पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 310, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - १४. ] दीपिकासहितम्. २६३ स्मिन् सर्वं प्रतिष्ठितम्' (महाना. ११.) इति श्रुतेरिति । ( ३ ) अत आह-- सू— ॐ ॥ दहर उत्तरेभ्यः ॥ ॐ ॥ १४ ॥ 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजि- घत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः सोऽन्वेष्टव्यः त्वं सिध्यतीत्यत आह—स चेति ॥ चस्त्वर्थः, प्रतिज्ञासमुच्चये वा । तथा च यस्सर्वाधारतया हृत्पद्मस्थत्वेन च श्रुत्युक्तः 'स चाकाशो न विष्णुः' भूतमेव न तु विष्णुरित्यर्थः । कुतो वा न विष्णुरित्यत आ- ह—तस्यान्त इति । स चेत्यनुषक्तश्चशब्दोऽत्र बुद्ध्या विविक्तसुषिरप- देनान्वीयतेऽवधारणे चायम् । श्रुतिसमानोक्त्युपलक्षकं चैतत् । तथा च 'तस्यान्ते' इति वाक्ये 'सुषिरपदश्रुतेः' सुषिरशब्द- श्रवणात् सुषिरस्य छिद्रात्मकप्रसिद्धाकाशस्यैव श्रुतेः सर्वाधारतया हृत्पद्मस्थत्वोक्तेः तत्समाख्यानादित्यर्थः । 'तस्य' 'पद्मकोशप्रतीका- शं हृदयं चाप्यधोमुखम्' इतिपूर्ववाक्ये प्रकृतस्य हृत्पद्मकोशस्य 'अन्ते' अन्तरे तन्मध्ये सूक्ष्मं 'सुषिरं' छिद्रमस्ति, तस्मिन् 'सर्वं' जगत्प्रतिष्ठितमिति तैत्तिरीयश्रुत्यर्थः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ 'इत्यादि- भ्यः' इत्यादिरूपेभ्यः 'उत्तरेभ्यः' विषयवाक्यानन्तरभाविभ्यः 'श- ब्देभ्य उक्तेभ्यः' इति शेषः । इत्यादिउत्तरवाक्येभ्य इति पर्यवसिता- र्थः । यद्वा—'गुणेभ्यो' गुणवचनेभ्य इत्यर्थः । हेत्वसिद्धिपरिहारा- य श्रुत्युदाहरणम् । आदिपदेन 'विशोकोऽविजिघत्सोऽपिपासः सत्य- कामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इत्यादिकं गृह्य- ते । गुणेभ्य इत्यनेनोत्तरपदमुत्तरत्रश्रुतानेकशब्दवाच्यगुणोपलक्षक- मित्युकतं भवति । 'दहरे' हृत्पद्मगतल्पाकाशे इत्यनेन सूत्रे 'दहरे' इति सप्तम्यन्तं पदं, न परमत इव प्रथमान्तमित्युक्तं भवति । स्थितोऽ- न्वेष्टव्यतयोक्त इति शेषः । समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य त- च्वित्यस्यार्थो विष्णुरेवेति । अनेन-'यः' इति दहरवाक्यादुत्तरवाक्ये षु तेभ्यो गुणेभ्यो 'दहरे' विजिज्ञास्यतयोक्तो 'तत्तु' विष्णुरेव न भूताका- शादिरिति सूत्रार्थ उक्तो भवति । यो हृत्पद्माकाशगतः परमात्मा 'न व- धेनास्य हन्यते' (छा. ८-१-५.) इति प्राक् शरीरस्य नाशेनावध्यत्वेनो- क्तः सः 'अपहतपाप्मा' नित्यमेव स्वतोऽपहतपाप्मा पापात्यन्ताभाववा-