भावः । तत्राप्सु योऽपां 'शरः' फेनरूपो मण्ड आसीत्तच्छरः । स शरो मृत्युना स्वरेतसा 'समहन्यत' सङ्घातत्वं प्रापितः । यस्सङ्घातः सा 'पृथिवी' ब्रह्माण्डरूपाऽभवत् 'तस्यां' पृ थिव्यां श्वेतद्वीपे 'अश्राम्यत्' शिश्ये मृत्युः । स मृत्युः 'मे' मम 'आत्मा' ब्रह्मा द्वितीयो वाय्वपेक्षया जायेतेति अकामयत । अथ 'अ शनाया' स मृत्युः 'मनसा' स्वेच्छया 'वाचा' वेदाभिमानिश्रिया 'मिथुनं' द्वन्द्वीभावं 'समभवत्' प्रापत् । तेन मिथुनीभावेन यद्रेत आसीत् 'तत्संवत्सरः' तदुपादानकदेहवान् संवत्सरनामकश्चतुर्मु खोऽभवत् । अथ जातं संवत्सरमभिलक्ष्य अमुं 'व्याददात्' विददार स्वमुखं मृत्युः । स संवत्सरो भयात् विष्णुदीप्त्याऽऽनन्दबोधकभाणि ति शब्दमकरोत् । यद्भाणिति वचस्तदभिमानिनी सैव वाङ्नाम्नी सर स्वत्यभवत् । स मृत्युः 'ऐक्षत' आलोचितवान् । किमिति ? 'यदी मं' संवत्सरं 'अभिमंस्ये' लीनं करिष्ये तत्तदा मे 'कनीयः' अल्प मन्नं करिष्ये । ततो बह्वन्नं भवत्वित्यालोच्य स मृत्युः 'तया वाचा' सरस्वत्या 'तेनात्मना' चतुर्मुखेनेदं सर्वमसृजत । जनयामासेति श्रुत्यर्थः ॥ ( ९ ) नन्वप्संवत्सरसृष्ट्यादिनाऽत्रोच्यमानेनापि कथमस्य विष्णु
[१७४] ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २.]
सोत्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥ शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् । तत्र संवत्सरं नाम ब्रह्माणमसृजत्प्रभुः ॥ तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह । अथ तत्कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ॥ सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुः ॥ इति ब्रह्मवैवर्ते ॥ १० ॥
प्रकरणत्वनिश्चय इत्यतोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्वादिति भावेन तस्य तल्लिङ्गत्वे स्मृतिमाह—नेहासीदिति ॥ 'आदौ' प्रलये 'इह' अस्वतन्त्रवर्गे 'किञ्चनापि' जीवो जडं वा नासीत् । नन्विदमयुक्तं, जी- वादेः नित्यस्य सत्त्वादित्यत आह—मृत्युरिति । प्रलये मृत्युनामा ह- रिः जीवाद्यावरकत्वेनासीत् । अत आवृतत्वान्नासीदित्युक्तमिति नानु- पपत्तिरिति भावः । 'सः आत्मनः' इति पदच्छेदः । 'मन्त्रेष्वङ्यादे- रात्मनः' इत्यालोपः । तथा च 'सः' प्रभुर्विष्णुरात्मनो 'मनसा' स्वे- च्छयैवापोऽस्राक्षीत् । 'तासु' अप्सु 'महत्तरं' स्वार्थे तरप् । महत् स्थूलं 'अण्डं' ब्रह्माण्डं निर्ममे । 'तत्र' अण्डे संवत्सराख्यं ब्रह्माणम- सृजदित्यन्वयः । नामेत्यनेन सम्यग्वत्सभूतान् रमयतीति व्युत्पत्त्या संवत्सरशब्दश्चतुर्मुखे प्रसिद्ध इत्युच्यते । अत्रासामर्थ्यपरिहाराय— प्रभुरिति । 'तं' चतुर्मुखं 'अत्तुं' भक्षयितुं 'व्याददात्' व्यावृतम् वि- ष्णुः । तदा ब्रह्मा 'विरुराव' भाणिति शब्दमकरोदित्यर्थः । हेति अ- स्यार्थस्य श्रुतिप्रसिद्धतां सूचयति । अथ आरावकरणानन्तरं 'तत्कृ- पया' तस्मिन् चतुर्मुखे कृपया विष्णुस्तमजग्ध्वा सृष्टिक्रियायाम योज- यत् । 'स विभुः' चतुर्मुखो हरये हरेरद्यार्थे भुवनमसृजत् । यद्वा— भुवनमसृजत, सृष्टं तद्धरयेऽर्पितवानिति शेषेण योजना । ब्रह्मवैवर्त इत्य- नन्तरं यत उक्तमिति शेषः । अस्यातोऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्व- सिद्धिरित्यध्याहृतसाध्येनान्वयः ॥ ॥ इति अत्तृत्वाधिकरणम् ॥
