भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 291, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 291

२४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] २. अधिकरणम् ॥ ( १ ) 'प्राणो वा आशाया भूयान्' इत्युक्त्वा 'यो वै भूमा तत्सुखम्' (छा. ७-२३.) इत्युक्तेस्तस्यैव भूमत्वप्राप्तिः । २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भूम्नाम्नो विष्णौ समन्वयः प्रतिपाद्यते । भू- मशब्दश्च 'भूम्नः क्रतुवत्' इत्यादौ क्वचिद्धर्मवाचकोऽप्यत्र पूर्णरूपध- र्मिवचनः । पूर्णत्वं च गुणत उत्तमत्वमिति ध्येयम् । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति—प्राण इति ॥ 'छान्दोग्ये' इत्यादौ उपस्कार्यम् । 'इत्युक्त्वा' इत्युपक्रम्येत्युपलक्ष- णम् । तदुत्तममनुक्त्वेत्यापि द्रष्टव्यम् । अत एव तस्यैव प्राणस्यैवेत्ये- वकारोऽन्यव्यवच्छेदकः प्रायोजि । श्रुतौ पूर्वपक्षे प्राणशब्दो वायु- मात्रपरः । सिद्धान्ते तु भाष्यरीत्या वायुविष्णूभयपरः । न्यायविवर- णछान्दोग्यभाष्यरीत्या तु वायुमात्रपरः । न च वायुविष्णूभयवाचित्वं वायुमात्रवाचित्वमित्यर्थद्वयं विरुद्धम् । अन्तर्यामिविवक्षया भाष्य- स्य तदविवक्षया विवरणादेः प्रवृत्तत्वात् । यथा 'आत्मन आकाशः' (तै. २-१०) इत्यत्र सम्भूतशब्दस्यानेकार्थत्वेऽन्तर्यामिविष्णुरप्याका- शशब्देनोच्यते । तस्य जनिमात्रार्थत्वे तु न तेन स उच्यते । तथा तत्त्व- प्रदीपे तु 'अभ्युपगमवादत्वात्' इत्यादिना अयं प्राणो विष्णुरित्यभ्युपे- त्यवादेन भाष्यं प्रवृत्तम्, इत्युक्तम् । तथा चाद्यपक्षे प्राणः 'आशायाः' भारत्याः 'भूयान्' गुणतो ज्येष्ठः । एवं 'प्राणः' तदन्तर्यामी विष्णुरन्त- र्यामित्वादेव तत आशायाश्च भूयानित्यर्थः । अनेन पूर्वमानन्दमयश- ब्दोक्तसजातीयोत्कृष्टत्वरूपपूर्णत्वस्येह वायावाक्षेपादानन्दमयाधिकर- णेनास्याक्षेपकी सङ्गतिः सूचिता । छन्दोगश्रुत्युक्तो भूमाख्यो विष- यः, किं वायुरुत विष्णुरिति सन्देहश्च सूचितः । तथा तस्यैव भूमत्व- प्राप्तिरिति पूर्वपक्षः । तत्र प्राणोपक्रमतदुत्तमानुक्तिरूपयुक्तिश्च दर्शि- ता भवति । 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्' इ- ति वाक्ये सुखशब्दः पूर्णसुखार्थः । 'यत्सुखं स भूमा' इति व्यासती- र्थीयोक्तेः, सर्वनामानि पर्यायेण तत्तल्लिङ्गभाञ्जीत्युक्तेश्च निरुपपदसुख- शब्दमात्रस्यापि पूर्णसुखार्थत्वात् । यदनन्याधीनपूर्णानन्दसुखं स भू- मा गुणतः पूर्णो नारायण इत्युद्देश्यविधेययोर्व्यत्ययः । अत एव स्वा- तन्त्र्येण सुखस्य विशेषणात् न मुक्तजीवेष्वनैकान्त्यमित्याशयेन तदु-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 291, कुल 1267 में से · BharatKosha