पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 317, कुल 1267 में से
संदर्भ में पढ़ें२७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( १४ ) ' एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ' ( बृ. ५-८-११. ) ' एतस्य वा अक्षरस्य प्रशासने गा- र्गि ' ( बृ. ५-८-९. ) ( १५ ) ' स हि सर्वाधिपतिः स हि सर्वपालः स ईशः स विष्णुः ' ' पतिं विश्वस्यात्मेश्वरम् ' ( महाना. ११० ) इत्यादिभ्रुतिभ्यस्तस्य ह्येष महिमा । ( १६ ) सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः । इति च स्कान्दे ॥ १६ ॥ हृत्पद्मस्थत्वरूपपक्षधर्मोपपादकतयाऽपि योजनीयः ॥ ( १४ ) यदुक्तं सर्वाधारत्वलिङ्गश्रवणात् हृत्पद्मस्थो विष्णुरिति, तत्र सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकं, तत्समानाधिकरणत्वेनासि- द्धत्वादित्यत आह—एतस्मिन्निति ॥ ' एतस्य वा अक्षरस्य प्रशासने ' इति प्रतीकग्रहणेन ' एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम- सौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथि- व्यौ ' इत्यादिबहुवाक्यानि सूचयति । इमान्यक्षरनये व्याकृतानि ॥ ( १५ ) ननु समाख्याश्रुत्युक्तः सर्वेश्वरत्वादिमहिमा कुतो विष्णो- रवगत इत्यत आह—स हीति ॥ ' स हि ' इत्यारभ्य ' स विष्णुः ' इ- त्यन्तमेकं वाक्यं श्रुत्यन्तरगतम् । ' सः ' प्रकृतः । ' हिः ' प्रसिद्धौ । ' पतिं विश्वस्य ' इति नारायणानुवाकस्थं वाक्यम् । ' विश्वस्य ' अ- चेतनप्रपञ्चस्य पतिं ' आत्मेश्वरं ' चेतनेश्वरं नारायणं तद्विश्वमुपजी- वतीत्यर्थः । इत्यादीति । एवमादिश्रुतिवाक्येभ्य इत्यर्थः । आदिशब्देन तज्जातीयं गृह्यते । तृतीयार्थे पञ्चमी । ' तस्य ' विष्णोः ' हिः ' प्रसि- द्धौ हेतौ वा । ' एष सर्वेश्वरः ' ( बृ. ६-४-२२. ) इत्यादिमहिमा । अ- वगत इति शेषः । तस्माच्चैतेषां विष्णुत्वरूपसाध्यसामानाधिकरण्या- सिद्धिरिति वाक्यशेषः ॥ ( १६ ) ननु सर्वेश्वरत्वादिकं विष्णुवदन्यस्यापि किं न स्यादित्यत आह—सर्वेश इति ॥ अत्र सर्वजगच्छब्दौ चेतनाचेतनप्रपञ्चपरौ । यद्वा—जगतः पतिरिति प्रतियोगित्वेनैवोक्तस्यानुवादः । अथवा— ' पतिः ' पालकः । तथा च सर्वेश्वरः सर्वपालकश्च विष्णुरेक एव ना- न्योऽस्तीत्यर्थः । इति स्कान्द इत्यस्य एवकारोक्तपदाध्याहारेण तस्य ह्येष महिमेति पूर्वेणान्वयः । तस्मान्नैतल्लिङ्गानामन्यत्र सावकाशत्वं