[ अधि - ३. सू - १०. ] दीपिकासहितम्. १७५ ३. अधिकरणम् ॥ ( १ ) सर्वात्तैकः पर उक्तः । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे [ परार्धे । ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धकर्मफलभोक्तृत्वलिङ्ग- स्य विष्णौ समन्वयः प्रतिपाद्यते । पूर्वाधिकरणश्रुतिसङ्गतिं विषयवा- क्योदाहरणपूर्वकं विषयं सूचयति—सर्वेति ॥ यस्मात् 'परः' पर- मात्मा 'एकः' एकत्वसङ्ख्यायुक्तः 'सर्वात्ता' सर्वसंहर्ता च, तस्मा- त्प्रकृतिप्रत्ययार्थयोस्तत्र योगात् सर्वात्तेत्यादिक्रियालिङ्गबोधकशब्दवा- च्यत्वेनोक्त इत्यर्थः । सर्वात्तेत्युक्त्यैवार्थात्पातेत्यप्युक्त इति भावः । ततः किमित्यत आह—ऋतमिति । तत्रेत्यादौ संयोज्यम् । तथा च 'तत्र' सर्वात्तृत्वमध्ये प्रविष्टं तद्विशेषभूतं पातृत्वं यत्रोक्तं तत्र कठ- के 'ऋतं पिबन्तौ' इत्यत्र 'पिबन्तौ' कर्मफलसारभोक्तारौ द्वौ प्रती- येते इति योजना । द्विवचनेन द्वित्वबोधादिति भावः । अनेन युक्तम- त्तृत्वं भगवतस्तत्र प्रकृतिप्रत्ययार्थयोरुपपत्तेः । इह तु कर्मबन्धविधुरे परमात्मनि प्रकृत्यर्थस्य निर्भेदे प्रत्ययार्थस्य चायोगान्न तस्य द्विवच- नान्तपिबच्छब्दवाच्यतेति पूर्ववैषम्येन प्रत्यवस्थानाद्वा पूर्वमर्थादुक्त- स्य पातृत्वस्यान्यमात्रनिष्ठत्वे ऽसम्भवादन्यस्मिन्नपि सत्त्वेऽतिव्याप्ते- र्वा आक्षेपाद्वा पूर्वाधिकरणेनास्य सङ्गतिः, पातृत्वाख्यविषयश्च सूचि- तो भवति । विषयवाक्ये जन्यजनकभावः षष्ठ्यर्थः तथा च 'सुकृत- स्य लोके' सुकृतनिर्मिते पुण्यकार्ये तत्त्वप्रदीपरीत्या सुकृतनिमित्ते श- रीरे हृदयगुहां प्रविष्टौ गुहायामपि 'परमे' सर्वजीवोत्तमे आ ऋध् आर्धः परेभ्यो रुद्रादिभ्य आर्धः परार्धः । तस्मिन्नतिपूर्णे वायाविति शे- षः । तथा च तत्र प्रविष्टौ हृदयगुहाश्रितवाय्वधिष्ठानाविति यावत् । 'स हायस्तः पितुरर्धमेयाय' (छा.५-३-४.) इति तत्त्वप्रदीपोदाहृतश्रुतेः परब्रह्मावासत्वात्तदन्यजीवाभिमन्यमानत्वात्परार्धे शरीरमिति वा । ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते । ऋतं तु मानसो धर्मः.. इति गीताभाष्योदाहृतस्मृतेः शास्त्रविहितकर्मभिरागतं फलमुपलक्ष- णया ऋतमित्युच्यते । तथा च 'ऋतं पिबन्तौ' भुञ्जानौ यावात्मा
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रि [ नाचिकेताः । ( कठ. १-३-१०. ) इति पिबन्तौ प्रतीयेते तौ काविति ॥ ( २. ) उच्यते— सू—ॐ ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ॐ ॥ ११ ॥ गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव । ( ३ ) ' घर्मो समन्तात्त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा न्तरात्माख्यभगवद्रूपविशेषौ वर्तते तौ ' ब्रह्मविदो ' ब्रह्मज्ञानिनः ' प ञ्चाग्नयो ' देवपितृभूतमनुष्यब्रह्मयज्ञाख्यपञ्चमहायज्ञवन्तः । ' स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः' ( ) इत्यैतरेयोक्तपञ्चमहायज्ञा वा । द्युपर्जन्यधरापुंस्त्री ख्यपञ्चाग्न
[ अधि - ३. सू - ११. ] दीपिकासहितम्. १७७ जगाम' (ऋ. १०-११४-१०) इत्यादिना तद्दर्शनात् ॥ तिमुदाहरति—घर्मेति ॥ भगवन्ताविति, कर्तुमिति च शेषः । त्रिवृतमि त्यावर्तते । तथा च ' घर्मो' घर्मौ दीप्तौ घर्षकौ सङ्कोचकाविति वा । ' घर्षणात्सर्वलोकस्य नृसिंहो घर्म उच्यते' इत्यैतरेयभाष्योक्तेः, घृष्ट त्वेन घर्षकत्वेन च मिताविति तत्त्वप्रदीपोक्तेश्च । ' समन्ता' समन्तौ व्याप्तौ प्रकृतिपुरुषकालव्यापिनौ । देशतः कालतः शक्तितश्च सम्पू र्णौ यौ भगवन्तौ त्रिवृतं तेजोबन्नात्मकं शरीरं ' व्यापतुः ' विशेषेणा पतुः देहहृदयगुहास्थानं प्राप्तौ । तयोः ' जुष्टिं' सेवां कर्तुं ' मातरिश्वा' मुख्यवायुरपि त्रिवृतं जगाम । 'दिवो' देव्या वायुपत्न्याः स्तन्यं 'प यो' 'दिधिषाणाः' पिपासन्तो देवाः द्विरूपं तमेकं 'अवेपन्' अन्वै च्छन् । तं ' अर्कं' अरं अलं कं सुस्वरूपं ' सहसामानं ' सहवायुं वि दुरिति श्रुत्यर्थः । गुर्वर्थदीपिकायां तु—समन्तादिति पदच्छेदं कृत्वा विद्यमानाविति चाध्याहृत्य समन्ताद्विद्यमानौ व्याप्ताविति व्याख्यात म् । तच्चिन्त्यम् । इत्यादिनेति । वाक्येनेति शेषः । आदिपदेन 'दिव स्पयः' इत्युत्तरार्धं, तथा— एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेल्हि स उ रेल्हि मातरम्॥ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । (ऋ. १०-११४-४,,५० ) इत्यादिकं च गृह्यते । 'एकः सुपर्णः' सुष्ठु परमानन्दरूपो भग वान् समुद्रमाविवेश । स इदं सर्वं जगत् 'विचष्टे' पश्यति । 'तं ' परमात्मानं पक्वेन मनसा अहमपश्यम् । 'तं माता' व्यञ्जकत्वाद्वा क् सरस्वती 'रेल्हि' लिह्यत इव । स परमात्मा मातरं रेल्हि । ताव न्योन्यं सम्बद्धौ भवतः । तथा च—भगवद्व्यञ्जकवाचोऽपि तद्व्यङ्ग्य त्वमिति भावः । तमेव सुपर्णमेकं सन्तं 'विप्राः' विशेषेण प्रकृष्टाः कवयो 'वचोभिः' शब्दैः 'बहुधा' केशवादिद्वादशधा स्थितं कल्प यन्ति चिन्तयन्ति इत्यर्थः । तद्दर्शनादिति । हस्य विष्णोः द्विरूपतया सर्वशरीरप्रवेशस्य उक्तत्वादित्यर्थः । तथा च—एकस्मिन्नपि विष्णौ युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भावः । एवं तद्दर्शनात् इत्येतत् तत्त्वप्रदीपरीत्या उक्तविशेषणे निर्णीतेविष्णौ द्विवचनदर्शनात् 'एकः सुपर्णः' इत्यादिना तच्छब्देनेकवचनेन परामर्शदर्शनात् तस्यैव समु २३
१७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ४) आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम् ॥ इति बृहत्संहितायाम् । ( ५) शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् । द्रनिवेशिनो निखिलभुवनदर्शिनः 'अपश्यमन्तितः' इति गुहाप्रविष्ट त्वदर्शनादेकस्यैव बहुनामरूपदर्शनात् इत्यपि व्याख्येयम् ॥ (४) ननु विष्णौ रूपद्वयविवक्षया प्रत्ययार्थोपपत्तावपि प्रातिपदि कार्थकर्मफलभोक्तृत्वायोगात् न 'ऋतम्' इति वाक्यप्रतिपाद्यत्वं त स्येत्यत आह—आत्मेति ॥ एक एव हरिः देहजीवरूपोपाधिभेदात् आत्मान्तरात्मेति रूपभेदेन 'द्विधास्थितो' द्विधाभूतः । देहजीवयोर्हृ दये निविष्टः । यद्वा—टीकारीत्या उपाधिभेदविवक्षामन्तरेणैव
[ अधि - ३. सू - ११. ] दीपिका सहितम्. १७९ पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् ॥ इति पाद्मे ॥ ( ६ ) 'यो वेद निहितं गुहायाम्' ( तै. २-१०) इत्यादिना केः । तथा च—पूर्णानन्दरूपस्यास्य विष्णोः 'चेष्टा' ऐश्वर्यं क्वचि- त्काले देशे केनापि साकल्येन 'न ज्ञायते' न चिन्त्यते इत्यर्थः । तथा च—ऐश्वर्यबलेन पूर्णानन्दस्यापि सुखभोगो युक्त इति भावः ॥ यद्वा—विष्णोर्भोक्तृत्वाभ्युपगमे 'अनश्नन्नन्यः' ( मु. ३-१-१० ) इति श्रुतिविरोध इत्यत आह—शुभमिति ॥ पराधीनभोगाभावविषयं अशुभभोगाभावविषयं वा तद्वाक्यमिति भावः । न च 'नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते । नासौ नीचोच्चतां याति' इति वाक्यवि- रोधः, सुखभोगस्योच्चतारूपत्वादिति वाच्यम् । विष्णौ जीवसमवेते भोगे स्वीकारमात्राभ्युपगमेन उच्चतासम्पादकविक्रियाविशेषानभ्युप- गमात् । उक्तं हि तत्त्वप्रदीपे—न च 'अनश्नन्नन्यः' इति श्रुतिविरोधः । न हि पराधीनतया भोगो, नाप्यप्रियभोगो, न च तन्निमित्तोच्चनीचता विष्णोः, किन्तु—जीवसमवेते भोगे स्वीकारमात्रमुच्यत इति । यद्वा- नीचोच्चतासम्पादको भोगः स्वीयतया साक्षात्कारः, स चाभिमानयु- तो विवक्षितः, न चासावीश्वरे इति न विरोधः । पाद्म इत्यनन्तरं उ- क्त्वादिति शेषः । तथा च—न श्रुतियुक्तिविरोध इति भावः ॥ ( ६ ) ननु कथं गुहानिविष्टत्वलिङ्गात्पिबतो विष्णृत्वनिश्चयः, त- स्य जीवेऽपि योगादित्यत आह—यो वेदेति ॥ विष्णोरेव गुहानिहित- त्वमत्र ग्राह्यमिति चोपस्कर्तव्यम् । आदिशब्देन 'आत्माऽन्तरात्मा' इ- ति 'श्रोत्रं चक्षुः' इति 'अहं वैश्वानरो भूत्वा' इत्यादिसमृतिर्गृह्यते । तथा च-इत्यादिना विष्णोरेव प्रसिद्धं गुहानिहितत्वमत्र ग्राह्यमिति इ- ममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थः । तथा च—हृदयगुहास्थत्व- मात्रस्य जीवे सम्भवेऽपि न तदिह हेतुत्वेन गृह्यते । किन्तु—श्रुत्यादि- प्रसिद्धं मोक्षजनकज्ञानप्रकारीभूतं प्राधान्येन गुहानिहितत्वमेव । तच्च जीवे निरवकाशमिति भावः ॥ सूत्रे समन्वयसूत्रात्तुशब्दमात्रमनुवर्तते । आत्मानवित्यवर्तते । तथा च 'आत्मानौ' आधेयं सुखं मात्यनुभवतीति व्युत्पत्त्या आत्मश- ब्दोक्तशुभकर्मफलभोक्तारौ 'आत्मानावेव' आत्मान्तरात्माख्ये विष्णुरूपे एव, न तु जीवेश्वरौ । कुतः ? हि यस्मात्तौ हृदयगुहां प्रविष्टौ तस्मात् ।
