भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 321, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 321

२७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( २३ ) यत्प्रसादात्स मुक्तो भवति स भगवान् पूर्वोक्तः ॥ १९ ॥ च्यते स तु परमेश्वरप्रसादादेव 'आविर्भूतस्वरूपः' आविर्भूतो व्यक्तः स्वरूपः अपहतपाप्मत्वादिः स्वधर्मो यस्य स तथोक्तः । अतो न स्व- तोऽपहतपाप्मत्वादिगुणकः, अतो न दहरस्थः जीव इति योजना । ( २३ ) ननु 'परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छां. ८-३-४.) इत्यत्र मुक्तस्याभिव्यक्तापहतपाप्मत्वादिगुणकत्वमेवोच्यते, न तु तद्गुणानां परमेश्वराधीनत्वम् । अतस्तत्स्वत एवेत्यत आह—यदिति ॥ अस्य यच्छब्दस्य द्वितीयतच्छब्देनान्वयः । प्रसादो नाम इच्छाविशे- षः । 'सः' जीवः । पुनः स इत्युक्त्या सूत्रेऽनुवृत्तस्य स इत्यस्यावृत्तिः सू- चिता । पूर्वोक्त इत्यनेन सूत्रे उत्तरत्रेत्यस्य प्रतियोगितया पूर्वत्रेत्युप- स्कार्यमित्युक्तं भवति । तथेति शेषः । तथा च 'यत्प्रसादात्' यस्या- नुग्रहात् 'सः' जीवो 'मुक्तः' अपहतपाप्मत्वादिगुणो भवति 'सः' गुणप्रदाता भगवान् 'पूर्वोक्तः' 'परंज्योतिरुपसम्पद्य' इति पूर्ववा- क्ये 'तथा' गुणप्रदातृतया उक्त इति योजना । अन्यथा ल्यबन्तपदं व्यर्थं स्यादिति भावः । उक्त इत्यनन्तरं यत इति शेषः । अस्यातो नात्र मुक्तगुणप्राप्तेः परमेश्वराधीनत्वोक्त्यभाव इत्युपस्कृतवाक्येना- न्वयः । अथ वा—ननु जीवेऽन्याधीनस्य तद्गुणजातस्य सत्त्वात्स एवा- पहतपाप्मत्वादिनोक्तो हृत्पद्मस्थश्चास्त्वित्यत आह—यदिति । योज- ना तु—यत्प्रसादात्स जीवो जडदेहान्मुक्तो भवति, मुक्तो भूत्वा च सोऽपहतपाप्मत्वादिगुणो भवति, स भगवानेव 'पूर्वोक्तः' 'य आ- त्माऽपहतपाप्मा' (छां. ८-१-५.) इत्यादिपूर्ववाक्ये तथाऽपहतपाप्म- त्वादिनोक्तो न जीवः । दातृप्रतिगृहीत्रोर्मध्ये दातुरेव मुख्यत्वान्मुख्या- मुख्ययोश्च मुख्यस्यैव ग्राह्यत्वादिति ॥ अनेन—अस्य 'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय' (छां. ८ - ३ - ४. ) इत्युक्तस्य जीवस्य 'उत्तरात्' दहरवाक्यापेक्षया प- रामर्शवाक्यापेक्षया वाऽनन्तरात् 'स तत्र पर्येति' इत्यादिवचनात् 'अस्मिन्' पूर्वप्रकृते जीवे 'अस्य' सत्यकामत्वस्य 'उपलब्धेः' प्र- तीतेः, तत एवास्य विशोकत्वादेः सिद्धेश्च । अत एवास्योक्तगुणा- सम्भवाभावात्स हृत्पद्मस्थो जीव एव नेश्वर इति चेत्—न, यतस्त- त्र 'स्वेन' इत्युत्तरवाक्यबलादाविर्भूतस्वरूपो मुक्त उच्यते । स च देहानन्तर्गततया न हृत्पद्मस्थो भवतीति भावः । न च मुक्तस्यापि