भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 322, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 322

[ अधि - ५. सू - २०. ] दीपिका सहितम् २७५ (२४) सू- ॐ ॥ अन्यार्थश्च परामर्शः ॥ ॐ ॥ २० ॥ जीवत्वेन तत्रापहतपाप्मत्वहृत्पद्मस्थत्वयोर्भिन्नकालीनत्वेऽपि सामा- नाधिकरण्योपपत्तेरस्ति पुनस्तस्य प्राप्तिरिति वाच्यम् । यतोऽत्र वाक्ये यो मुक्त उच्यते स उत्तरादुत्तमात्परमेश्वरप्रसादादेवाविर्भूतस्व- रूपो न स्वतः । न चात्र मुक्तस्य तद्गुणत्वमेवोच्यते, न परमेश्वराधी- नत्वं तद्गुणजातस्येति वाच्यम् । यतः पूर्वत्र 'परं ज्योतिः' इति पूर्वे वाक्ये यत्प्रसादात्स मुक्तो भवति स परमात्मा तथा गुणप्रदातृतयो- च्यते । न च यथाकथं चित् जीवस्यापहतपाप्मत्वादिगुणकत्वात्पुनस्त- स्त्राप्तिरिति वाच्यम् । यतो यस्मादुत्तरादुत्तमाद्भगवतस्तत्प्रसादात्स मुक्तः 'आविर्भूतस्वरूपः' अभिव्यक्तापहतपाप्मत्वादिगुणकः स तु भ- गवानेव पूर्वत्र 'य आत्माऽपहतपाप्मा' (छां.८-१-५.) इति पूर्ववाक्ये उ- क्तो, न मुक्तजीव इति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु 'एषः' जीवो य- तः 'सम्प्रसादः' सम्यग्विष्णुप्रसादवान् अतो 'अस्मात् चरमशरीरा- त्' 'समुत्थाय' मुक्तः 'यत्परं ज्योतिः' ब्रह्म 'उपसम्पद्य' प्राप्य स्वेन रूपेण 'अभिनिष्पद्यते' अभिव्यज्यते 'स उत्तमः पुरुषः' परं ज्योतिराख्यः । मुक्तस्य विषयैश्चरणप्रकारमाह - स इति । ' सः ' प्राप्तनिजानन्दाविर्भावो मुक्तः 'तत्र' मुक्तिस्थाने परमात्मानुग्रहेणै- व 'जक्षन्' स्वापेक्षितं भक्षयन् हसन्वा ज्ञातिभिस्सह मुक्तैः अज्ञाति- भिः पूर्वकल्पमुक्तैः 'क्रीडन्' स्त्रीभिः'रममाणः' रतिं प्राप्नुवन् प्राकृत- स्त्र्यादिविषयसौख्यमनुभवन् 'पर्येति' परितः सञ्चरतीति ॥ ( २४ ) ननु 'एषः' इति जीवं परामृश्य ' आत्मा ' इति तस्य हृत्प- द्भस्थात्मत्वाभिधानादमुख्यापहतपाप्मत्वादिगुणोऽपि जीवः एतच्छ- ब्दपरामर्शबलेन हृत्पद्मस्थात्मा किं न स्यादित्याशङ्कां परिहरत्सूत्रमु- पन्यस्य 'इतरपरामर्शात्स इति चेन्न' इत्यनुवृत्तपूर्ववाक्येनापेक्षितं स्य सिद्धान्तप्रतिज्ञायाश्च लाभान्नेत्युक्तसाध्ये हेतुतया सूत्रं व्याच- ष्टे - अन्येति ॥ श्रुतौ 'परंज्योतिः' इति नपुंसकपदनिर्दिष्टस्य यमि- ति पुल्लिङ्गेन निर्देशो लिङ्गस्याविवक्षितत्वाद्वा विशेष्यशब्दविवक्षर्या वा युक्तः । अनेन श्रुतौ परंज्योतिरिति एकं पदम् । यद्वक्ष्यति 'परं ज्योतिःशब्देन परमात्मैवोच्यते' इति, तच्च 'परंज्योतिः परंब्रह्म' इति पौराणिकरूढ्या विष्णुवाचीत्युक्तं भवति । ज्योतिः प्रकाशरूपं