१८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] प्रसिद्धं हिशब्देन दर्शयति ॥ ११ ॥ (७) सू—ॐ ॥ विशेषणाच्च ॥ ॐ ॥ १२ ॥ न हि जीवेऽपि गुहानिविष्टत्वलिङ्गं सम्भवतीति वाच्यम् । तस्य श्रु- त्याद्यप्रसिद्धत्वात् । तत्र प्रसिद्धस्यैव ग्राह्यत्वात् । विष्णोस्तु ‘यो वे- द’ इति श्रुत्यादिप्रसिद्धत्वादिति हिशब्दार्थः । ननु विष्णौ पिबन्तावि- ति द्विवचनानुपपत्तिः । न च रूपद्वयाभिप्रायेण तदुपपत्तिरिति वा- च्यम् । विष्णोस्सर्वशरीरेष्वेकरूपेण प्रवेशेन द्विरूपेण प्रवेशस्या- सिद्धत्वादित्याशङ्कयाह—तद्दर्शनादिति । तस्य हरेर्द्विरूपतया शरीर- हृदयगुहास्थत्वस्य लिङ्गस्य दर्शनात् ‘घर्मा’ इति श्रुत्युक्तत्वादिति सूत्रार्थः । अत्र तत्तित्यस्यानुवृत्त्या श्रौतपदानुवृत्त्या च आनन्दमयस्त- द्
[अधि - ३. सू - १२.] दीपिकासहितम्. १८१ 'यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्' (कठ. १- ३-२.) इति ॥ (८) पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥ एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते प्रभुम् ॥ इति ब्राह्मे । (९) न च जीवे समन्वयोऽभिधीयते । पठित्वा तदभिप्रेतश्रुतिमेवोदाहरति—विशेषणाच्चेति ॥ इति विशेष- णादित्यन्वयः । सूत्रे पिबतोर्गिति विपरिणामेनानुवर्तते । चो युक्तिस- मुच्चये । तथा च 'यः सेतुः' इति श्रुतौ पिबतोरेकवचनबोध्येनैकत्वे- न विशेषणादेक एव पाता । स च यजमानसेतुत्वब्रह्मत्वाक्षरत्वादिना विशेषणाद्
१८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १० ) 'सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा स- त्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः ' ॥ इ- ति पैङ्गिश्रुतेः । ( ११ ) 'आत्मा हि परमस्स्वतन्त्रोऽधिगुणो जीवोऽल्पश- ध्याये इति तदर्थः । हेतौ, स्वव्याख्यानेन सह परव्याख्याननिराकरण- स्य समुच्चये वा चशब्दः । तथा चासङ्गतिरिति भावः ॥ ( १० ) ननु नात्र जीवे समन्वय कथनमसङ्गतम् । जीवेश्वरभेदस्या- सत्यत्वेन तयोरैक्यात् । जीवसमन्वयस्यैव ब्रह्मसमन्वयरूपत्वादित्य- त आह—सत्य इति ॥ 'सत्यं' सत्या 'भिदा' भेदः । यद्यप्यात्मजीव- योः सत्यत्ववचनेनैव तत्स्वरूपभेदस्यापि सत्यत्वमुक्तं भवति । तथा- ऽपि पुनः 'सत्यं भिदा' इत्युक्तिर्दर्शनप्रतीताभेदप्रतीतिनिरासतात्प- र्यार्था शपथावृत्तिः । केचिद्भेदमसत्यमाहुः तत्कथमेतदित्यतस्तेषां प- क्षे श्रुतिरभीक्ष्णं दूषणमभिधत्ते—मैवेति । 'आरुवण्यः' अरा दोषास्तद्व- न्तः, आसमन्तादरशीला वा आरवः तैरसत्यभेदज्ञानिभिः विष्णुः सर्व- धा वन्द्यो भजनीयो नेत्यर्थः । इति पैङ्गिश्रुतिरित्यनन्तरं यत इति शेषः । अस्य नासत्यो भेद इत्युत्तरेणान्वयः । एवं भाल्लवेयश्रुतिरित्यस्यापि । अत्र यद्यपि भागवततात्पर्ये—' सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ । स्थाणुर्होच्चक्राम स प्रजापतिमुवाच कोऽसि के स्मः कः सः इति । स होवाच योऽस्मि ये स्थ यः स इति । अथैनमुपाक्रोशत् सत्यं भिदा स- त्यं भिदा सत्यं भिदा ' इत्यादिना 'सत्यम्' इति वाक्यं भाल्लवेयश्रुत्य- न्तर्गततया पठ्यते । भाष्यपुस्तकेऽपि क्वचित् 'सत्यम् ' इति वाक्यं 'आत्मा हि' इति वाक्यं च भाल्लवेयश्रुतित्वेनैव पठ्यते । न तु श्रुति- द्वयस्थत्वेन । तथाऽपि अनयोस्तात्पर्यानुसारेणैकश्रुतिस्थत्वं, बहुतर- पाठबलात् 'सत्य आत्मा' इति पैङ्गिश्रुतिः । 