पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 305, कुल 1267 में से
संदर्भ में पढ़ें२५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( ३ ) स हि 'अविकारस्सदा शुद्धो नित्य आत्मा सदा ह रिः' इत्यादिनाऽविकारः प्रसिद्ध इति । ( ४ ) अतो ब्रवीति— सू—ॐ ॥ ईक्षतिकर्मव्यपदेशात्सः ॥ ॐ ॥ १३ ॥ 'तदैक्षत' इतीक्षतिकर्मव्यपदेशात्स एव विष्णुरत्रो च्यते । तो 'बहु स्याम्' इत्युत्तरवाक्येन बहुभावाख्यपरिणामस्य विकारस्य प्रतीतेरिति योजना । 'प्रजायेय' प्रजनयेयं जगत्सृजानि । तदर्थं 'बहु स्याम्' नियामकबहुरूपी भवेयमिति । 'बहु स्याम्' तदर्थे प्रजायेये- ति वा श्रुत्यर्थः ॥ ( ३ ) विकारित्वप्रतीतावपि कुतोऽयं न विष्णुरित्यत आह—स ही- ति ॥ 'हि' यस्मात् 'सः' विष्णुः 'अविकारः सदा' इत्यादिप्रमाणे नाऽविकारः 'प्रसिद्धः' तत्त्वेन निश्चितस्तस्मात् तदसम्भवात् प्रधाने च तत्सम्भवात् अत्र च विकारप्रतीतेः तत्सत् न विष्णुः, किं तु प्रधा नमेवेति योजना । श्रुतौ द्वितीयस्य सदाशब्दस्य सदाऽविकार इत्यन्व- यः । आद्यस्य तु सदा 'शुद्धो' निर्मल इति ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ सूत्रोक्तं व्य- पदेशं दर्शयति—तदिति । ईक्षतीति धातुनिर्देशेन तदर्थेक्षणक्रिया ल- क्ष्यते । ईक्षतिकर्मेति सामानाधिकरण्यं तत्कर्तृत्वपरम् । तथा च 'तदै- क्षत' इति श्रुतावीक्षणाख्यव्यापारे कर्तृत्वोक्तेरित्यर्थः । यद्वा–कर्मशब्देन सृष्ट्यादिक्रियोच्यते । तथात्वे वैयधिकरण्यम् । ईक्षतिपूर्वकसृष्ट्यादि- व्यपदेशादित्यर्थः । समन्वयसूत्रात्तदित्यस्य अनुषङ्गसम्भवेऽपि 'एको नारायण आसीत्स मुनिर्भूत्वा' ( ) इत्यादिसामाख्यामपि प्रमा- णीकर्तुं स इत्युक्तम् । तदनूद्य विष्णुरिति व्याख्यातम् । विष्णुरेवेत्य- न्वयः । एवेति तुशब्दार्थः । अनेन समन्वयसूत्रात्तुशब्दमात्रमनुवर्तनी- यमिति सूचितम् । सूत्रे समन्वेतव्यानुक्तेराह—अत्रेति । 'सदेव' इत्यादि- स्थान इत्यर्थः । सच्छब्देनेति शेषः । तथा चात्र प्रकरणजाते सच्छब्दे- न य उच्यते, स विष्णुरेव, न तु प्रधानमिति साध्यवाक्यार्थः । अनेन अत्र सदेवेत्यादिस्थाने सच्छब्देनोच्यमानः स विष्णुरेव, न प्रधानम् । कुतः ? 'ईक्षतिकर्मव्यपदेशात् सः' ततः 'तदैक्षत' इतीक्षणाख्यक्रि- याकर्तृत्वश्रवणादीक्षितृत्वसृष्ट्यादिक्रिययोर्वा श्रवणाज्जडप्रकृतौ च