पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 283, कुल 1267 में से
संदर्भ में पढ़ें२३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तस्स्यादेष शास्त्रविनिर्णयः ॥ इत्यादिद्युपुराणे ॥ २ ॥ ( ६ ) सू-ॐ ॥ नानुमानमतच्छब्दात् ॥ ॐ ॥ ३ ॥ ये व्याकृतम् । आदिपदेन 'एतमानन्दमयमात्मानमुपसङ्क्रम्य' 'परमं यः परायणम्' इत्यादिकं गृह्यते ॥ ननूदाहृतवाक्यैरस्तु विष्णोः मुक्तप्राप्यत्वं, तथाप्यतान्यव्यव च्छेदाभावाद्विष्णुवदन्यस्य मुक्तप्राप्यत्वं किं न स्यादिति लिङ्गस्य सावकाशत्वमाशङ्क्य अन्यत्र प्राप्यत्वमात्रसम्भवेऽपि निरुक्तोपसृप्य त्वं सौत्रमुक्तशब्दितविवक्षितमुक्त्युपेतजीवप्राप्यत्वं चान्यत्र निरव काशमिति प्रमाणेनाह— बहुनेति ॥ 'अत्र' प्राप्यमोक्षतत्साधनविषये 'ब हुनोक्तेन' इदमिदं चेति प्रत्येकं बहुना वचनेन 'किं प्रयोजनं' न कि मपि, प्रत्युतोक्तिगौरवमेवेति भावः । तर्हि कथं निर्णय इत्यत आह— यावच्छ्वेतमिति । 'श्वेतं' श्वेतद्वीपाख्यं विष्णुस्थानं 'यावन्न गच्छ ति' न प्राप्नोति, तत्रत्यं विष्णुं च न पश्यति 'तावद्योगी' अपरोक्षज्ञा नाख्योपायवान् मुक्तो न स्यात् । भगवदिच्छारूपावरणान्मुक्तः सम्य गाविर्भूतज्ञानानन्दादिमान् न भवेदिति 'एषः'उपदेशः'शास्त्रविनिर्णयः' शास्त्रतत्त्वविषयकनिर्णयसाधनमित्यर्थः । एषोऽर्थः 'शास्त्रविनिर्णयः' त ज्जन्यनिर्णयविषय इति वा । भावबोधे तु—सूत्रे पुराणे च मुक्तपदेन लिङ्गभङ्गवान् विवक्षित इत्युक्तम् । अत्र श्वेतद्वीपागन्तुरमुक्तत्वो क्त्या श्वेतद्वीपं प्राप्तस्यैव मुक्तत्वं ज्ञायते । तथा च तत्स्थितस्य वि ष्णोरेवेतरव्यवच्छेदेन मुक्तप्राप्यत्वं सिद्धमिति भावः । इत्यादित्यपु राणे इत्यस्य तस्यैव मुक्तप्राप्यत्वव्यपदेशादित्यनेनान्वयः । अनेन त स्यैवेत्येवकारस्योपयोगो ज्ञापितो भवति । अस्य हेतोर्न लिङ्गस्य सा वकाशत्वं शङ्क्यमित्यध्याहृतसाध्येनान्वयः ॥ ( ६ ) ननु प्रागुक्तरीत्या रुद्रप्रकृत्योर्द्युभ्वायतनत्वं किं न स्यादि त्यतस्तत्साधकाभावान्न तयोरित्याह सूत्रकृत्—नानुमानमिति ॥ अत्र नानुमानमिति साध्यांशं व्याचष्टे—नानुमानात्मकेति । 'अनुमा नप्राप्तप्रामाण्यासदागमोऽनुमात्मकः' इति तत्त्वप्रदीपोक्तेः अनुमानात्म के अनुमानसिद्धप्रामाण्यके पाशुपताद्यागमे सर्वाश्रयत्वेन कल्पितो