'आत्मा हि' इति भाल्ल- वेयश्रुतिः । तात्पर्येोदाहृता तु अन्या तत्समाख्या रूपा चेत्यदोषः । 'स्थाणुः' रुद्रः 'उच्चक्राम' ऊर्ध्वं जगाम । 'सः' रुद्रः 'प्रजापतिं' ब्रह्माणं उपाक्रोशदुवाच । किमिति? त्वं 'कः' कीदृशः । वयं 'के' कीदृशाः । सः विष्णुः 'कः' कीदृशः । किं भिन्न उताभिन्न इत्याश- यः । क्रमेणोत्तरमाह—अहं 'यो' यादृशोऽस्मि सर्वदा तादृशोऽस्मि । यूयं 'ये' यादृशाः तादृशाः स्थ । 'सः' विष्णुर्यादृशो मया भवदादि- भिन्न भिन्नस्तादृश एवेति श्रुत्यर्थः ॥ ( ११ ) अत्रोक्तभेदसाधकप्रमाणत्वेन विरुद्धगुणोपन्यासाय 'आ-
[ अधि - ३. सू - १२. ] दीपिकासहितम्. १८३ क्तिरस्वतन्त्रोऽवरः' इति च भाल्लवेयश्रुतिः । ( १२) यथेश्वरस्य जीवस्य भेदस्सत्यो विनिश्चयात् । एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि ॥ त्मा' इति द्वितीयवाक्यं प्रवृत्तम् । 'आत्मा' परमात्मा 'परमः' स्व- तन्त्रः । 'अधिगुणः' पूर्णशक्तिः । अतएवोत्तरत्र परमत्वस्वतन्त्रत्व- पूर्णशक्तित्वविरुद्धानां धर्माणां अल्पशक्तिरित्यादिपदैर्व्युत्क्रमेणाभिधा- नं कृतम् ॥ ( १२) अत्रैवार्थे पुराणवाक्ये पठति—यथेति ॥ अत्र षष्ठ्यन्तं वाक्यं पाद्मस्थं, प्रथमान्तं स्कान्दगतमिति तत्त्वप्रदीपोक्तेः । 'मे मा- म्' इत्याभ्यां तत्प्रकृतो ग्राह्यः । 'विनिश्चयात्' एवार्थोऽयं शब्दः । स- त्यभेदाविति बहुव्रीहिः । यथा सत्यभेदौ तथैव विद्यमानानतिक्रमेण ज्ञातेन 'सत्येन' सत्यभेदेन भेदसत्यत्वज्ञानाख्यकारणेनेति यावत् । सहकेशवा इत्येकं पदं, केशवसहिता देवाः 'त्रायन्तु' अस्मान् रक्ष- न्त्वित्यर्थः । इत्यादेर्वाक्यान्नासत्यो भेदः, किन्तु—सत्य एवेति ज्ञायत इत्यर्थः । अत्र पूर्ववाक्ये जीवेशभेदस्य दृष्टान्तत्वेनोपादानात्प्रामाणि- कत्वं ज्ञायते, तादृशस्यैव दृष्टान्तत्वात् । द्वितीये तु विषयानतिक्रमेण भेदसत्यत्वज्ञानस्य त्राणकारणत्वोक्त्या भेदसत्यत्वमपि ज्ञायत इति प्रकृतसङ्गतिः । आदिपदेन ग्राह्यवचनानि तत्त्वप्रदीपे उदाहृतानि । तथाहि— द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ इत्यारभ्य— तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ इति भगवद्वचनम् । ( भ. गी. १६-६ . . १९ . ) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । त आसुराः स्वयं नष्टाः जगतः क्षयकारिणः ॥ इति व्यासस्मृतिः । इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
| १२४ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - २. ] यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥ इत्यादेर्नासत्यो भेदः ॥ १२ ॥ पराशृणीतमचितो न्योषतं हतं नुदेथां निशिशीतमत्रिणः । ( ऋ.७-१०४-१०) इन्द्रा सोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । तपुर्वधेभिरजरेभिरत्रिणः ; ( ऋ.७-१०४-५.) इत्यादिका श्रुतिः । एषां भिज्जगदीश्वरजीवानां नास्ति तेऽत्रिणः । स्वाज्ञानकल्पितजगत्परमेश्वरस्य जीवस्य भेदकलुषीकृतभूमभावे । इति हि मायिनो वदन्ति । आच्छाद्य विक्षिपति संस्फुरदात्मतत्त्वं । जीवेश्वरस्य जगदाकृति तन्मृषैव । इत्यादि च । त्रियातुधानः प्रसितिं तयेत्वृतं यो अग्रे अनृतेन हन्ति । ( ऋ.१०-८६-११.) वाचा स्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः । ( ऋ.१०-८७-१५.) ‘अथ ज्ञानोपसर्गः’ इत्यारभ्य ‘येचान्ये मिथ्यातर्कैर्दृष्टान्तैः कु हकैरैन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् । प्रकाइया ह्येते तस्करा अस्वर्ग्याः’ (मैत्री. ७ - ८.) इत्यादिश्रुतिशतैरन्धं तम एव मायिनां गतिरिति निश्चीयते । तथा च स्कान्दे— सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः । अन्यसाम्यविदो विष्णोः विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न तेषां उत्थितिः क्वचित् ॥ इति ॥ ॥ इति गुहाधिकरणम् ॥
