पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 306, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ४. सू - १३.] दीपिकासहितम्. २६९ (५) ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. ५-७-२३.) ‘नान्यदतो ऽस्ति द्रष्टृ’ (बृ. ५-८-११.) इत्यादिना तस्यैव हि त ल्लक्षणम् । (६) बहुत्वं चाविकारेणैवोक्तम् ‘अजायमानो बहुधा वि तदसम्भवादिति सूत्रार्थ उक्तो भवति । सूत्रे सच्छब्देनेति शेषं विना स इत्यस्यावृत्तिः, तत्रैकस्य प्रतीकग्रहणार्थत्वमिति पक्षे ईक्षतिकर्म व्यपदेशात् ‘सः’ ‘सोऽकामयत’ (तै. २-६.) इत्यादिप्रकरणप्रति पाद्यः स विष्णुरेव भवेत्, न प्रधानमित्यर्थोऽवसेयः ॥ (५) नन्वीक्षणकर्तृत्वं विष्णोरिवप्रधानस्य किं न स्यादित्यतश्चेतन स्यापि इह हेतुत्वेनाभिमतं मुख्येक्षणं न सम्भवति, किमु जडस्येत्या शयेन तत्र प्रमाणमाह—नेति ॥ ‘अतो’ ब्रह्मणः सकाशात् ‘अन्यः’ स्वातन्त्र्येण द्रष्टा द्रष्टृ च नास्तीति वाजसनेयप्रकरणद्वयगतवाक्यद्वय स्यर्थः । आदिशब्देनैवंजातीयकं वाक्यं गृह्यते । ‘तस्य’ विष्णोरेव। हिशब्दः प्रसिद्धौ । स्वातन्त्र्येणेक्षणकर्तृत्वलक्षणं लिङ्गं उक्तमिति शे षः । अस्य तस्मान्न लिङ्गस्य अन्यगामित्वं मन्तव्यमित्युपस्कृतवाक्ये नान्त्रयः ॥ (६) ननु विष्णोरविकारितया सिद्धत्वेन तत्र बहुभावाख्यविका रान्वयायोगान्निरवकाशाविकारित्वलिङ्गेनात्रेक्षतिर्गौणो व्याख्येयः । ‘सत्त्वात्सञ्जायते ज्ञानम्’ इति स्मरणात् ज्ञानोपादानतया सिद्धे प्रधा ने तत्कर्तृत्वसम्भवेन तत्र तस्यामुख्यत्वादित्यत आह—बहुत्वं चेति ॥ चस्त्वर्थे । ‘अविकारेण’ विकारित्वं विनैव स्वरूपबहुत्वेनैवेत्यर्थः । इत्यादिनोक्तमित्यन्वयः । तथा च बहुत्वस्य सावकाशत्वात् न तद्बले न ईक्षतेर्गौणत्वं कल्पनीयमिति भावः । यद्वा—‘बहुत्वं’ ‘बहु स्याम्’ इति बहुभाववचनं च ‘उक्तं’ व्याख्यातम् । तथा च इत्येवमादिप्रमा णवाक्येन ‘बहु स्याम्’ इति बहुभाववचनं ‘अविकारेण’ विकारं विनैव नियामकस्वरूपबहुत्वेनैव मुख्यप्रतिपाद्येनैव युक्तमित्युक्तं इति योजना । तथा च—सिद्धान्ते ‘बहु स्याम्’ इत्यस्य तत्तन्नियामकस्वरूपबहुभा वसङ्कल्पोऽर्थ इत्युक्तं भवति । न चैवं नियामकस्वरूपबहुभावसङ्कल्पा नन्तरं नियम्यसृष्टिरयुक्तेति वाच्यम् । गुरुत्वराजत्वादेः शिष्यभृत्य सापेक्षत्वेन तत्सङ्कल्पानन्तरं शिष्यादिसम्पादनवत् नियामकताया नियम्यसापेक्षत्वेन नियामकबहुभावसङ्कल्पानन्तरं तत्सापेक्षनियम्य