भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 311, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 311

स विजिज्ञासितव्यः' (छा. ८-७.) इत्यादिभ्य उत्त- रेभ्यो गुणेभ्यो दहरे विष्णुरेव। (४) 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' (बृ. ५-५०) 'स एष सर्वेभ्यः पाप्मभ्य उदितः' (छा. १-६-७.) इत्यादिना विष्णोरेव हि ते गुणाः। (५) नित्यतीर्णोशनायादिरेक एव हरिस्स्वतः। अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि॥ इति पाद्मे॥ निति यावत्। अत एव न तत्कार्यं जरादिकमस्येत्युच्यते-विजर इत्या- दिना। 'अविजिघत्सः' बुभुक्षारहितः। 'अपिपासः' पानेच्छारहित इति। 'बुभुक्षादिना पीडाभाव उच्यते' इति ज्ञानपादीयटीकोक्तं नो- दनपानेच्छाभावोऽभिधीयते, प्रमाणबाधितत्वात्। किन्तु तत्पीडाभा- वः। अत्र हेतुः-सत्यकाम इति। तस्य यदिष्टं तत्स्वत एव भवेदिति सत्यकामः। तत्रापि हेतुः-'सत्यसङ्कल्पः' अप्रतिहतसङ्कल्प इति। य एवं भूतः सोऽन्वेष्टव्य इति श्रुत्यर्थः॥ (४) अपहतपाप्मत्वादिकं कथं विष्णुत्वनिश्चायकं, तद्गतत्वेना- सिद्धत्वादित्यत आह-य इति॥ बृहदारण्यकश्रुतिरियम्। 'अशना- या' अशनेच्छा। 'पिपासा' पानेच्छा। ते 'अत्येति' अतिक्रम्य वर्त- ते। यश्च 'शोकं' दुःखं 'मोहं' मूर्छा 'जरां' मरणं चात्येतीत्यर्थः। अत्रत्यस्य यच्छब्दस्य 'तमात्मानं विदित्वा' इति तच्छ्रुतिस्थतच्छब्दे- नान्न्वयः। 'स एषः' इति छन्दोगश्रुतिः। 'स एषः' परमात्मा 'पा- प्मभ्यः' पापेभ्यः 'उदितः' नित्यं स्वत एवोद्गतः पापरहित इत्यर्थः। 'इत्यादिना' वाक्येन। आदिशब्देन सत्यकामतवादिगुणान्तरबोधक वाक्यानि गृह्यन्ते। हिशब्दो बत इत्यर्थे। ते अपहतपाप्मत्वादिरूपो- त्तरवाक्योक्ताः सिद्धा इति शेषः। तस्माच्च तेषां विष्णुलिङ्गत्वनिश्च- यः इति वाक्यशेषेणास्यान्वयः। अन्यत्र पापाद्यभावस्य कथञ्चिद्योगे- ऽपि सर्वथा सत्यकामतवादिकं न युज्यत इति ज्ञापनायादिशब्दबहुव- चनयोः प्रयोगः॥ (५) तथाऽपि नैते गुणा विष्णोरेव, रमादिष्वपि सम्भवादित्यत आह-नित्येति॥ 'स्वतः' अन्यानपेक्षया नित्यं तीर्णा अशनायादयो येन स हरिरेक एव, नान्योऽस्ति। हरेरन्ये रमाब्रह्मादयस्तु 'अशना-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 311, कुल 1267 में से · BharatKosha