भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 303, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 303

२५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः ' इत्यादेर्विष्णोरेव ते धर्माः । ( १५ ) अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च । विरुद्धधर्मरूपोऽसावैश्वर्यात्पुरुषोत्तमः ॥ इति च ब्राह्मे ॥ १२ ॥ र्मध्यमस्तथा ' इत्युक्तेः मध्ये मीयमानत्वान्मध्यम इति व्याख्यातम् । अस्मिन् पक्षे नियतमध्यमपरिमाणशून्यत्वान्नानित्यत्वमिति परिहारो ऽभिप्रेतः । न विद्यतेऽन्यो व्यापको यस्यासावव्यापकः । लोकविलक्ष णव्यापक इति वा । ' व्यापकः ' सर्वदेशकालव्यापी । आदिः कारण मनादिस्तच्छून्य उत्पत्तिशून्य इति वा । न विद्यते विश्वः पूर्णो य स्मादविश्वः । पूर्णत्वाद्विश्वः । यद्वा— ' अविश्वो' लौकिकेष्वप्रविष्टः । ' विश्वः ' जगद्धृदयं वा प्रविष्टः । ' सगुणो ' ज्ञानानन्दादिगुणवान् । ' निर्गुणः ' सत्त्वादिगुणहीन इत्यर्थः । ' इत्यादेः ' इतिवाक्यात् । आ दिशब्देन ' अणोरणीयान्महतोमहीयान् ' ( कठ. २-२०. ) इति कठश्रु तिर्गृह्यते । ' ते ' अस्थूलत्वादयः । यत इति निश्चिता इति शेषः । अ स्य अतस्ते अक्षरस्य विष्णुत्वनिश्चायका भवन्तीत्युपस्कृतवाक्येना न्वयः । ननु तथाऽपि ते विष्णोरेवेति कथं, यस्मात्तेऽप्राकृतविग्रहे मध्य माक्षरेऽपि सन्ति । नैष दोषः-यतस्ते तत्र भगवदपेक्षयैव सन्ति । अ न्यानपेक्षा एव धर्माह्यत्र हेतुत्वेन विवक्षिताः ॥ ( १५ ) ननु लौकिकपरिमाणादिराहित्यं कथं विष्णोर्युक्तं, लोके स र्वपदार्थानां प्राकृतपरिमाणस्यैव दर्शनादित्यत आह—अस्थूलेति ॥ ' असौ पुरुषोत्तमः ' भगवान् ' अस्थूलोऽनणुरूपो भवति ' प्राकृतलौ किकस्थूलाणुत्वरूपधर्मरहितवपुर्भवति । एवं ' अविश्वो विश्वश्च ' लोकबाह्यभूतो लोकान्तर्गतश्च भवति । तथा विरुद्धधर्मरूपश्च भव ति । लोके परस्परं विरुद्धाः स्थूलत्वाणुत्वादयो धर्माः स्वरूपभूता य स्य स तथोक्तः । कथमित्यतो घटकमाह—ऐश्वर्यादिति । अचिन्त्यै श्वर्यसामर्थ्यादित्यर्थः । ऐश्वर्यादेवेत्यनेन नात्रोपपादकान्तरमन्वेषणीय मित्युक्तं भवति । इति ब्रह्माण्डे इत्यस्य उक्तत्वात् युक्ता इत्यध्याहारे ण ते धर्माः विष्णोर्युक्ता एवेति पूर्ववाक्येनान्वयः ॥ ३ ॥ ॥ इति अक्षराधिकरणम् ॥