पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 293, कुल 1267 में से
संदर्भ में पढ़ें२४६ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - १. पा - ३. ] ( ४) सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् ॥ विश्वतः परमां नित्यम्' इति हि श्रुतिः (महाना. ११.) । ( ५) 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' (बृ. ६-४-२.) इ त्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥ ८ ॥ तुः, न तु समग्र एको हेतुः । स चेश्वरवचनो भावप्रधानः, विशेषा नुक्तेः अखिलेश्वरत्वादिति हेत्वर्थः अखिलेशात्वादित्यनुव्याख्यानसुधो क्तो ज्ञातव्यः । असिद्धिपरिहारायोपदेशपर्यन्तं धावनम् । प्रायपाठा द्भूम्नोऽखिलाधिपप्राणाधिपत्ये अखिलाधिपत्यं सिध्यतीति भावः । स मन्वयसूत्रादनुवृत्तस्य तत्त्वितिविधेयसमर्पकस्यार्थमाह—विष्णुरेवे ति । भूमा विष्णुरेवेत्यन्वयः ॥ (४) पूर्णसुखत्वादिकं कुतो विष्णुत्वनिर्णायकमित्यत आह— सहस्रेति ॥ इति हीति । 'हि' यस्मात् 'इति' नारायणानुवाकगता श्रुतिरस्ति, तस्मात्सम्प्रसादात् विष्णुत्वनिर्णयो भवत्येवेत्यर्थः । 'स हस्रशीर्षं' सहस्रपदोपलक्षितामितमूर्धानं 'देवं' प्रकाशरूपं विश्व तो दर्शनादक्षस्येति विश्वाक्षं 'विश्वशम्भुवं' पूर्णसुखाश्रयं 'विश्वं' जगत्प्रविष्टत्वेन वर्तमानं 'नारायणं' मुक्तसङ्घे व्यक्तं 'अक्षरं' स्व रूपतो नाशरहितं अक्षेषु रममाणं वा । परेभ्यो ब्रह्मादिभ्योऽधिकत्वेन मीयत इति परा मा यस्येति वा परमस्तं परमं 'पदं' प्राप्यं विश्वतः परमश्चासावश्चेति विग्रहः , सवर्णदीर्घः । सोमपाशब्दवदयं शब्दः । सुधारीत्या आबन्तत्वाश्रयेण लिङ्गव्यत्ययो वा । तथा च 'विश्वतःप रमां' सर्वस्मादुत्तमं अकारवाच्यं सर्वोत्तमं वा 'नित्यं' देहतो नाश रहितं 'विश्वं' गुणैः पूर्णं यज्ञेषु हविःस्वीकरणात् हरिवर्णत्वाच्च 'ह रिं' 'देवं' क्रीडादिगुणकं 'नारायणं' तदाख्यं देवं तद्विश्वमुपजीव तीति श्रुत्यर्थः । यद्यपि 'विश्वतः परमं' इति द्राविडपाठः । तथाऽप्या न्ध्रपाठमनुसृत्य परमामित्युक्तम् ॥ (५) अत्र प्राणशब्देन विष्णोर्वाच्यत्वाङ्गीकारे प्रागुक्तोत्क्रमणा दिलिङ्गविरोध इत्यतो नेत्याह—तमिति ॥ प्रथमादिशब्देन तदुत्तरवा क्यानि द्वितीयेन तल्लिङ्गान्तराणि च गृह्यन्ते । अपिशब्दः समुच्चये, य द्यपि तथापीत्यर्थे च । तथा च—न केवलं प्राणशब्दोपक्रमविरोधः , तस्य विष्णुपरत्वात् , किंतु 'अपि' अत्र प्राणशब्दे न विष्णोर्वाच्य