भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 319, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 319

२७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] (१९) सू—ॐ ॥ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ॐ॥१८॥ 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा. ८-१२-३.) 'एष आत्मेति होवाच' (छा.४- १५-१०) इति जीवपरामर्शात्स इति चेत्— (२०) न, तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ १८ ॥ तिविरोधः । तत्र साक्षात्सुषिरस्य सर्वाधारत्वोक्तेरित्यत आह—तद न्तस्येति ॥ बुद्ध्या विविक्तसुषिरश्रुतिपदं षष्ठ्यन्तमत्रान्वीयते । तथा च 'सुषिरश्रुतेः' सुषिरस्याकाशस्यैव साक्षात्सर्वाधारत्वप्रतिपादिकायाः 'तस्यान्ते' इति सुषिरपदघटितश्रुतेः 'तदन्तस्थस्यापेक्षत्वात्' पद्मगतं सुषिरान्तस्थपरमात्मानमपेक्ष्य प्रवृत्तत्वात्तस्य च सर्वाधारत्वान्न सु षिरश्रुतिविरोधोऽस्मदभ्युपगमस्येत्यर्थः । यथा मन्दिरस्थमञ्जूषान्त र्गतमपि वस्तु मन्दिरस्थमिति सङ्गीर्यते, एवमिहापीति भावः । तद् न्तस्थत्वेनेति पाठे परमात्मनः सुषिरान्तस्थत्वमपेक्ष्य श्रुतेः प्रवृत्तत्वा दित्यर्थः ॥ (१९) भगवतो हृत्पद्मस्थत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षे पांशं तावद्व्याचष्टे—इतरेति ॥ 'निष्पद्यते' इत्यनन्तरमित्युक्तस्येति शे षः । अस्य च समासप्रविष्टजीवपदेनान्वयः । अनेन सूत्रे अस्मिन्न स्येत्यस्यानुवृत्तिः । इतरपदं सिद्धान्त्यभिमतब्रह्मप्रतियोगिजीवपरम् । अत एव श्रुतावेष इति जीवपरामर्शः । सिद्धान्ते श्रुत्यर्थस्तु वक्ष्यते ॥ (२०) धृतिसूत्रात् 'अस्यास्मिन् उपलब्धेः' इत्यस्यानुवृत्तिमभि प्रेत्य परिहारांशं व्याचष्टे—नेति ॥ हृत्पद्मस्थो न जीव इत्यर्थः । कु तो नेत्यतस्तत्रानुवृत्तवाक्येन 'अस्मिन्' प्रकरणे 'अस्य' अपहतपाप्म त्वादेरुपलब्धेरित्यस्य हेतोर्लाभात्तमनुपन्यस्योक्तहेतोर्जीवे निरवका शत्वोक्तिपरतयाऽसम्भवादित्यंशं व्याचष्टे—तस्येति । जीवस्येत्यर्थः । मुक्तभावमादाय जीवे सम्भवात् असिद्धिवारणाय—स्वत इति । स्वातन्त्र्येणेत्यर्थः । सत्यकामत्वादिकमादिशब्दार्थः । अनेन—'अस्मि न्' 'परं ज्योतिः' इतिवाक्येऽभिव्यक्तिकर्तृत्वेनोक्तस्य प्रकृतस्योप सम्पत्तिकर्मीभूताद्ब्रह्मण इतरस्यास्य जीवस्यात्मेति 'य आत्मा' इ त्युक्तहृत्पद्मस्थात्मत्वविधानाय 'एषः' इत्येतच्छब्देन 'परामर्शात्' उपस्थापनात् । जीवपरामर्शकैतच्छब्दश्रवणादिति यावत् । दहरे स जीव एव, न विष्णुरिति चेत्—न, हृत्पद्मस्थो जीवः । कुतः ? अ

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 319, कुल 1267 में से · BharatKosha