पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 318, कुल 1267 में से
संदर्भ में पढ़ेंत्रेति परामृश्यते । तथा च 'तत्रापि' पुण्डरीकेऽपि यत् 'दहरं' अल्पं गगनमस्ति तस्मिन् 'अन्तः' अन्तरे 'विशोको' वि शोकं विशोकपदोपलक्षितं जरादिशून्यं यद्ब्रह्म तदुपासितव्यमित्यर्थः। विशोकः इति लिङ्गव्यत्ययः छान्दसः । तत्त्वप्रदीपे तु—लिङ्गव्यत्या स्तस्य पुरुषत्वज्ञापनार्थः । 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्वि शोकः' इत्यादावुदितगुणानामधिकरणैक्यबलेन सन्निधीयमानानाम नुकर्षणार्थश्चेति प्रयोजनमुक्तम् ॥ ( १८ ) ननु साक्षात् पद्मगतस्य विष्णुत्वाभ्युपगमे सुषिरश्रुतिवि रोधः । एवं पद्मगताकाशस्यैव विष्णुत्वाभ्युपगमेऽपि सुषिरश्रुतिविरो धः, सुषिरशब्दस्याकाशवाचित्वात् । एतद्विहाय दहरपद्मस्याकाशत्वं, विष्णोस्त्वाकाशगतत्वं, तस्यैव सर्वाधारत्वमित्युपगमेऽपि सुषिरश्रु