पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
DevanagariHindipublished1,267 पृष्ठ
पृष्ठ 228, कुल 1267 में से
संदर्भ में पढ़ेंपृष्ठ 228
[अधि - ३. सू - १२.] दीपिकासहितम्. १८१ 'यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्' (कठ. १- ३-२.) इति ॥ (८) पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥ एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते प्रभुम् ॥ इति ब्राह्मे । (९) न च जीवे समन्वयोऽभिधीयते । पठित्वा तदभिप्रेतश्रुतिमेवोदाहरति—विशेषणाच्चेति ॥ इति विशेष- णादित्यन्वयः । सूत्रे पिबतोर्गिति विपरिणामेनानुवर्तते । चो युक्तिस- मुच्चये । तथा च 'यः सेतुः' इति श्रुतौ पिबतोरेकवचनबोध्येनैकत्वे- न विशेषणादेक एव पाता । स च यजमानसेतुत्वब्रह्मत्वाक्षरत्वादिना विशेषणाद्