भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 304, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 304

[ अधि - ४. सू - १३. ] दीपिकासहितम्. २५७ ४. अधिकरणम् ॥ ( १ ) 'सदेव सोम्येदमग्र आसीत्' ( छा. ६-२. ) इत्यादि ना सतः स्रष्टृत्वमुच्यते । ( २ ) तच्च सत् 'बहु स्यां प्रजायेय' ( छा. ६-२. ) इति परि णामप्रतीतेर्न विष्णुः । ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽनेकप्रकरणात्मकं 'सदेव' इत्यादिस्थानं स मन्वीयते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूच यति—सदिति ॥ 'इत्यादिना' छान्दोग्यवाक्येन । आदिशब्देन 'एक मेवाद्वितीयं, ( छा. ६-२-१. ) तत्तेजोऽसृजत, ( छा. ६-२-३. ) सन्मू लाः सोम्येमाः, ( छा. ६-८-६. ) सता सोम्य तदा सम्पन्नो भवति' ( छा. ६-८-१. ) इत्यादिकं गृह्यते । तच्चेत्यतः तदित्याकृष्यते । तथा च इत्यादिना सतः 'तत्' जन्मनयोक्तं 'स्रष्टृत्वं' अनन्याधीनकारण त्वम् । उपलक्षणमेतत् । सर्वोत्तमत्वसर्वाधारत्वसुप्तिगम्यत्वादिकं च 'उच्यते' प्रतिपाद्यते इति योजना । अनेन जन्माधिकरणोक्तकारण त्वस्य विष्ण्वन्यस्मिन् प्रधाने आक्षेपात्तेनास्य आक्षेपिकी सङ्गतिरुक्ता भवति । तथा विषयवाक्यम्, सदाख्यो विषयश्चोक्तः । 'सदेव' इत्यु द्दालकवाक्यम् । हे 'सोम्य' भक्तिज्ञानलक्षणसोमार्ह श्वेतकेतो 'इदं' अस्य जगतः 'अग्रे' तत्सृष्टेः पूर्वं प्रलये सच्छब्दोक्तं ब्रह्मैवासीत् स्वा तन्त्र्येणेति शेषः । तत्सत् 'एकमेवाद्वितीयं' स्वगतस्वावयवभेदाभे दशून्यं सर्वोत्तमम् । प्रजाः 'सन्मूलाः' सद्ब्रह्मैव मूलं यासां तास्त थोक्ताः । 'तदा' सुप्तौ सता सम्पन्नो भवति सुप्त इति सिद्धान्ते श्रु त्यर्थः । ब्रह्मलक्षणाभिधायकानेकवाक्यसङ्ग्राहकादिशब्दप्रयोगेन सि द्धान्तेऽप्यत्र प्रधानस्य प्रतिपाद्यत्वाभ्युपगमेनानिष्टाभावादधिकरणवै यर्थ्यमिति शङ्का निरस्ता भवति । अत्र प्रकरणे श्रुतानां ब्रह्मलक्षणानां प्रधानेऽसम्भवेन ब्रह्मणोऽपि प्रतिपाद्यत्वेन प्रधानमात्रस्य प्रतिपाद्य त्वानभ्युपगमात् ॥ ( २ ) सयुक्तिकं पूर्वपक्षयति—तच्चेति ॥ चशब्दः प्रधानमिति प दाकर्षकस्त्ववधारणे च । तदित्यावृत्तं विपरिणम्यते । तथा च 'तत्' छान्दोग्ये श्रुतं सत्प्रधानमेव भवेत्, न तु विष्णुः । कुतः ? 'तस्य' स ३३