[ भाष्ये - ४. सू - १३. ] दीपिकाकहितम्. १८५ ४. अधिकरणम् ॥ ( १ ) आदित्ये विष्णुरित्युक्तम् । 'य एष आदित्ये पुरुषः सोऽहमस्मि स एवाहमस्मि' ( छा. ४-११. ) इत्या- दीनामग्निनामवादित्यादिस्थत्वमुच्यते । ( २ ) अतोऽक्ष्यादित्ययोरैक्यात् ' य एषोऽन्तरक्षिणि पुरुषो ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे चक्षुरन्तःस्थत्वलिङ्गं ब्रह्मणि समन्वियते । श्रु- त्यादिसङ्गतिं विषयवाक्यं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च दर्शय- ति—आदित्य इति ॥ 'यश्चासावादित्ये' इत्यानन्दमयाधिकरणोदाहृ- तायां तथा 'अन्तरादित्ये' इत्यन्तर्नयोदाहृतायां च श्रुतावानन्दमयोऽ- न्तस्थस्थो विष्णुरादित्येऽस्तीत्युक्तमित्यर्थः । ततः किमित्यत आह—य इति । तदित्यादौ संयोज्यम् । 'सोऽहं स एवाहम्' इत्यभ्यासोपन्यासः पूर्वपक्षयुक्तिप्रदर्शनार्थः । प्रथमादिपदेन 'अथैनमन्वाहार्यपचनोऽनु- शशास । य एष चन्द्रमसि पुरुषो दृश्यते । सोऽहमस्मि स एवाहम- स्मि । अथैनमाहवनीयोऽनुशशास । य एष विद्युति पुरुषो दृश्यते सो ऽहमस्मि स एवाहमस्मीति च वाक्यद्वयं गृह्यते । द्वितीयादिपदेन च- न्द्रविद्युत्स्थत्वम् । यद्यपि आदित्यस्थत्वस्येव चन्द्रविद्युतस्थत्वयोर- न्नेरक्षित्वसाधकत्वाभावात्तदुपादानं न प्रकृतोपयुक्तम् । तथा अ- ग्नीनामिति बहुवचनं चानुपयुक्तम्, पूर्वपक्षे गार्हपत्यस्यैव अक्षित्व- साधनेन गार्हपत्यादीनां त्रयाणां तस्यासाधनात् । चन्द्रविद्युतोरक्ष्ये- कविद्वत्वाभावेन तत्स्थत्वस्याक्षित्वसाधकत्वाच्च । तथाऽपि आ- दिशब्दद्वयं बहुवचनं च पूर्वपक्षे गार्हपत्यादिबह्निप्रभृतिरूपयुक्तिसूच- नार्थम् । यथा अन्वाहार्यपचनाख्यदक्षिणाग्न्ययाहवनीयोः चन्द्रविद्यु- त्स्थत्वमुच्यते, एवं गार्हपत्यस्यापि आदित्यस्थत्वमुच्यते इति दृष्टा- न्तार्थं गार्हपत्यादीनां त्रयाणां क्रमेणादित्यादित्रितयस्थत्वे प्रसिद्धगा- र्हपत्यस्यैवादित्यस्थत्वमुखेनाक्षित्वमागच्छतीति युक्तिप्रदर्शनार्थं वा तदुपादानमिति न वैयर्थ्यमिति ध्येयम् ॥ ( २ ) ततोऽपि किमित्यत आह—अत इति ॥ अस्य न सन्निहिते- न 'ऐक्यात्' इत्यनेनान्वयः । प्रकृतस्य अत इत्यनेन परामृष्टस्यादित्यान्तः- स्थत्वस्य ऐक्ये हेतुत्वायोगात् । किन्तु व्यवहितेन 'अग्नाव्यग्निरेवो- २४
१८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] दृश्यते' ( छा. ४-१५. ) इत्यत्राप्यग्निरेवोच्यते । च्यते' इत्यनेनान्वयः । न केवलमादित्यवाक्य इत्यपेरर्थः । तथा च— यदानन्दमयाख्यविष्णुनिष्ठतयोक्तमादित्यस्थत्वं तच्छान्दोग्ये 'य एष आदित्ये पुरुषः सोऽहमस्मि' इत्यादावग्नीनां गार्हपत्याद्याग्नेरेव 'उच्य- ते' प्रतीयते, न विष्णोः । कुतः ? यतोऽत्र 'अग्नीनां' गार्हपत्य-दक्षिणा- ग्याहवनीयानां त्रयाणां क्रमेण आदित्यादिस्थत्वमुच्यते, अतः । त- तः किम् ? यतोऽत्र गार्हपत्याख्याग्नेरेवादित्यस्थत्वमुच्यतेऽतो 'य ए- षोऽन्तरक्षिणि पुरुषो दृश्यते' इति वाक्येऽप्यक्षिस्थत्वेन गार्हपत्याग्निरे- वोच्यते, न स विष्णुः । श्रुतिगतऽहंशब्देनापि स एवोच्यते इति योज- ना । तथा च पूर्वपक्षश्रुतिगताहंशब्दो अग्नावेव मुख्य इति तस्यैव ग्र- हणमिति भावः । नन्वग्नेरादित्यस्थत्वेऽपि कुतोऽक्षिस्थत्वप्राप्तिरित्यत आह—अक्ष्यादित्ययोरिति । 'आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्' इत्यैतरेयश्रुतेश्चेतनाख्यादित्यमण्डलयोरादित्यचक्षुःपदोदितेकचेतना- धिष्ठितत्वरूपैकधर्मेणैकविधत्वादित्यर्थः । यद्वा— 'अशनयोदाहृता- दित्यस्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिका' ( ) इति श्रुत्यनुसारेण तयोस्त्रिवृत्त्वधर्मेणैकविधत्वादित्यर्थः । तथा च—आ.