पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 281, कुल 1267 में से
संदर्भ में पढ़ें२३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( ३ ) अत उच्यते— सू—ॐ ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ ॐ ॥ १ ॥ ‘तमेवैकं जानथ आत्मानम्’ (मु. २-२-५.) इत्यात्म शब्दात् द्युभ्वाश्रयो विष्णुरेव । आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता ॥ इति ब्रह्मवैवर्ते ॥ १ ॥ ( ४ ) सू—ॐ ॥ मुक्तोपसृप्यव्यपदेशात् ॥ ॐ ॥ २ ॥ त्यन्तरार्थः । सिद्धान्ते तु रुद्रादिशब्दा विष्णुपराः । य एष जीवो ‘बहुधा’ बहुशरीरेणोत्पद्यमानः शरीरान्तःसञ्चारीत्याथर्वण श्रु त्यथः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ सौत्रस्वशब्द स्य स्वशब्दपर्यायात्मशब्दादिति विष्णुतत्त्वनिर्णयोक्तेः, स्वेतिशब्दः स्वशब्द इति व्युत्पत्त्या स्वशब्दपर्यायात्मशब्दग्राहित्वं विष्णोः स्वरूप स्यैव साक्षाद्वाचको ह्ययमात्मशब्द इति तत्त्वप्रदीपोक्तेः, स्वस्य वि ष्णोरेव वाचकः शब्दः स्वशब्द इति विग्रहाश्रयेण च आत्मशब्दप रामर्शित्वमाश्रित्य स्वशब्दादित्येतदात्मशब्दादिति व्याख्यातम् । तथा च ‘इत्यात्मशब्दात्’ इत्यात्मशब्दश्रवणादित्यर्थः । द्युभ्वाद्याश्रय इ त्यनेनायतनशब्दो व्याख्यातः । क्वचिदायतनशब्दस्यैव पाठः । वि ष्णुरेवेत्यनेन समन्वयसूत्रानुवृत्तं तत्त्वित्येतत् श्रुत्यनुसारालिङ्गविपरि णामेन व्याख्यातम् । अनेन-‘स्वशब्दात्’ विष्णुवाचिस्वशब्दपर्याया त्मशब्दात् स्वशब्दात् ‘द्युभ्वाद्यायतनं’ स्वर्गभूम्यादिसर्वाश्रयः ‘त त्तु’ विष्णुरेवेति सूत्रार्थ उक्तो भवति ॥ आत्मशब्दादपि कुतोऽयं विष्णुरित्यत आह—आत्मति ॥ य स्मात् ‘तैः’ विष्णोरितरैश्चतुर्मुखादिजीवैः गुणपूर्णता ‘नैवाप्ता’ न सर्वथा प्राप्ता । तस्मादात्मब्रह्मादयः शब्दाः ‘अव्ययं’ नित्यनिरति शयप्रवृत्तिनिमित्तवन्तं विष्णुं ‘ऋते’ विना तदन्यं ‘न सम्भवन्ति’ न मुख्यतो वाचकत्वेन प्राप्नुवन्तीत्यर्थः । अनेनात्मशब्दस्यापि गुण पूर्तिरर्थ इत्युक्तं भवति । ब्रह्मवैवर्ते इत्यनन्तरमन्यत्र निरवकाशतयो क्तादिति शेषः । तस्यात्मशब्दादित्यनेनान्वयः ॥ ( ४ ) ननु विष्णौ मुख्योऽप्यात्मशब्दो जायमानत्वरूपजीवलिङ्ग