पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 292, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - ८. ] दीपिकासाहितम्. २४५ ( २ ) 'उत्क्रान्तप्राणान्' (छा. ७-१५-३.) इत्यादि तल्लि ङ्गात्प्राणशब्दश्च वायुवाचीति । ( ३ ) अतो वक्ति- सू-ॐ ॥ भूमा सम्प्रसादादध्युपदेशात् ॥ ॐ ॥ ८ ॥ 'सम्प्रसादात्' पूर्णसुखरूपत्वात् 'अध्युपदेशात्' सर्वेषा मुपर्युपदेशाच्च विष्णुरेव भूमा। पपादयति-नाल्प इति । 'अल्पे' अपूर्णे मुक्तजीवे तत्प्रसादं विना यतः सुखं नास्तीत्यर्थः । निगमयति- भूमैव सुखमिति । अत्रापि व्य त्ययः ॥ ( २ ) ननु 'प्राणो वा आशाया भूयान्' इत्युक्तप्राणशब्दस्य 'अ त एव प्राणः' इत्युक्तरीत्या विष्णुपरात्वाद्विष्णोरेव भूमत्वप्राप्तेः कथं प्राणशब्दबलाद्वायोर्भूमत्वप्राप्तिरित्यत आह-- उत्क्रान्तेति ॥ इत्यादी ति । लुप्तविभक्तिको निर्देशः । आदिशब्देन 'उत्क्रान्तप्राणान् शूलेन समासं व्यतिषं दहेत् नैनं ब्रूयुः पितृहासीति' समग्रवाक्यं गृह्यते । तच्च तत् लिङ्गं च, तस्य लिङ्गमिति च विग्रहः । अयमिति शेषः। चश ब्दोऽवधारणे । वायुवाची चेति भिन्नक्रमः । तथा च 'अयं' प्राणश ब्दो 'वायुवाच्येव' न विष्णुवाची । कुतः ? 'उत्क्रान्तप्राणान्' इत्या दौ 'तल्लिङ्गात्' तस्य प्राणस्योत्क्रमणादिरूपलिङ्गश्रवणादिति योज ना । उत्क्रान्तः प्राणो येभ्यस्ते, तथोक्ताः । तान्मातृपित्राचार्यादीन् 'समासं' साकल्येन 'व्यतिषं' एकदेशेन च शूलेन विलूण्ठ्य यदि दहेत्पुत्रः शिष्यो वा तथा नैनं ब्रूयुः जनाः । किमिति ? - पितृहासी ति मातृहासीति । मुख्यप्राणसन्निधानाभावादिति भावः । इति श्रुत्य र्थः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति-अत इति ॥ सूत्रे प्रसीदत्यने न जन इति प्रसादः सुखम्, सम्यक्प्रसादः सम्प्रसादः, तस्मादिति विग्रहः । ईश्वरे सुखमिव दुःखमपि स्यादिति नाशङ्क्यं, पूर्णसुखतात्प र्येण सम्यक्प्रसादेन दुःखाभावनिश्चयादित्याशयेन प्रयुक्तं सम्प्रसा दादिति हेतुमनूद्य व्याचष्टे-सम्प्रसादादिति । उत्तरसूत्रस्थचशब्दो ऽत्राकर्षणीय इत्याशयेन 'अध्युपदेशात्' इत्येतद्धेत्वन्तरपरतयाऽनू द्य व्याख्याति-अध्युपदेशादिति । नामादीनां सर्वेषां 'उपरि' तदुत्त मत्वेन 'उपदेशात्' उक्तेरित्यर्थः । चो हेतुसमुच्चये । अत्राधीत्येव हे