दि- त्यस्थत्वोक्त्या अर्थादक्षिस्थत्वमपि प्राप्तमेवेति भावः । यद्यपि 'सय- श्चायम्' इति पूर्वोदाहृततैत्तिरीयश्रुतिस्थादित्यशब्दः उत्कृष्टचेतनमा- त्रोपलक्षकतया व्याख्यातः । तथाऽपि अत्राधिकरणे सूर्याभिमन्यमाना- दित्यमण्डलपरत्वमप्यस्याङ्गीकृत्य आक्षेपपरिहारौ कृतौ । अत एव टी- कायामक्ष्यादित्ययोरेकविधत्वादित्युक्तम् । तत्त्वप्रदीपे तु-अक्षीन्द्रिय- प्रेरकादित्ययोरेकत्वादिति यथाश्रुतमेव व्याख्यातम् । चन्द्रिकायाम- पि तत्त्वप्रदीपानुसारेण देवतापरमेवाक्षिप्तम् । अत एव भाष्ये सन्न्या- यरत्नावल्यां च अक्ष्यादित्ययोरेक्यादित्येवोक्तम्, न त्वेकविधत्वादि- ति । अक्ष्यादित्ययोरेकविधत्वादिति टीकापि भाष्यानुसारेण प्रकारभेद- निषेधमुखेन प्रकारैक्यपरा नेयेति पक्षान्तरमप्युक्तम् । तथा च—देवता- परत्वे 'आदित्ये विष्णुरित्युक्तम्' इति भाष्यश्रुतिस्थाक्ष्यादित्यपद- योश्च यथाश्रुत एवार्थः । मण्डलपरत्वे तद्भाष्यस्थादित्यपदं पूर्वोदा- हृततैत्तिरीयश्रुतिस्थादित्यपदं च मण्डलपरतया व्याख्येयमिति विवे- कः । अनेन छन्दोगश्रुत्युक्ताक्षिस्थत्वस्यान्यनिष्ठत्वाक्षेपमुखेनानन्दम- यनयोदाहृतायां तैत्तिरीयश्रुतावर्थादुक्तस्यापि तस्यान्यनिष्ठत्वाक्षेपात् ।
[ अधि - ४. सू - १३. ] दीपिकासहितम्. १८७ ( ३ ) अतः 'तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमे नन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । अक्षिस्थत्वं वि षयः । किमग्नेर्विष्णोर्वेति सन्देहः । अग्नीनामेव अक्षिस्थत्वमिति पूर्वः पक्षः । अत्र आदित्यस्थत्वरूपयुक्तिश्चोक्ता भवति । अत्र 'य एष आ दित्ये पुरुषः' 'य एषोऽन्तरक्षिणि पुरुषः' इत्यनयोर्वाक्ययोः 'आदि त्यश्चक्षुर्भूत्वा' इति वाक्यद्वारा एकार्थत्वमुपपाद्य तन्मुखेन 'य एष आदित्ये' इति वाक्येन 'यश्चासावादित्ये' इति वाक्यस्य सङ्गतिं स म्पाद्य तद्द्वाराऽर्थाक्षिप्ततदर्थार्थक 'य एषोऽन्तरक्षिणि' इति वाक्यस्या पि तेन सङ्गतिरित्येवं वक्रसङ्गत्यैतदधिकरणारम्भः आदित्यस्थत्वलि ङ्गस्यापि समन्वयसिद्धयर्थे । अन्यथा 'नेतरोऽनुपपत्तेः' इत्यादौ वि ष्णुज्ञानान्मोक्ष इत्युक्तम्, स मोक्षः 'तद्यथा' इति वाक्येन 'य एषो न्तरक्षिणि' इत्युक्ताक्षिस्थज्ञानात्प्रतीयत इति वक्ष्यमाणऋजुसङ्गत्यैव अधिकरणमारम्भणीयं स्यादिति ध्येयम् ॥ ( ३ ) न केवलमक्षिस्थत्वसिद्धावग्नेरानन्दमयत्वप्राप्तिः । किन्तु- यत्पूर्वं 'नेतरः' इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तं, तदपि बाधितं स्या दित्यत आह—अत इति ॥ 'अग्निज्ञानादित्येतत्' 'सर्वपापाश्लेषात्' इत्यनेनैव 'मोक्षः' इत्यनेनापि सम्बध्यते । तथा च यतोऽग्निरक्षिस्थो ऽतस्तज्ज्ञानादेव मोक्षोऽपि भवेत् न विष्णुज्ञानात् । कुत एतत्? अक्षि स्थाग्निज्ञानात्सर्वपापाश्लेषात् । न च तस्यासिद्धिः । 'तद्यथा' इति तदर्थवादेऽग्निज्ञानादेव सर्वपापाश्लेषोक्तेः । न च तज्ज्ञानात्सर्वपापा श्लेषमात्रेण कथं मोक्ष इति वाच्यम् । यतस्तज्ज्ञानान्मोक्षं विना सर्व पापाश्लेषासम्भवेन तदन्यथाऽनुपपत्त्यैव मोक्षस्याप्युपपत्तिरिति योज ना । एवं च पूर्वपक्षे अग्नेरक्षिस्थत्वेन 'तद्यथा' इत्यक्षिस्थस्योक्तं मु क्तिहेतुज्ञानविषयत्वमपि तस्यैव प्राप्नोतीति 'नेतरः' इत्युक्तमयुक्त मिति भावः । अनेन ऋजुसङ्गतिरप्यस्य दर्शिता भवति । छान्दोग्ये हीत्थमाख्यायिका—(छा. ४-१०-५०) कमलायनस्यापत्यं कामलाय नः नामतः उपकोसलः सत्यकामाख्ये गुरौ ब्रह्मचर्यमुद्दिश्योवास । स आचार्यस्याग्नीन् गार्हपत्यादीन् द्वादशवर्षपर्यन्तं पर्यचारीत् । सत्यका मस्त्वन्तेवासिनः स्वाध्यायं ग्राहयन् एनमेकमेव नाध्यापयत् । पुनः पुनः स्वजाययोक्तोऽपि अनुक्त्वैव विद्यां प्रवासाय प्रातिष्ठत । तदोप कोसलो व्याधिपीडितो विद्याप्राप्तिचिन्तया स्वाचार्यभार्यया अशाने
