पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 300, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ११० ] दीपिकासहितम्. २५३ ( ९ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । ( ऋ. १-१६४-३६. ) ( १० ) चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यती र्वी विपत् । ( ऋ. १-१५५-६. ) इत्यादिश्रुतेः । ( ११ ) एकश्शास्ता न द्वितीयोऽस्ति शास्ता । यो हृच्छयस्तमहमिह ब्रवीमि । ( १२ ) न केवलं मे भवतश्च राजन् ष्टये वा चशब्दः । ' विष्णोरेव ' विष्णुकर्तृकमेव । न त्वन्यकर्तृकमि ति एवार्थः । एवकारस्योत्तरत्रोपयोगः ॥ ( ९ ) कुत एतज्ज्ञायत इत्यतस्तच्चेत्यनेन प्रतिज्ञातार्थे श्रुतिं प्रमाण यति--सप्तेति ॥ आ ऋद्धगर्भाः आर्धगर्भाः । ब्रह्माण्डाख्यातिसमृद्धग र्भाः । निगरणेन म्रियन्त इति गर्भास्तदावरणभूता इति यावत् । रेत इति लिङ्गव्यत्ययेनैकवचनं प्रथमाबहुवचनार्थे । तथा च-' भुवन स्य ' लोकस्य ' रेतसो ' रतिप्रदाः सारभूता वा । यद्वा-भूमत्वात्पू र्णत्वाद्भजननीयत्वाद्वन्दनीयत्वाद्भुवनस्य विष्णो रेतो रूपाः ' सप्त ' महद हङ्कारपञ्चमहाभूताख्याः ब्रह्मादयो देवाः । भुवनस्य ' रेतो ' रेतसो जगद्रतिप्रदस्य विष्णोः ' प्रदिशा ' आदेशेनाज्ञया ' विधर्मणि ' विवि धविश्वधारणे तिष्ठन्तीति ऋङ्मन्त्रार्थः । विश्वेश्वरतीर्थीये तु ' अर्ध स्य ' विष्णोः ' गर्भाः ' सप्त देवाः भुवनस्य ' रेतः ' कारणम् । एते च विष्णोः प्रदिशा विधर्मणि तिष्ठन्तीत्यर्थ उक्तः ॥ ( १० ) ' चतुर्भिः ' इति वाक्यन्तु जन्मनये व्याख्यातम् । एवंजाती यकश्रुतिरादिशब्दार्थः । श्रुतेरित्यस्य ज्ञायत इत्यध्याहारेण तच्चेति पू र्ववाक्येनान्वयः ॥ ( ११ ) सर्वधृतिहेतुप्रशासनं विष्णोरिवान्यस्यापि किं न स्यादित्य त आह-एक इति ॥ इदं च भारतवाक्यं सभापर्वगम् । ' शास्ता ' सर्वधृतिहेत्वाज्ञाकर्ता । ' एकः ' न तु द्वितीयोस्ति, स च विष्णुरेवेत्य र्थः । 'गर्भे शयानं पुरुषं कोऽस्ति शास्ता' इति शिष्टवाक्यम् । ' यो हृच्छयः ' इत्यन्यद्वाक्यमुत्तरवाक्यपर्यालोचनया प्रकृतसङ्गतम् । ' यः ' सर्वधृतिहेतुप्रशासनाय ' हृच्छयः ' सर्वहृदयनिवासी तमहमिह स्था ने ब्रवीमीत्यर्थः ॥ ( १२ ) ' न केवलम् ' इत्यादि हिरण्यकशिपुं प्रति प्रह्लादवाक्यम् ।