१८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] वंविदि पापं कर्म न श्लिष्यते' (छा.४-१४.) इत्यादि ज्ञानादेव सर्वपापाश्लेषान्मोक्षोपपत्तिरिति । त्युक्तोऽपि नाश्नात् । एवं ब्रह्मचारिण्यनश्नति तूष्णींभूते सति तदा गा र्हपत्याद्यग्नयः कारुण्याविष्टाः त्रयोऽपि वयमस्मै ब्रह्मचारिणे विद्यां प्र ब्रवामेति प्रतिज्ञाय मिलितास्सन्तो विद्यामूचुः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इत्यादि । एवं सम्भूयोपदेशानन्तरमेनं प्रत्येकं अग्नय उपादि दिशुः इत्युच्यते वेद पुरुषेण 'अथ हैनं गार्हपत्योऽनुशशास..य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि' इत्यादिना । एवं त्रिभिरग्निभिः प्रत्येकमुपदिष्ट उपकोसलः अथास्माभिरुक्तं ज्ञेयमेव, नोपास्यम्, तत्तु तदाचार्य आगत्य वक्ष्यतीति तैरुक्तोऽभूत् । एवं स्थि तेऽथाचार्यः सत्यकाम आजगाम । आगत्य चोपकोसलोक्तं श्रुत्वा प्रत्यु वाच । किमिति? यदग्निभिस्तुभ्यमुपदिष्टं तत्तवया ज्ञेयमेव न तूपास्यं, तत्त्वहमुपदेक्ष्ये इत्येवं प्रतिज्ञायादरजननाय वक्ष्यमाणमहस्तौत् 'यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापंकर्म न श्लिष्यत इति । एवं स्तुत्वोपकोसलाय विद्यामुपादिशत्सत्यकामः । किमिति? 'य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच । एतदमृतमे तद्भयमेतद्ब्रह्मेति' । अथ सम्भूयोपदेशानन्तरं एनमुपकोसलं गार्हप त्योऽनुशशास । किमिति? पृथिव
[ अधि - ४. सू - १३. ] दीपिकासहितम्. १८९ ( ४ ) अतो ब्रवीति— सू—ॐ ॥ अन्तर उपपत्तेः ॥ ॐ ॥ १३ ॥ चक्षुरन्तस्थो विष्णुरेव । ( ५ ) ‘त्रिपादस्यामृतं दिवि’ ( ऋ. १०-९०-३. ) इत्यादि- ना तस्यैव अमृतत्वादुपपत्तेः परोक्षज्ञानिनि ज्ञानोत्तरं पापं कर्म न श्लिष्यते इत्यर्थः । य एषोऽक्षिण्य- न्तःपुरुषो दृश्यते दिव्यदृष्ट्या एष आत्मा वामनाख्य इति होवाच उ- पकोसलं प्रति सत्यकामः । ‘एतदमृतं’ स्वतो मृतिशून्यं नित्यमुक्तं, ‘एतदभयं’ स्वतो भयशून्यं ‘एतद्ब्रह्म’ गुणपूर्णमिति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्वेतत्प्रकरणमग्निपरं मन्यते ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इति सङ्ग- तिसम्भवात् शङ्कासद्भावाच्च । अतः तत्परिहाराय उत्तरमब्रवीत् सू- त्रकार इत्यर्थः । चक्षुरन्तःस्थ इत्यनेन अन्तर इत्यंशो विष्णुरेवेत्यनेन अनुवृत्तस्तत्त्वित्यंशश्च व्याख्यातः । यद्यपि अनुव्याख्याने शब्दवैयर्थ्य- परिहाराय अन्तस्स्थित्वा रमणकृदिति व्याख्यानात् अत्रापि तदनु- सारेण रमणकृच्चेति वक्तव्यम् । तथाऽप्यत्र रमणक्रियाबोधकात्मशब्द- स्य हेतुककरणाच्च तदर्थस्य प्रतिज्ञायामन्वयः संभवतीति अन्तस्थ इ- त्येवोक्तम् । तत्रत्वात्मशब्दार्थस्य हेतुत्वाविवक्षणात्साध्यान्वयो न यु- ज्यते इति रमणकृदित्यप्युक्तम् । वस्तुतस्तु—सूत्रे अन्तरित्यनुक्त्वा अन्तर इत्यधिकोक्तेः सार्थक्याय अत्रापि रमणकृच्चेत्यपि उपलक्षण- या वाच्यम् । अवयवार्थविवक्षाऽविवक्षाभ्यां आत्मशब्दस्य साध्यस- मर्पकताहेतुत्वं च युज्यते इति ध्येयम् ॥ ( ५ ) उपपत्तेरित्यस्यानेकलिङ्गपरतया लिङ्गानां निरवकाशत्वो- क्तिपरतया च व्याचष्टे—त्रिपादिति ॥ इत्यादिना वाक्येन उक्तस्ये- ति शेषः । तस्येति विपरिणतं पदमावर्तते । अमृतत्वादित्येतदिहापि षष्ठ्यन्ततया बुद्ध्या विविक्तं सम्बध्यते । प्रथमेनादिपदेन ‘अभयं तितीर्षतां पारम्’ ( क.उ.३-२. ) ‘अमृतैवैषा देवता’ ( ) ‘आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ ( बृ.६-४-२५. ) इत्यादि- वाक्यं द्वितीयेन अभयत्वादिकं गृह्यते । तथा च—त्रिपादित्यादिना श्रुत्यन्तरवाक्येन तस्य विष्णोरेव उक्तस्य ‘एतदमृतम्’ इति वाक्ये ऽन्तःस्थनिष्ठत्वेनोक्तस्यामृतत्वादुपपत्तेर्लिङ्गस्य तस्मिन् विष्णावेव उ